संस्कृत-शब्दकोशः

शृङ्गाटक शृङ्गारक

शृङ्गार

वाचस्पत्यम्

शृङ्गार ||‍ पु० शृङ्ग कामोद्रेकमृच्छत्यनेन ऋ—अण् । १ रस- भेदे अमरः । २ लवङ्गे ३ सिन्दूरे ४ चूर्णे च मेदि० । शृङ्गं कारणत्वेन ऋच्छति अण् । ५ कालागुरुणि रा- जनि० ६ आर्द्रके शब्दच० । शृङ्गं प्राधान्यमृच्छत्यनेन अण् । ७ भूषणे ८ गजभूषणे च । स्वार्थे क । सिन्दूरे “पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा । सा शृङ्गार इति ख्याता रतिक्रीडादिकारणम्” इत्युक्ते ९ स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाभेदे च रसभेदलक्षणा- दिकं सा० द० उक्तं यथा “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तसप्रकृति- प्रायो रसः शृङ्गार इष्यते । परोढां वर्जयित्वात्र वेश्याञ्चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्द- क्षिणाद्याश्च नायकाः । चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् । भूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः । त्थ- क्त्वोग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः । स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः” । “शून्यं वासगृह- मित्यादि” । अत्र उक्तस्वरूपः पतिरुक्तस्वरूपा च बाला आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः । चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ । एतै० रभिव्यक्तः सहृदयरतिभावः शृङ्गाररूपतां भजते । तद्भे- दावाह । विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः” । तत्र विप्रलम्भो विप्रलम्भशब्दे उक्तः सम्भोगस्तु “दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्ता- वन्योन्यं सम्भोगोऽयमुदाहृतः” । आदिशब्दादन्योन्या- धरपानचुम्बनादयः । यथा “शून्यं वासगृहमित्यादि” । “संख्यातुमशक्यतया चुम्बापरिरम्भणादिबहुभेदात् । अयमेक एव धीरैः कथितः सम्भोगशृङ्गारः । तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथास्तमयः । जलकेलिवन- विहारप्रायमधुपानयामिनीप्रभृतिः । अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च” । तथा च भरतः “यत्किञ्चि- ल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणो- पनीयते उपयुज्यते” । किञ्च “कथितश्चतुर्विधोऽसा० वानन्तर्य्यात्तु पूर्बरानादेः” । यदुक्तम् “न विना वि प्र- लम्भेण सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान्रागो विवर्द्धते” ।


शब्दकल्पद्रुमः

शृङ्गारं || क्ली (शृङ्गं प्राधान्यं ऋच्छतीति । ऋ + अण् ।)
लवङ्गम् । सिन्दूरम् । चूर्णम् । इति मेदिनी ॥ आर्द्रकम् । इति शब्दचन्द्रिका ॥ कालागुरुः । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

शृङ्गारः || पुं, (शृङ्गं कामोद्रे कमृच्छतीति । ऋ गतौ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् । यद्वा, शॄ हिंसायाम् + “भृङ्गारशुङ्गारौ ।” उणा० ३ । १३६ । इति आरन्प्रत्ययेन साधुः ।)
सुरतः । नाट्यरसः । गजभूषणम् । इति मेदिनी ॥ * ॥
नाट्यरसस्य लक्षणं यथा, —
“पुंसः स्त्रियां स्त्रियाः पुंसि संयोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥” इत्यमरटीकायां भरतः ॥ अपि च । “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ परोढां वर्जयित्वात्र वेश्याञ्चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ॥ त्यक्तोग्र्यमरणालस्यजुगुप्साव्यभिचारिणः । स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥” स च द्विधा । विप्रलम्भः संभोगश्च । इति साहित्यदर्पणम् ॥ अन्यत् मैथुनशब्दे द्रष्ट- व्यम् ॥ * ॥
शृङ्गारादिभङ्गे नरको यथा, —
“शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च । स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४२ अध्यायः ॥



Correction: