शब्दकल्पद्रुमः
शृङ्गाटकं || क्ली (शृङ्गाटमेव । स्वार्थे कन् ।)
चतुष्पथम् । इत्यमरः ॥ (यथा, रामायणे । २ । ७१ । ४५ । “तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् ॥”)
जलज-लताफलविशेषः । पानिफल इति शिङ्गाडा इति च भाषा । तत्पर्य्यायः । जलसूचिः २ संघाटिका ३ वारिकण्टकः ४ । इति जटा- घरः ॥ शृङ्गाटः ५ वारिकुब्जकः ६ । इति त्रिकाण्डशेषः ॥ क्षीरशुक्लः ७ जलकण्टकः ८ इति शब्दमाला ॥ शृङ्गाटकः ९ शृङ्गरुहः १० जलवल्ली ११ जलाशयः १२ शृङ्गकन्दः १३ शृङ्गमूलः १४ विषाणी १५ । अस्य गुणाः । शोणितपित्तहरत्वम् । लघुत्वम् । सरत्वम् । वृष्यतमत्वम् । विशेषात् त्रिदोषवातभ्रमशोफ- नाशित्वम् । रुचिप्रदत्वम् । मेहनदार्ढ्यहेतुत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । गुरुत्वम् । विष्टम्भित्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥ खाद्यविशेषः । समूसा इति हिन्दी भाषा ॥ यथा, भावप्रकाशे । “शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले । लवङ्गं हिङ्गुसहितं लवणार्द्रकसंयुतम् ॥ एलाजीरकधन्याकनिम्बूरससमन्वितम् ॥ घृते सगन्धे तद्भृष्टं पूरणं प्रोच्यते बुधैः ॥ शृङ्गाटकं समितया कृतं पूरणपूरितम् । पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत् ॥ मांसं शृङ्गाटकं रुच्यं बृहणं बलकृत् गुरु । वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम् ॥”
शब्दकल्पद्रुमः
शृङ्गाटकः || पुं, (शृङ्गाट एव । स्वार्थे कन् ।)
जल- कण्टकः । इति राजवल्लभः ॥