शौच
शौचिक
शौचाचार
शब्दकल्पद्रुमः
शौचाचारः || पुं, (शौचः आचारः ।)
शुद्धिकर्म्म । यथा, —
“शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥” इत्याह्निकाचारतत्त्वे ब्रह्मपुराणम् ॥ अन्यच्च । “उपनीय गुरुः शिष्यं महाव्याहृतिपूर्व्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥” इति याद्मवल्क्यः ॥