वाचस्पत्यम्
शैव || न० शिवमधिकृत्य कृतो ग्रन्यः अण् । वेदव्यासप्रणीते शिवप्रभाववर्णनात्मके १ महापुराणभेदे । शिवो देवताऽस्य अण् । २ शिवभक्ते त्रि० । तस्मेदमण् । ३ शिवसम्बन्धिनि त्रि० ४ शैवले न० शब्दच० । शैवञ्च महापुराणं वायुना प्रोक्तत्वात् वायवीयनाम्ना- ख्यातम् अतएव “अष्टादश पुराणानि पुराणज्ञाः प्रच- क्षते । ब्राह्म पाद्मं वैष्णवञ्च शैवं भागवतं तथा” हेमा० व्र० विष्णुपु० “शैवं यद्वायुना प्रोक्तम्” तत्रैव कालिकापु० उक्तम् । हेमा० दा० मत्स्यपुराणे तु चतुर्थं वायवीयत्वेन पठित्वा “श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् । तत्र यद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् । चतुर्विंशति- माहस्रं पुराणं तदिहोच्यते । श्रावण्यां श्रावणे मासि गुडधेमुसमन्वितम् । यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने । शिवलोके स गूढात्मा कल्पमेकं वसेन्नरः” तथा च शिवमाहात्मवेदकत्वाच्छैवमिति तस्य नामान्तरं विष्णुपु० उक्तम् । वायुना प्रोक्तत्वाच्च वायवीयमिति नामा- न्तरमिति बाध्यम् । तत्प्रतिपाद्यविषयाश्च नारदीयपु० उक्ता यथा “शृणु वत्स! प्रवक्ष्यामि पुराणं वायवीयकम् । यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः । चतुर्थविंशति- साहस्रं तत्पुराणं प्रकीर्त्तितम् । श्वेतकल्पप्रसङ्गेन धर्मा- गटत्राह मारुतः । तद्वायवीयमुदितं भागद्वयसमाचितम्” तत्र पूर्वभागे “सर्गादिलक्षणं यत्र प्रोक्तं विप्र! सवि- स्तरम् । मन्वन्तरेषु वंशाश्च राज्ञां ये तत्र कीर्त्तिताः । गयासुरस्य हननं विस्तरात् यत्र कीर्त्तितम् । मासानां चात्र माहात्म्यं पाथस्योक्तं फलाधिकम् । दानधर्मा राज- धर्मा त्रिस्तरेणोदितास्तथा । भूपातालककुब्व्योमचारिणां तत्र निर्णयः । व्रतादीनां च पूर्व्योऽयं विभागः समुदा- हृतः” । उत्तरभागे “उत्तरे तस्य भागे तु नर्मदातीर्थव- र्णनम् । शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर! । यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः । स तु सर्वात्मना यस्यास्तीरे तिष्ठति सन्ततम् । इदं ब्रह्मा हरिरिदं साकाक्षेदं परो हरः । इदं ब्रह्म निराकारं कैवल्यं वर्मदाजनम् । घ्रुवं लोकहितार्थाय शिवेन स्वशरीरतः । शक्तिः नापि सरिद्रूपा लेखेयमवतारिता । ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसन्ति याम्यतीरे, ये लोकं ते यान्ति वैष्णवम् । ओङ्कारेश्वरमारभ्य यावत् पश्चिम- सागरम् । सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनाः । दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे । पञ्चत्रिंशत्तमः प्रोक्तोरेबासागरसङ्गमः । सङ्गमैः सहितान्येवं रेवातीर द्वयेऽपि च । चतुःशतानि तीर्थानि प्रसिद्धाति च सन्ति हि । पंष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर! । सन्ति चान्यानि रेवायास्तीरयुग्मे पदे पदे । संहितेयं महा पुण्या शिवस्य परमात्मनः । नर्मदाचरितं यत्र वायुना परिकीर्त्तितम् । लिखित्वेदं पुराणन्तु गुडधेनुसम- न्वितम् । श्रावण्यां यो ददेत् भक्त्या ब्राह्मणाय कुटु- म्बिने । रुद्रलोके वसेत् सोऽपि यावदिन्द्राश्चतुर्दश । यः श्रावयेद्वा शृणुयात् वायवीयमिदं नरः । नियमेन हवि- ष्यासी स रुद्रो नात्र संशयः” । ५ वसुके ६ धस्तूरे पु० राजनि० ७ आचारभेदे पु० “अष्टाङ्गयोगसंयुक्तो यजे- द्देवीं विधानतः । यावद् ध्यानं समाधिञ्च तावत् शैवं प्रचक्षते” च वारभेदतन्त्रम् । तदुपासकभेदाश्च शिवलिङ्ग- शब्दे वामनपु० उक्ता दृश्याः ।
शब्दकल्पद्रुमः
शैवं || क्ली शैवालः । इति शब्दचन्द्रिका ॥ (शिवमधिकृत्य कृतो ग्रन्थः । शिव + अण ।)
शिवपुराणम् । यथा —
“अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते । ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वे विष्णुपुराणम् ॥ (शिवस्येदमिति । शिव + अण् ।)
शिवसम्ब- न्धिनि, त्रि (यथा । कथासरित्सागरे । ४० । ८९ । “प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ॥”)
शैवः, पुं, (शिव + अण् ।)
वसुकः । धुस्तूरः । इति राजनिर्घण्टः ॥ आचारविशेषः । यथा, —
“अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः । यावद्ध्यानं समाधिश्च तावत् शैवः प्रचक्षते ॥” इत्याचारभेदतन्त्रम् ॥ * ॥
शिवोपासकः । तत्पर्य्यायः । और्द्ध्वश्रोतसिकः २ इति त्रिकाण्डशेषः । एतद्भेदा यथा —
“ततश्चकार भगवान् चातुर्व्वर्ण्यं हरार्च्चने । शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानिच आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ! । तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ॥ शैव आसीत् स्वयं शक्तिर्व्व शिष्टस्य प्रियः सुतः । तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥ महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥ कालास्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्यो वको वश्यो नाम्ना क्राथेश्वरो मुने ॥ महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् । कुल्लोदर इति ख्यातो जात्या शूद्रो महातपाः ॥ एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥” इति वामने ६ अध्यायः ॥ * ॥
तस्य स्वरूपं यथा । आयान्तं शैवमालोक्याह । “श्रीमानसावेति जटालमौलि- र्व्याघ्रत्वगालम्बितमध्यभागः । विभूतिसंभूषितभास्वदङ्गो रुद्राक्षमालाकलितोर्द्ध्वदेहः ॥” इति विद्वन्मोदतरङ्गिण्यां २ तरङ्गः ॥