वाचस्पत्यम्
शैल || न० शिलायां भवः अण् । १ शैलेये गन्धद्रव्यभेदे । २ तार्क्ष्यशैले मेदि० । ३ शिलाजतुनि च राजनि० । शिलाः सन्त्यस्य प्रज्ञा० अण् । ४ पर्वते पु० अमरः ।
शब्दकल्पद्रुमः
शैलं || क्ली (शिलाया भवम् । शिला + अण् ।)
शैलेयम् । तार्क्ष्यशैलम् । इति मेदिनी ॥ शिला- लतु । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
शैलः || पुं, (शिलाः सन्त्यत्रेति । शिला + ज्योत्स्ना- दित्वादण् ।)
पर्व्वतः । इत्यमरः ॥ (यथा, रघुः । ४ । ७१ । “ततो गौरीगुरु शैलमारुरोहाश्वसाधनः । वर्द्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥” शिलासम्बन्धिनि, त्रि । यथा, भागवते । ११ । २७ । १२ । “शैलीदारुमयी लौही लेप्या लेख्या च सैकती मनोमयी दारुमयी प्रतिमाष्टविधा स्मृता ॥”)