शौचम् (नपुंसकलिङ्ग)
अर्थ−
१. चोखोपन/ शुद्धपन,
२. आशौच (जुठो वा सूतक)को चोख्याइ,
३. सफाइ/ सफापन,
४. दिशा, पिसाव वा स्नान आदि गर्नु,
५. इमान्दारी ।
“सर्वेषामेव शौचानामर्थशौचं विशिष्यते ॥
यऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा शुचिः ॥
सत्याशौचं मनः शौचं शौचमिन्द्रियनिग्रहः ॥
सर्वभूतदया शौचं जलशौचन्तु पञ्चमम् ॥
सस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥
यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् ॥
प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यन्ते ॥
शौचन्तु द्विविधं प्रोक्तं बाह्यमाभ्यान्तरं तथा ॥
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम् ॥”
(गरुडपुराण,
११० अध्याय)
“अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः ॥
स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्तितम् ॥”
(बृहस्पति-एकादशीतत्त्व)