वाचस्पत्यम्
शौद्धोदनि || न० शुद्धोदनस्यापत्यम् इञ् । बोधमुनिभेदे अमरः
शब्दकल्पद्रुमः
शौद्धोदनिः || पुं, (शुद्धोदनस्यापत्यं पुमानिति । शुद्धोदन + “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
शाक्यवंशावतीर्णबुद्धमुनिविशेषः । इत्य मरः ॥ “शुद्धमोदनस्य इति मनीषादिः । शुद्धोदनो नाम राजा । तथाहि । “शुद्धोदनो यतो भुङ्क्ते न्यायवत् शुद्धमोदनम् ।” इत्यार्षाभिधानम् ॥ शुद्धोदनस्यापत्यं शौद्धोदनिः । बाह्वाद्यत इति ष्णिः ।” इति भरतः ॥