संस्कृत-शब्दकोशः

शूर्म्मी शूलक

शूल

वाचस्पत्यम्

शूल ||‍ पु० न० शूल—क । १ रोगभेदे २ त्रिशूले च अमरः । ३ व्य- थायां ४ मृत्यौ ५ सुतीक्ष्णे अयःफाले धरणिः । ६ चिह्ने मेदि० । ७ मुनिभेदे विष्कम्भादिषु ८ नवमे योगे च पु० । ९ विक्रेतव्ये “अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन्! भविष्यन् युगक्षये” भा० व० १८८ अ० । अट्टशब्दे ९५ पृ० दृश्यम् । शूलरोगभेद नि- दानादिकं भावप्र० उक्तं यथा “अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं निदान- माह “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् । सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः (कर्त्ता)” । अथ वा- तिकस्य विप्रकृष्टं निदानं सम्प्राप्तिपूर्वकं लक्षणञ्चाह “व्या- यामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् । कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिधातात् । क- षायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः । विट्- च्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् । वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वे त्रिकवस्तिदेशे । जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् । मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोद- भेदैः । संस्वेदनाभ्यञ्जनमर्दनाद्यैः सिग्धोष्णभोज्यैश्च शमं प्रयाति” । व्यायामो मल्लयुद्धादिः यानं तुरगरथादि मैथुनं स्त्रीसेवा प्रजागरो रात्रौ, एषामतियोगात् शीत- लजलप्रभूतपानात् कलायस्त्रिपुटः आढकः तुवरी कोरदूषः कोद्रवः । अतिरूक्षद्रव्यसेवा, अध्यशनं भुक्तस्यो- परि मोजनम् अभिधातो लोष्टादिभिः, कषायतिक्तरस- सेवा विरूढजान्नम् विरूढमङ्कुरितमन्नम् कलायच- णकादि तज्जमन्नं भक्ष्यम् । वल्लूरकं शुष्कमांसम् । तस्य शूलस्य देशमाह हृदादिषु तत्र हृच्छूलस्य पृथगपि लक्षणं षठन्ति “कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः । हृदिस्थः कुरुते शूलमुच्छासस्यावरोधकम् । स हृच्छूल इति ख्यातो रसमारुतकोपजः” । अथ पार्श्वर्शूलस्यापि लक्षणमाह “कफं निगृह्य पवनः सूचीभिरिव निस्तु- दन् । पार्श्वस्थः पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम् । तेनोच्छसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति । निद्राञ्च नाप्नुयादेव पार्श्वशूलः प्रकीर्त्तितः” । वस्तिशूलस्यापि लक्षणमाह “संरोधात् कुपितो वायुर्वस्तिं संश्रित्य ति- ष्ठति । वस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते । विण्मूत्रवातसंरोधी वस्तिशूलः स उच्यते” । प्रकृत- मनुसरति जीर्णे भुक्ते प्रदोषे रात्र्यागमे रात्रि भवशीतेन वातप्रकोपात् । घनागमे वर्षासु मेघोदये च तथैव । पैत्तिकमाह “क्षारातितीक्ष्णोष्णविदाहि- तैलनिष्पावपिण्याककुलत्थयूपैः । कट्वम्लसौवीरसुरावि कारैः क्रोधानलायासरविप्रतापैः । ग्राम्यातियोगाद- शगैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम् । तृणूमोह दाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् । मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जलटात्यये च । शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरति भोजनैश्च” । निष्पावो राजमाषः । सौवीरं सन्धान- भेदः । सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरा मता” । तस्या विकारैः । रविप्रतापः आतपः । ग्राम्या- तियोगो मैथुनाधिक्यम् । विदाहीत्युक्त्वापि अशनैर्वि- दग्धैरिति वोधयति अविदाहिवस्तुनोऽप्रि पित्त- वशाद्दिदाहित्वं भवति । जलदात्यये शरदि । शीतैर्वा- तादिभिः । श्लैष्मिकमाह “आनूपबारिजकिलाटपयोवि- कारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः । अन्यैर्बलास- जनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शू- लम् । हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्ति- मितकोष्ठशिरोगुरुत्वैः । भुक्ते सदैव हि रुजं कुरुते- ऽतिमात्रम् सूर्य्योदयेऽथ शिशिरे कुसुमागमे च” । आनूपं बहुलजलदेशजं भक्ष्यम् । वारिजं शालूकादि “पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्चिका । तक्रेण तक्रकूर्चीस्यात्तयोः पिण्डः किलाटकः” । पयोविकारः पायसादिः पिष्टं माषादिः । अन्यैः गुर्वादिभिः । स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोपं शिरश्च तयो- र्गुरुत्वैः सह । सूर्य्योदय इति त्रिधा विभक्तदिवस प्रथमभागस्योपलक्षणम् । शिशिरे तत्र कफस्यातिसञ्च- यात् । कुसुमागमे वसन्ते । द्वन्द्वजमाह “द्विदोषलक्षणै- रेतैर्विद्याच्छूलं द्विदोषजम् । सर्वेषु देशेषु च सर्व- लिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् । सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः” । सर्वेघु देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाशयेषु । सर्व भवं त्रिदोषजम् । आमजमाह “आटोपहृल्लासवमी गुरुत्वस्तैमित्यमानाहकफप्रसेकैः । कफस्य लिङ्गेन स- मानलिङ्गमामोद्भवं शूलमुदाहरन्ति” । अत्रामशूले जाते पश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम् । म च प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्दोषैर्वस्ति- नाभिहृत्पार्श्वकुक्षिषु भवति यथा दोषसम्बन्धः । आमशूलस्य दोषविशेषेण देशविशेषमाह “वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम् । हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्नि- पातात्” । हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ । कफसन्निविष्टं कफनाविष्टम् “वस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः ४ कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः ५ । दाहज्वरकरा घारो विज्ञेयो वातपै त्तिकः” । तन्त्रान्तरोक्तमामशूलमाह “अतिमात्रं यदा भुक्तं पावके मृदुताङ्गते । स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति । यदान्नं न गतं प्राकं तच्छूलं कुरुते भृशम् । मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशं स विलम्बिकम् । कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि । अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः” अविपाकोद्भवम् आमोद्भवमित्यर्थः । अथ श्लस्योपद्रवानाह “बेदनाति तृषा मूर्च्छा आनाहो गौरवारुची । कासः श्वासो वमि- र्हिक्का शूलस्योपद्रवाः स्मृताः” । अथासाध्यत्वादिकमाह “एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विद्रोषजः । सर्वदो- षान्वितो घोरस्त्वसाध्यो भूर्य्युपद्रवः” । अथारिष्टमाह “वेदनातितृषा मूर्च्छा आनाहो गौरवं ज्वरः । भ्वमो- ऽरुत्तिः कृशत्वञ्च बलहानिस्तथैव च । उपद्रवा दशैवेते यस्य शूलेषु, नास्ति सः” । अथ शूलस्यैव भेदं परिमाण- माह “स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा । कफपित्ते समावृत्य शूलाकारो भवेद्बली । भुक्ते जी- र्य्यति यच्छूलं तदेव परिणामजम्” । स्वैर्निदानैरित्या- द्रिना निदानपूर्विका संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्या- दिना लक्षणमुक्तम् । समावृत्य व्याप्य । तस्य लक्षणमप्येतत् समासेनाभिधीयते । “आघ्मानाटोपविण्मूत्रविबन्धा- रतिवेपनैः । स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेत् भि- षक् । तृष्णादाहारतिस्वेदकद्वम्ललवणोत्तरम् । शूलं शीतशमप्रायं पैत्तिकं लक्षयेत् बुधः । छर्द्दिहृल्लाससम्मोह स्वल्परुक् दीर्घसन्तति । कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् । संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् । त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्” । अथान्न द्रवनामानं शूलविशेषमाह “जीर्णे जीर्य्यति चाप्यन्ने यच्छूलमुपजायते । पथ्याप्रथ्यप्रयोगेण भोजनाभोज- नेन वा । न शमं याति नियमात्सोऽन्नद्रव उदाहृतः । नेदं शूलमसाध्यं चिकित्साभिधानात्” । अथ शूले पथ्यापथ्ये भावप्र० दर्शिते यथा “कलाययवगोधूमाः श्यामाकाः कोरदूषकाः । राज- माषाश्च कुलत्थाः कङ्गुशालयः । दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहिषम् । वास्तुकं कारवल्ली च कर्कोटक फलानि च । वर्हिणो हरिणामत्स्या रोहिताद्याः कपिञ्जलाः । एतस्यिन्नामये शस्तामतामुनिचिकित्सकः दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत्क्षीरं दधि- युक्तं क्षीरभित्यर्थः । “व्यायामं मैथुनं मद्यं लवणं कटुकं रसम् । वेगरोधं शुच क्रोकं विदलं शूलवान् त्यजेत्” । स च उपपातकचिह्नं यथोक्तं शाता० कर्मवि० ||‍“जलोदरयकृत्प्लोहशूलरोगव्रणानि च । श्वासा- जीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः । रक्तार्बुदविसर्पाद्या उपपापापोद्भवा गदाः” ।


वाचस्पत्यम्

शूल ||‍ रुजायां भ्वा० पर० अक० सेट् । शूलति अशूलीत् ।


शब्दकल्पद्रुमः

शूलः || पुं, क्ली, (शूलति लोकानिति । शूल रोगे + अच् ।)
रोगविशेषः । अस्त्रविशेषः । वर्शा इति भाला इति च भाषा । इत्यमरः ॥ मृत्युः । केतनः । विष्कम्भादिसप्तविंशतियोगान्तर्गत- नवमयोगः । इति मेदिनी ॥ तद्योगजात- फलम् । यथा, —
“भीतो दरिद्रो दहिताप्रियश्च शूलोद्भवः शूल इव स्वबन्धोः । विद्यामयाभ्यां रहितोऽथ शूली करोति लोके न हितं कदाचित् ॥” इति कोष्ठीप्रदीपः ॥ सुतीक्ष्णः । अयःकीलः । इति धरणिः ॥ (यथा, महाभारते । १ । १०७ । १२ । “ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥”)
व्यथा । इति केचित् ॥ विक्रे तव्यम् । यथा, —
“अट्टशूला जनपदाः शिवशूलाश्चतुष्यथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥” इति महाभारते आदिपर्व्व ॥ * ॥
अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं निदानमाह । “दोषैः पृथक् समस्तामद्वन्द्वैःशूलोऽष्टधा भवेत् सर्व्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥” प्रभुः कर्त्ता ॥ * ॥
वातिकस्य विप्रकृष्टनिदान- संप्राप्तिलक्षणमाह । “व्यायामपानादतिमैथूनाच्च प्रजागराच्छीतजलादिपानात् । कलायमुद्गाढकिकोरदूषात् अत्यर्थरुक्षाध्यशनाभिघातात् ॥ कषायतिक्तातिविरूढजान्न- विरुद्धवल्लूरकशूष्कशाकैः । विट्छुक्रमूत्रानिलसन्निरोधात् शोकोपवासादतिहास्यभाषात् ॥ वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे । जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ॥ मुहर्मुहुश्चोपशमप्रकोपै- र्व्विण्मुत्रसंस्तम्भनतोदभेदैः । सस्वेदनाभ्यञ्जनमर्द्दनाद्यैः स्निग्धोष्णभोज्यैश्च समं प्रयाति ॥” व्यायामो मल्लयुद्धादिः । पानं गुरुगरयादि । मैथनं स्त्रीसेवा । प्रजागरं रात्रौ । एषामति- योगात् । कलायस्त्रिपुटः । आढकी तुवरी । कोरदूषकः कोद्रवः । अत्यर्थरूक्षद्रव्यसेवा । अध्यशनं भुक्तस्योपरि भोजनम् । अभिघातो लोष्टादिभिः । कषायतिक्तरससेवा । विरूढजान्नं विरूढमङ्करितमन्नकलायशाकादि तज्जमन्नं भक्ष्यम् । वल्लूरं शुष्कमांसम् । तस्य शूलस्य देशमाह । हृदयादिषु ॥ * ॥
तस्य हृच्छूलस्य पृथगपि लक्षणं पठति । “कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः । हृदिस्थः कुरुते शूलमुच्छ्वासस्यावरोधकम् । स हृच्छूल इति ख्यातो रसमारुतकोपजः ॥” पार्श्वशूलस्यापि लक्षणमाह । कफं निगृह्य पवनः शूचीभिरिव निस्तुदन् । पार्श्वस्थः पार्श्वयोः शूल कुर्य्यादाध्मानसंयु- तम् । तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति । निद्राञ्च नाप्नु यादेष पार्श्वशूलः प्रकीर्त्तितः ॥” वस्तिशूलस्यापि लक्षणमाह । “संरोधात् कुपितो वायुरस्थि संश्रित्थ तिष्ठति । वस्तिवङ्क्षणनाडीषु ततः शूलस्तु जायते ॥” विण्मु त्रवातसंरोधी वस्तिशूलः स उच्यते ॥” प्रकृतमनुसरति । जीर्णे भुक्ते ॥ प्रदोषे रात्र्या- गमे रात्रिभवशीतेन वातप्रकोपात् । घनागमे वर्षासु मेघोदये च ॥ * ॥
तथैव पैत्तिकमाह । क्षारातितीक्ष्णोष्णविदाहितैल- निष्पावपिण्याककूलत्थयूषैः । कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ॥ ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् । तृण्मोहदाहार्त्तिकरं हि नाभ्यां सस्वे दमूर्च्छाभ्रमशोषयुक्तम् ॥ मध्यं दिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च । शीतेऽतिशीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ॥” निष्पावो राजमाषः । सौवीरं सन्धानभेदः । सुराविकारैः । परिपक्वान्नसन्धानसमुत्पन्ना सुरा मता । तस्या विकारैः । रविप्रतापः आतपः । ग्राम्यातियोगो मैथुनाधिक्यम् । विदाहीत्यु- क्त्वापि अशनैर्व्विदग्धैरिति बोधयति । अवि- दाहिवस्तुनोऽपि पित्तवशाद्विदाहित्वं भवति । जलदात्यये शरदि । शीते शीतकाले । शीतै- र्व्वातादिभिः ॥ * ॥
श्लैष्मिकमाह । “आनुपवारिजकिलाटपयोविकारै- र्म्मांसेक्षुपिष्टकृशरातिलशस्कुलीभिः । अन्यै र्व्वलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ॥ हृल्लासकाससदनारुचिसंप्रसेकै- रामाशये स्तिमितकोष्ठशिरोगुरुत्वैः । भुक्तैः सदैव हि रुजं कुरुतेऽतिमात्रं सूर्य्योदयेऽथ शिशिरे कुसुमागमे च ॥” आनूपं बहुजलदेशजं भक्ष्यम । वारिजं शालू- कादि । किलाटः । “पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्च्चिका । तक्रेण तक्रकूर्च्चो स्यात्तयोः पिण्डः किला- टकः ॥” पयोविकारः पायसादिः । पिष्टं माषादि । अन्यैः गुर्व्वादिभिः स्तिमितमार्द्रचर्म्मावगुण्ठित- मिव यत् कोष्ठं शिरश्च तयोर्गुरुत्वैः सह । सूर्य्योदय इति त्रिधाविभक्तदिवसप्रथमभाग- स्योपलक्षणम् । शिशिरे तत्र कफस्यातिसञ्च- यात् । कुसुमागमे वसन्ते ॥ * ॥
द्वन्द्वजमाह । “द्विदोषलक्षणैरेतैर्व्विद्याच्छूलं द्विदोषजम् ॥” त्रिदोषजमाह । “सर्व्वेषु देशेषु समस्तलिङ्गं विद्याद्भिषक् सर्व्वभवं हि शूलम् । सुकष्टमेनं विषवज्रतुल्यं विवर्ज्जनीयञ्च वदन्ति तज्ज्ञाः ॥” सर्व्वेषु देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाश- येषु । सर्व्व भवं त्रिदोषजं शूलं विन्द्यात् । सुकष्ट- साध्यं विषवज्रतुल्यं मारणात्मकत्वात् ॥ * ॥
आमजमाह । “आटोपहृल्लासवमीगुरुत्वं स्तैमित्यमानाहकफप्रसेकैः । कफस्य लिङ्गेन समानलिङ्ग- मामोद्भवं शूलमुदाहरन्ति ॥ कफस्य कफशूलस्य । आमोद्भवं आमादुद्भवो यस्य तं शूलम् । अत्रामाच्छूले जाते पश्चा- द्दोषसम्बन्धः । अतएव शूलस्याष्टत्वमुक्तम् । स च प्रथममामाशये भवतिपश्चात् सम्बन्धिदोषै- र्वस्तिनाभिहृत्पार्श्वकुक्षिषु भवति यथा दोष- सम्बन्धः ॥ * ॥
आमशूलस्य दोषविशेषेण देश- विशेषमाह । “वातात्मकं वस्तिगतं वदन्ति पित्तात्मकं चापि वदन्ति नाभ्याम् । हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात् ॥” हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ । कफसन्निविष्टं कफेनाविष्टम् ॥ * ॥
तन्त्रान्तरोक्त- मामशूलमाह । “अतिमात्रं यदा भुक्तं पावके मृदुतां गते । स्थिरीकृतन्तु तत् कोष्ठे वायुनावृत्य तिष्ठति ॥ यदान्नं न गतं पाकं तच्छूलं कुरुते भृशम् । मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम् कम्पवातमतीसारं प्रमोहं जनयेदपि । अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः ॥” अविपाकोद्भवं आमोद्भवमित्यर्थः ॥ * ॥
शूल- स्योपद्रवानाह । “वेदनातितृषा मूर्च्छा आनाही गौरवं ज्वरः । भ्रमोऽरुचिः कृशत्वञ्च बलहानिस्तथैव च । उपद्रवा दशैवैते यस्य शूलस्य नास्ति सः ॥” शलस्यैव भेदं परिणाममाह । “स्वैर्निदानैः प्रकुपितो वायुः सन्निहितो यदा कफपित्ते समावृत्य शूलकारी भवेद्बली ॥ भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् ॥” स्वैर्निदानैरित्यादिना निदानपूर्विका संप्राप्ति- रुक्ता । भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम् । समावृत्य व्याप्य ॥ * ॥
अथान्नद्रवनामानं शूल- विशेषमाह । “जीर्णे जीर्य्यत्यजीर्णे वा यच्छूलमुपजायते । पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा । न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ॥” नेदं शूलमसाध्यं चिकित्साभिधानात् ॥ * ॥
अथ शूलस्य चिकित्सा । “वमनं लङ्घनं स्वेदं पाचनं फलवर्त्तयः । क्षारचूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ॥ विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत् । शूलशल्याकुलस्य स्यात् स्वेद एव सुखावहः ॥ मृत्तिकां सजलां पाकाद्धनीभूतां पटे क्षिपेत् । कृत्वा तत्पोटलीं शूली तया स्वेदं विधापयेत् ॥ इति मृत्तिकास्वेदः ॥ “कार्पासास्थिकुलत्थिकातिलयवैरेरण्डमूला- तसी- वर्षाभूषणबीजकाञ्जिकयुतैरेकीकृतैर्व्वा पृथक् स्वेदः स्यादथ कूर्परोदरशिरःस्फिग्जानुपादा- ङ्गली- गुल्फस्कन्धकटीरुजो विजयते निःशेषवाता- र्त्तिहा ॥” इति कार्पासास्थ्यादिस्वेदः ॥ “तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि । शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम् ॥ नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ॥ मदनं मयनफलम् ॥ * ॥
“विश्वमेरण्डमूलन्तु क्वाथं कृत्वा शृतं पिबेत् । हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम् ॥ * ॥
गुडशालियवाः क्षीरं सर्पिःपानं विरेचनम् । जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥” मणीरजतताम्राणां भाजनानि गुरूणि च । तोयेनपरिपूर्णानि शूलस्योपरि धारयेत् ॥ * ॥
विरेचनं पित्तहरं प्रशस्तं रमाश्च शस्ताः शशलावकानाम् । * । सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम् । प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ॥ शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकं रसम् ॥ मधूनि जीर्णगोधूमं कफशूले प्रयोजयेत् ॥” अरिष्टं भेषजक्वाथसिद्धं मद्यम् ॥ * ॥
“लवणत्रयसंयुक्तं पञ्चकोलं सरामठम् । सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् । * आमशूले क्रिया कार्य्या कफशूलप्रणाशिनी । सेव्यमामहरं सर्व्वं मद्यमग्निविवर्द्धनम् ॥ * ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् । प्रयोज्यं मधुसर्पिभ्यां सर्व्वशूलनिवारणम् ॥” तीक्ष्णा राजिका ॥ * ॥
“दारुहैमवतीकुष्ठशताहाहिङ्गुसैन्धवैः । अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ॥ मूलं वैल्वं तथैरण्डं चित्रकं विश्वभेषजम् । हिङ्गु सैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥” वातरोगान्तर्गताध्मानचिकित्सायां लिखितो नाराचनामा रसोऽन्यच्च विरेचनं शूले हितम् ॥ “कुष्माण्ड तनु कृत्वा तु छित्त्वा घर्म्मे विशोषयेत् स्थाल्यां निक्षिप्य तत् सर्व्वं पिधानेन विधाप्य च ॥ चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत् कुशलो जनः । यथा तत्र भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ॥ तदा निर्व्वापयेच्छीतं चूर्णितं चूर्णयेत्तु तम् । माषद्वयमितं तावच्छटीचूर्णञ्च मिश्रितम् ॥ जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः । असाध्यमपि यच्छूलं तदप्ये तेन शास्यति ॥” इति कुष्माण्डक्षारः ॥ * ॥
अथ परिणामशूलस्य चिकित्स । “लङ्घनं प्रथमं कुर्य्याद्वमनं सविरेचनम् । पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ॥ पीत्वा तु क्षीरमाकण्ठमदनक्वाथसंयुतम् । कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम् कषायं वाथ निम्बस्य कटुतुम्बीरसं वचाम् । यथाविधि वमेद्धीमान् पक्तिशूलार्द्दितो जनः ॥ त्रिवृता च तथा दन्त्यास्तैलेनैरण्डजेन वा । दत्तं विरेचनं सद्यः पक्तिशूलं निवारयेत् ॥ विडङ्गं तण्डुलं व्योषं त्रिवृद्दन्तिसचिक्रकम् । सर्व्वाण्येतानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥ गुडेन मोदकान् कृत्वा खादेदुष्णेन वारिणा । जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥” इति विडङ्गादि मोदकः ॥ * ॥
“नागरतिलगुडकल्कं पयसा संपिष्य यः पुमान् लिह्यात् । उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण । पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात् । पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ॥ लोहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा । विलिहन् विनिहन्त्येक शूलं हि परिणामजम् ॥” इति पथ्यादिलोहम् ॥ * ॥
“नारिकेलं सतोयश्च लवणेन सुपूरितम् । मृदाववेष्टितं शुष्कं पक्वं गोमयवह्निना ॥ पिप्पल्या भक्षितं हन्ति शूलं हि परिणा- मजम् । वातिकं पैत्तिकञ्चापि श्लेष्मिकं सान्निपातिकम् ॥” इति नारिकेलक्षारः ॥ * ॥
अथान्नद्रवस्य चिकित्सा । “अन्नद्रावाख्ये शूले तु न तावत् स्वास्थ्यमश्नुते यावत् कटुकपीताम्लमन्नं न च्छर्दयेद्द्रवम् ॥ जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत् । पित्तार्त्तं वमनं कृत्वा कफार्त्तञ्च विरेचनम् ॥ अत्रद्रवे च तत् कार्य्यं जरत्पित्ते यदीरितम् । जरत्पित्तेऽपि तत् पथ्यं प्रोक्तमन्नद्रवे तु यत् ॥ आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् । माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम् ॥ तादृशों सर्पिषा खादेदन्नद्रवनिपीडितः । धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम् । यष्टीचूर्णेन वा युक्तं लिह्यात् क्षौद्रेण तद्गदे । श्यामकतण्डुलैः सिद्धं सिद्धं कोद्रवतण्डुलैः ॥ प्रियङ्गुतण्डुलैः सिद्धं पायसं मसितं हितम् ॥” प्रियङ्गः कङ्गविशेषः । “गौडिकं शौरणं कन्दं कुष्माण्डमपि भक्षयेत् । कलाययवशक्तून् ता शक्तून् वा लाजसंयुतान् ॥” गौडिकं गुडेन संस्कृतं पक्वान्नम् ॥ * ॥
“कुलत्थशक्तू नथवा दध्नाद्याद्दधिकं तथा ॥ चणकानामथो शक्तून् कोद्रवस्यौदनं तथा ॥” दधिकं दध्ना संस्कृतं भक्तम् । महेरि इति लोके ॥ * ॥
“गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम् ॥ ससितं शीतदुग्धेन मृदितं क्वथितं हितम् ॥ अन्नद्रवो दुश्चिकित्स्यो दुर्व्विज्ञे यो महागदः । तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ॥ अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः । तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ॥ कलाययवगोधूमाः श्यामाकाः कोरदूषकाः । राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ॥ दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहिषम् । वास्तूकं कारवल्ली च कर्कोटकफलानि च ॥ वर्हिणो हरिणा मत्स्या रोहिताद्याः कपि- ञ्जलाः । एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ॥” दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत् । क्षोरं दधियुक्तं क्षौरमित्यर्थः ॥ * ॥
“गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम् । त्रिपलं लोहकिट्टस्य तत् सर्व्वं मधुसर्पिषा ॥ समालोड्य समश्नीयादक्षमात्रं प्रमाणतः । आदिमध्यावसानेषु भोजनस्य निहन्ति तत् ॥ अन्नद्रवं जरत्पित्तमम्लपित्तं सुदारुणम् । परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ॥” इति गुडमण्डूरम् ॥ * ॥
“व्यायामं मैथुनं मद्यं लवणं कटुकं रसम् । वेगरोधं शुचं क्रोधं विदलं शूलवान् त्यजेत् ॥” इति शूलामपरिणामशूलान्नद्रवजरत्पित्ताधि- कारः । इति भावप्रकाशः ॥ * ॥
अपि च । “अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः । निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥ * ॥
साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने । घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥” साञ्जनञ्च इत्यत्र ताम्बूलञ्च इति वा पाठः ॥ “चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥” इति गारुडे १८३ । १९५ । १९४ अध्यायाः ॥ किञ्च । “सामद्रं सैन्धवं क्षारो राजिका लवण विडम् । कटु लोहरजः किट्टं त्रिवृत् शूरणकं समम् ॥ दधिगोमूत्रपयसा मन्दपावकपाचितम् । एतच्चाग्निबलं चर्णं पिबेदुष्णेन वारिणा ॥ जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम् । नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ॥ सर्वं शूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥” इति गारुडे १९९ अध्यायः ॥ तस्य उपपापजत्वं यथा, —
“जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिर्भ्रममोहगलग्रहाः । रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥” इति शातातपीयकर्म्मविपाकः ॥


शब्दकल्पद्रुमः

शूल || रुजायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
दीर्घी । शूलति लोकं रोगः । इति दुर्गादासः ॥



Correction: