वाचस्पत्यम्
शौच || न० शुचेर्भाद्धः अण् । १ शुद्धौ पवित्रतायाम् “अभक्ष्य- परिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यपस्थानं शौचमित्यभिधीयते” इति वृहस्पत्युक्ते २ धर्मविशेषे च “सर्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽथार्थैर- शुचिः शौचान्न मृदा बारिष्णा शुचिः । मलशौचं मनः- शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जल- शौचन्तु पञ्चमम् । यस्य सत्यञ्च शौचं च तस्य स्वर्गो न दुर्लभः” गारुडे ११० अ० । मृदादिशौचप्रकारस्तु आ० त० दर्शितो यथा देबलः “धर्मविद्दक्षिणं हस्तमवः शौत्ते न योजयेत् । तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत् । प्रकृतिस्थिति- रेषा स्यात् कारणादुभयक्रिया” । कारणाद्रोगादेः । ब्रह्माण्डपु० “उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः । उदङ्मुखो दिवा कुर्य्यात् रात्रौ चेद्दक्षिणामुखः । सुनि- र्णिक्ते मृदं दद्यात् मृदन्ते त्वप एव च । दातव्यमुदक तावद् यावत् स्यात् मृत्तिकाक्षयः” । कुर्य्यात् शौचमिति शेषः । सुनिर्णिक्ते नरद्वाजोक्तलोष्ट्रदिप्रमृष्टे गुदे । उ- दकपात्राभावे करेण जलाशयादुदकग्रहणमाह आ- दित्यपु० “रत्रिमात्रं जलं त्यक्त्वा कुर्य्यात् शौचमनु- द्धृते । पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्” । य- स्मिन् प्रदेशे शौचं कर्त्तव्यं तस्मादरत्निमात्रव्यवहितं जलं तत् स्थलमेव तीर्थं जलसमीपत्वात् । विष्णुपु० “बल्मी- कमूषिकोत्खातां मृदमन्तर्जलां तथा । शौचावशिष्टां गे- हाच्च नादद्यात् लेपसम्भवाम् । अन्तःप्राण्यवपन्नाञ्च हलोत्खातां सकर्दमाम्” । मनुदक्षौ “एका लिङ्गे गुदे तिस्रो दश वामकरे तथा । उभयोः सप्त दातव्या मृदः शद्धिमभीप्सता” । उभयोः करयोः । विष्णुंपु० “एका- लिङ्गे गुदे तिस्रो दश वामकरे तथा । हस्तद्गये च सप्ता- न्या मृदः शौचोपपादिकाः” । यमः “लिङ्गे त्वेका गुदे तिस्रो वामहस्ते चतुर्दश । ततः पुनरुभाभ्यात दातव्याः सप्त मृत्तिकाः” । प्रैठीनसिः “मृत्तिकां संगृह्य एका लिङ्गेऽपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त” इव्यादि । एतासां संख्यानां दक्षाद्युक्ताधिक्यं गन्धा- द्यनुवृत्तिमनुरुध्य व्यवस्थेयम् । वामहस्ते दशदानान- न्तरं तत्पृष्ठे षड्दानमाह हारीतः “दश मध्ये च षट्- पृष्ठे इति” । शङ्दक्षौ “तिस्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम् । तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः” । नखशोधनं तृणादिना नखान्तर्मलशोधनम्, तिस्र इति हस्तयोरिति शेषः । पादप्रक्षालनं कांस्ये न कर्त्तव्यमित्याह विष्णुधर्मोत्तरम् “दर्भैर्न मार्जयेत् पादौ न च कांस्येन धावयेत्” । दक्षः “लिङ्गे तत्र समाख्या- ता त्रिपर्वी पूर्य्यते यया । अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तदर्द्धार्द्धा प्रकीर्त्तिता” । यदा तु उक्तप्रमाणया मृदा गन्धलेप- क्षयो न भवति तदा अधिकयापि कर्त्तव्यम् । “गन्धलेप- क्षयकरं शौचं कुर्य्यादतन्त्रितः” इति याज्ञवल्क्यात् । गुदादत्थत्र परिमाणमाह यमः “मृत्तिका तु समुद्विष्टा त्रिपर्वी पूर्य्यते यया” । त्रिपर्वी तर्जनीमध्यमानामि कानामग्रत्रयम् । मूत्रमात्रेति स्मृतिः “एकां लिङ्गे मृदं दद्यात् वामहस्ते तु मृतत्रयम् । उभयोर्हस्तयोर्द्वे च मूत्रशौचं प्रकीर्त्तितम्” । व्रह्मपुराणे “पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिमान् । द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” । पादयोर्द्वे एकैका । इदं मूत्रोत्सर्गे, पुरीषोत्सर्गे तिसृणां विधानात् । दक्षः “यथोदितं दिवा शौचं अर्द्धं रात्रौ विधीयते । आतुरे तु तदर्द्धं स्यात्तदर्सं तु पथि स्मृतम्” । यथोक्तकरणा- शक्तावेवेदं न तु निशादिपुरस्कारेणैव वाक्यस्यादृष्टार्थता- पत्तेः । आपस्तम्बः “पथि पादस्तु विज्ञेय आर्त्तः कु- र्य्याद् यथाबलम्” । एतयोर्विरोध आर्त्तानार्त्ताभ्यां परि- हरणीयः । दक्षबौधायनौ “देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रक- ल्पयेत्” । ब्रह्मपुराणे “म यावदुपनीयेन द्विजः शूद्रस्त- धाङ्गना । गन्धलेपक्षयकरं शौचं तेषां विधीयते । प्र- माणं शौचसंख्या वा न शिष्टैरुपदिश्यते । यावत् शुद्धिं म ग्रम्येत तावत् शौचं समाचरेत् । म्यूमाधिकं न कर्त्तष्यं शीचं शुद्धिममीप्सता । प्रायश्चित्तं प्रसज्येत विहितातिक्रमे कृते । शौचाचारविहीनस्य समस्ता नि- स्पत्वाः कियाः” । गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं ग्राज्ञवल्क्यविरोधात् । गन्धलेपाक्षये त्वधिकसंख्ययापि याज्ञवल्क्यवचनमनुपनीतादिपरं वा । व्याघ्रपादः “शौ- चन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरन्तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् । गङ्गातोयेन कृत्- स्नेन मृद्भारैश्च नगोपमैः । आमृत्योः स्नातकश्चैव भाव- दुष्टो न शुद्ध्यति” । स्मृतिः “धावन्तञ्च प्रमत्तञ्च मूत्रो च्चारकृतन्तथा । भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवा- दयेत् । जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत् । सर्वं तन्निष्फलं याति एकहस्ताभिवादनात्” । ऋष्यशृङ्गः “यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत् । न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत्” । शौचान- न्तरं हारीतः “गोमयेन मृदा वा कमण्डलुं प्रमृज्य पूर्ववदुपस्पृश्य आदित्यं सोममग्निं वा वीक्षेत” इति । अत्र मार्जनानन्तरं क्षालनमन्यत्र तथा दर्शनात् । आच- मनानन्तरं सूर्य्यादिदर्शनं यथासम्भबम्” ।
शब्दकल्पद्रुमः
शौचं || क्ली (शुचेर्भावः । शुचि + “इगन्ताच्च लघु पूर्व्वात् ।” ५ । १ । १३१ । इत्यण् ।)
शुचिता । शुचित्वम् । शुद्धिः । तस्य लक्षणादि यथा, —
“अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः । स्वधर्म्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम् ॥” इत्येकादशीतत्त्वे बृहस्पतिवचनम् ॥ अन्यच्च । “सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा शुचिः ॥ सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम् ॥ यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥” इति गारुडे ११० अध्यायः ॥ अपिच । “यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यते ॥ शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त- रम् ॥” इति गारुडे २१५ अध्यायः ॥ पादादिशौचगुणा यथा, —
“मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः ॥” इति राजवल्लभः ॥ अपि च । “उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद यत्नतः । कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ प्रसङ्गादशौचञ्चात्र लिख्यते । व्यास उवाच । “दशाहं प्राहुरशौचं सपिण्डेषु विपश्चितः । मृतेषु चाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ नित्यानि चैव कर्म्माणि काम्यानि च विशेषतः । न कुर्य्याद्विहितं किञ्चित् स्वाध्यायं मनसापि च शुचीननिधनांस्त्वन्यान् शालाग्नौ हावयेद्द्विजान् शुष्कांन्नेन फलैर्व्वापि वैतानाजुहुयात्ततः ॥ * ॥
न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् । चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः ॥ सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति । सूतकं सूतिकाञ्चैव वर्ज्जयित्वा नृणां पुनः ॥ दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे । एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः ॥ दशाहात्तु परं सम्यगधीयीत जुहोति च । चतुर्थे तस्य संस्पर्शं मनुः प्राह प्रजापतिः ॥ * ॥
क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥ * ॥
त्रिरात्रं दशरात्रं वा ब्राह्मणानान्तु शावकम् । प्राक् संस्कारात् त्रिरात्रं स्यादस्मादूर्द्धं दशा- हकम् ॥ ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ॥ आदन्तजातमरणे पित्रोरेकाहमिष्यते । जातदन्ते त्रिरात्रं स्याद्यदि स्यातान्तु निर्गुणौ ॥ आदन्तजननात् सद्य आचूडादेकरात्रकम् । त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः । सद्यःशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ॥ ऊर्द्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः । अथोर्द्धं दन्तजननात् सपिण्डानामशौचकम् ॥ एकाहं निर्गुणानान्तु चूडादूर्द्धं त्रिरात्रकम् । अदन्तजातमरणं सम्भवेद्यदि सत्तमाः ॥ एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः । व्रतादेशात् सपिण्डानामर्व्वाक् स्नानं विधीयते । सर्व्वेषामेव गुणिनामूर्द्ध्वन्तु विषमं पुनः ॥ * ॥
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्याद्गर्भसंस्रवः । तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥ अतऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् । सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः ॥ गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे । यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ * ॥
यदि स्यात् सूतके सूतिर्म्मरणे वा मृतिर्भवेत् । शेषेणैव भवेच्छुद्धिरहःशेषे त्रिरात्रकम् । मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ॥ अघवृद्धिमदाशौचमूर्द्धञ्चेत्तेन शुध्यति । अथ चेत् पञ्चमों रात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति ॥ * ॥
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु । तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ * ॥
अतीते मृतके प्रोक्तं सपिण्डानां त्रिरात्रकम् । तथैव मरणे स्नानमूर्द्ध्वं संवत्सराद्यदि ॥ वेदार्थविदधीयानो योऽग्निमान् वृत्तिकर्षितः । सद्यःशौचं भवेत्तस्य सर्व्वावस्थासु सर्व्वदा ॥ स्त्रीणामसंस्कृतानान्तु प्रदानात् परतः सदा । सपिण्डानां त्रिरात्रं स्यात् संस्काराद्भर्त्तुरेव च ॥ अतस्तद्दत्तकन्यानामशीचं मरणे स्मृतम् । ऊनद्विवर्षान्मरणे सद्यःशौचमुदाहृतम् ॥ आदन्तात् सोदरे सद्य आचौडादेकरात्रकम् । आप्रदानात् त्रिरात्रं स्याद्दशरात्रमतः परम् ॥ मातामहानां मरणे त्रिरात्रं स्यादशौचक म् । एकोदकानां मरणे सूतके चैतदेव हि । पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ॥ एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणाम् । प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितिः ॥ गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः । परपूर्व्वासु भार्य्यासु पुत्त्रेषु कृतकेषु च ॥ त्रिरात्रं स्यात्तथाचार्य्ये स्वभार्य्यास्वन्यगासु च ॥ आचार्य्यपुत्त्रे पत्न्याश्च अहोरात्रमुदाहृतम् ॥ एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च । त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ॥ एकाहं वा श्वशुर्य्ये स्यादेकरात्रञ्च शिष्यके । त्रिरात्रं श्वश्रूमरणे श्वशुरे चैतदेव हि ॥ सद्यःशौचः समुद्दिष्टं सगोत्रे संस्थिते सति ॥ * ॥
शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ * ॥
क्षत्त्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः । तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु । स्वमेव शौचं कुर्य्यातां विशुद्ध्यर्थं न संशयः ॥ सर्व्वेतूत्तमवर्णानां शौचं कुर्य्युरतन्द्रिताः । उद्वर्णविधिदृष्टेन स्वन्तु शौचं स्वयोनिषु ॥ षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण तु । वैश्यक्षत्त्रियविप्राणां शूद्रे ष्वाशौचमेव तु ॥ अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः । शूद्रक्षत्त्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ षड् रात्रं द्वादशाहञ्च विप्राणां वैश्यशूद्रयोः । अशौचं क्षत्त्रिये प्रोक्तं क्रमेण द्विजपुङ्गव ॥ शूद्रविट्क्षत्त्रियाणान्तु ब्राह्मणे संस्थिते सति । दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ * ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ यद्यन्नमत्ति तेषान्तु त्रिरात्रेण ततः शुचिः । अनदन्नन्नमह्नै व न च तस्मिन् गृहे वसन् ॥ सोदरेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु । दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति ॥ षड्रात्रेणाथवा सर्व्वे त्रिरात्रेणाथवा पुनः । अनाथञ्चैव निर्हृत्य ब्राह्मणं धनवर्ज्जितम् ॥ स्नात्वा संप्राश्य तु घृतं शुध्यन्ति व्राह्मणादयः । अवरश्चेद्वरं वर्णमवरं वा वरो यदि ॥ अशौचे संस्पृशेत् स्नेहात्तदाशौचेन शुध्यति ॥ * ॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः । स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ एकाहात् क्षत्त्रिये शुद्धिर्वैश्यानां स्यात् द्व्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ * ॥
अनस्थिसञ्चिते शूद्रे रौति चेद्ब्राह्मणः स्वकः । त्रिरात्रं स्यादथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ अस्थिसञ्चयनादर्व्वागेकाहं वेश्यशूद्रयोः । अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ अनस्थिसञ्चिते विप्रे ब्राह्मणो रौति चेत्तदा । स्नानेनैतद्भवेच्छुद्धिः सचेलेन न संशयः ॥ * ॥
यस्तैः सहाशनं कुर्य्याच्छयनादीनि चैव हि । बान्धवो वा परो वापि स दशाहेन शुध्यति ॥ * ॥
यस्तेषामन्नमश्नाति सकृदेवापि कामतः । तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥ यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः । तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ दाहाद्यशौचं कर्त्तव्यं द्बिजानामग्निहोत्रिणाम् । सपिण्डानान्तु मरणे मरणादितरेषु च ॥ * ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावम्तु जन्मनाम्नोरवेदने ॥ पिता पितामहाश्चै व तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥ अनूढानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् जायानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः ॥ ये चैकजाता बहवो भिन्नयोनय एव च । भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपौरुषम् ॥ * कारवः शिल्पिनो वैद्या दासी दासस्तथैव च । दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ ॥ सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः । राजा चैवाभिषिक्तश्च विप्राः सत्रिण एव च ॥ यज्ञे विवाहकाले च देवयागे तथैव च । सद्यःशौचं समाख्यातं दुर्भिक्षे वाप्यवद्रवे ॥ डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः । सद्यःशौचं समाख्यातमज्ञातिमरणे तथा ॥ अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके । ब्राह्मणार्थे च संन्यस्ते सद्यःशौचं विधीयते ॥ * ॥
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्त्त्यते सद्भिः पतिते च तथा मृते ॥ पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्तिसञ्चयः । न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं क्वचित् ॥ व्यापादयेदथात्मानं स्वयं योऽग्निं विषादिभिः । विहितंतस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ * अथ कश्चित् प्रमादेन मृइयतेऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्य्यञ्चैवोदकादिकम् । * । जाते कुमारे तदहः कामं कुर्य्यात् प्रतिग्रहम् । हिरण्यधान्यगोवासस्तिलान्नगुडसर्षपान् ॥ फलानि पुष्पं शाकञ्च लवणं काष्ठमेव च । तोयं दधि घृतं क्षीरमौषधं तैलमेव च । अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः ॥” इति कौर्म्मे उपविभागे २२ अध्यायः ॥ अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम् ॥