वाचस्पत्यम्
श्यामा || स्त्री श्यै—मन् । १ शारिवौषधौ २ अप्रसूताङ्गनायां ३ प्रियङ्गौ ४ यमुनायां ५ वागुजौ ६ रात्रौ ७ कृष्णत्रिवृति ८ नील्यां मेदि० ९ गुग्गुलौ १० सोमलतायां ११ गुन्द्रायां १२ कृष्णायाम् १३ अम्बिकायां विश्वः । १४ गुडूच्यां १५ क- स्तूर्य्यां १६ षटपत्त्र्यां १७ वन्दायां १८ नीलपुनर्नवायां १९ पिप्पात्यां २० हरिद्रायां २१ नीलदूर्वायां २२ तुलस्यां २३ पद्मवीजे २४ गवि २५ छायायां २६ कृष्णशारिकायां २७ शिशपायां २८ पक्षिभेदे (शामा) राजनि० । “शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला । तप्तका- ञ्चनवर्णाभा सा स्त्री श्यामेति कीर्त्तिता” इत्युक्तलक्षणे २९ स्त्रीविशेषे च । ३० हिमालयसुतायां काल्यां च “ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्वत्यक्त सतीरूपा जन्मार्थं मेनकां ययौ । समयस्यानुरूपेण मेनका जठरे शिवा । सम्भूय च समुत्पन्ना सा लक्ष्मी रिव सागरात् । वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् । तान्तु दृष्ट्वा यथा जातां नीलोत्पलदलानुमाम् । श्यामां सा मेनका देवी मुदमापातिहर्षिता” कालिकापु० ४० अ० ।
शब्दकल्पद्रुमः
श्यामा || स्त्री (श्यामो वर्णोऽस्त्यस्या इति । अच् । टाप् ।)
शारिवौषधी । अप्रसूताङ्गना । प्रियङ्गुः । वागुजिः । यमुना । रात्रिः । कृष्ण- त्रिवृतिका । नीलिका । इति मेदिनी ॥ गुग्- गुलुः । सोमलता । गुन्द्रा । कृष्णा । अम्बिका । इति विश्वः ॥ गुडूची । कस्तूरी । वटपत्री । वन्दा । नीलपुनर्नवा । पिप्पली । हरिद्रा । नीलदूर्व्वा । तुलसी । पद्मवीजम् । गौः । स्त्री । छाया । कृष्णसारिवा । शिंशपा । इति राजनिर्घण्टः ॥ (नारीविशेषः । यथा, भट्टिः । ५ । १८ । “योषिद्वृन्दारिका तस्य दयिता हंसनादिनी । दूर्व्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥” तल्लक्षणं यथा, तट्टीकायाम् । “शीते सुखोष्णसर्व्वाङ्गी ग्रीष्मे च सुख- शीतला । तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कथ्यते ॥”)
पक्षिविशेषः । शामा इति भाषा । तत्पर्य्यायः । वराही २ शकुनी ३ कुमारी ४ दुर्गा ५ देवी ६ चटका ७ कृष्णा ८ पोतकी ९ पाण्डविका १० वामा ११ कालिका १२ शितिसिम्बिनी १३ । इति राजनिर्घण्टः ॥ * ॥
श्यामाया उत्पत्तिर्यथा, “ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्व्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥ समयस्यानुरूपेण मेनका जठरे शिवा । सम्भूय च समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डनात् ॥ ततस्तस्यान्तु जातायां प्रसन्नाश्चाभवन् दिशः । सानुकूलो ववौ वायुर्गम्भीरो गन्धिलः शुभः ॥ बभूव पुष्पवृष्टिश्च तोयवृष्टिः परा तथा । जज्वलुश्चाग्नयः शान्ता जगर्ज्जुश्च घना घनम् ॥ तस्यान्तु जायमानायां सर्व्वं स्वास्थ्यमपद्यत । तान्तु दृष्ट्वा यथाजातां नीलोत्पलदलानुगाम् ॥ श्यामां सा मेनका देवी मुदमापाति हर्षिता । देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः ॥ तुष्टुवुस्तामन्तरीक्षे गन्धर्व्वाश्चाप्सरोगणाः । तान्तु नीलोत्पलदलश्यामां हिमवतः सुताम् ॥ कालीति नाम्ना हिमवानाजुहाव कृते दिने । बान्धावास्तु स्वसन्तानां नाम्ना तां पार्व्वतीति च । कालीति च तथा नाम्ना कीर्त्तिता गिरि- नन्दिनी ॥” इति कालिकापुराणे ४० अध्यायः ॥ * ॥
अथ श्यामामन्त्राः । क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रॐ ह्रीँ स्वाहा । यथा, कालीतन्त्रे । “कामत्रयं वह्निसंस्थं रतिबिन्दुसमन्वितम् । कूर्च्चयुग्मं तथा लज्जायुगलं तदन्तरम् ॥ दक्षिणे कालिके चेति पूर्व्वबीजानि चोच्चरेत् । अन्ते वह्निबधूं दद्यात् विद्या राज्ञी प्रकी- र्त्तिता ॥” मन्वर्थमाह यामले । “ककाराज्जलरूपत्वात् केवलं मोक्षदायिनी । ज्वलनार्णसमायोगात् सर्व्व तेजोमयी शुभा । मायात्रयेण देवेशि सृष्टिस्थित्यन्तकारिणी ॥ बिन्दूनां निष्फलत्वाच्च कैवल्यफलदायिनी । वीजत्रया शाम्भवी सा केवलं ज्ञानचित्कला ॥ शब्दबीजद्वयेनैव शब्दराशिप्रबोधिनी । लज्जाबीजद्वयेनैव सृष्टिस्थित्यन्तकारिणी ॥ सम्बोधनपदेनैव सदा सन्निधिकारिणी । स्वाहया जगतां माता सर्व्वपापप्रणाशिनी ॥” अस्याः पूजाप्रयोगः । प्रातःकृत्यादिकं कृत्वाँ मन्त्राचमनं कुर्य्यात् । यथा, —
“कालिकाभिः स्त्रिभिः पीत्वा काल्यादिभि- रुपस्पृशेत् । द्वाभ्यामोष्ठौ द्विरुन्मृज्य चकेन क्षालयेत् करम् ॥ मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात् । आचम्यैवं भवेत् काली वत्सरात्तां प्रपश्यति ॥” कं शिरः । तद्यथा । क्रीमिति त्रिराचामेत् । ॐ काल्यै नमः कपालिन्यै नमः इति ओष्ठौ द्विरुन्मृजेत् । ॐ कुल्लायै नमः इति करं क्षाल- येत् । ॐ कुरुकुल्लायै नमः इति मुखे । ॐ विरोधिन्यै नमः इति दक्षिणनासायाम् । ॐ विप्रचित्तायै नमः इति वामनासायाम् । ॐ उग्रायै नमः ॐ उग्रप्रभायै नमः इति नेत्रयोः । ॐ दीप्तायै नमः ॐ नीलायै नमः इति श्रोत्रयोः । ॐ घनायै नमः इति नाभौ । ॐ वलाकायै नमः इति वक्षसि । ॐ मात्रायै नमः इति शिरसि । ॐ मुद्रायै नमः ॐ मितायै नमः इत्यंसयोः । इति मन्त्राचमनम् । * । ततो भूतशुद्ध्यन्तं विधाय मायाबीजेन यथाविधि प्राणायामत्रयं कुर्य्यात् ॥ * ॥
ऋष्यादिन्यासः । यथा । अस्य मन्त्रस्य भैरव ऋषिरुष्णिक् छन्दो दक्षिणकालिका देवता ह्रीँ बीजं हूँ शक्तिः क्रीँ कीलकं पुरुषार्थचतुष्टयसिद्ध्यर्थे विनि- योगः । तथा च कालीक्रमे । “कीलकं चाद्यबीजं स्यात् चतुर्व्वर्गफलप्रदम् ।” शिरसि वैरवाय ऋषये नमः । मुखे उष्णिक- छन्दसे नमः । हृदि दक्षिणकालिकायै देवतायै नमः । गुह्ये ह्रीँ बीजाय नमः । पादयोः हूँ शक्तये नमः । सर्व्वाङ्गे क्रीँ कीलकाय नमः ॥ ततः कराङ्गन्यासौ । तदुक्तं कालीतन्त्रे । “अङ्गन्यासकरन्यासौ यथावदभिधीयते । भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक् छन्द उदा- हृतम् । देवता कालिका प्रोक्ता लज्जाबीजन्तु बीजकम् ॥ कीलकं चाद्यबीजं स्याच्चतुर्व्वर्गफलप्रदम् ॥ शक्तिश्च कूर्च्चबीजं स्यादनिरुद्धा सरस्वती । कवित्वार्थे नियोगः स्यादित्यादि तेन मायया ॥” षडङ्गन्यासः । “षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।” वीरतन्त्रेऽपि । “दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् ।” इति वा । तट्यथा । ॐ क्राँ अङ्गष्ठाभ्यां नमः । ॐ क्रीँ तर्ज्जनीभ्यां स्वाहा । ॐ क्रूँ मध्यमाभ्यां वषट् । ॐ क्रैँ अनामिकाभ्यां हुँ । ॐ क्रौँ कनिष्ठाभ्यां वौषट् । ॐ क्रः करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । ॐ क्राँ हृदयाय नमः इत्यादि । एवं ॐ ह्राँ अङ्गुष्ठाभ्यां नमः इत्यादि वा ॥ * ॥
ततो वर्णन्यासः । अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं नमः इति हृदये । एं ऐं ॐ औँ अं अः कं खं गं घं नमः इति दक्षिण- बाहौ । ङं चं छं जं झं ञं टं ठं डं ढं नमः । इति वामबाहौ । णं तं थं दं धं नं पं फं बं भं नमः इति दक्षिणपादे । मं यं रं लं वं शं षं सं हं व्वं क्षं नमः इति वामपादे । विरूपाक्षमते सबिन्दुरयं न्यासः । यथा वीरतन्त्रे । अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं वै हृदये न्यसेदित्यादि । पुनर्निर्बिन्दुर्यथा । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ वै हृदयं स्पृशेदित्यादि । किन्तु सबिन्दून् वा न्यसेदेतान् निर्बिन्दून् वाथ वर्णकान् इत्याचार्य्यपरिगृहितभैरवीयवाक्यात् उभयमेव युक्तम् ॥ * ॥
अथ षोढान्यासः । तदुक्तं वीरतन्त्रे । “केवलां मातृकां कृत्वा मातृकां तारसंपुटाम् । मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥ श्रीबीजपुटितां तान्तु मातृकापुटितन्तु तत् । कामेन पुटितां देवों तत्पुटं काममेव च ॥ शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत् । कों द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠ-ऌ-ॡ-ञ्च पूर्ववत् “मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ॥ अनुलोमविलोमेन न्यस्त्वा मन्त्रं यथाविधि । मूलेनाष्टशतं कुर्व्याद्व्यापकं तदनन्तरम् ॥” यथा ॐ अं ॐ एवं मातृकापुटिततारम् । एवं श्रीबीजपुटितां ताम् । तत्पुटितं श्रीबीजम् । एवं कामेन पुटितां मातृकाम् । मातृकापुटितं कामम् । एवं शक्त्या पुटितां मातृकां मातृका- पुटितां शक्तिं न्यसेत् । तथा क्रीं द्वन्द्वञ्च ऋ-ॠ- ऌ-ॡ-ञ्च पूर्व्ववत् । तत्पुटितां मातृकां न्यसेत् मातृकापुटितञ्च तत् । मन्त्रपुटितां मातृकां तत्पुटितं मनुम् । पुनरनुलोमविलोमेन केवलं मातृकास्थाने न्यस्य मूलेनाष्टशतेन व्यापकं कुर्य्यात् अयं न्यासस्ताराया अपि कार्य्यः । “इति गुप्ते न दुर्गाया अङ्गषोढाः प्रकीर्त्तिताः । तारायाः कालिकायाश्च उन्मुखाश्च तथापरे ॥ एतस्मिन् न्यामवर्य्ये च सर्व्वं पापं प्रणश्यति ॥” ततस्तत्त्वन्यासः । यथामूलं त्रिखण्डं विधाय प्रथमखण्डान्ते ॐ आत्मतत्त्वाय स्वाहेति पादा- दिनाभिपर्य्यन्तम् । द्वितीयखण्डान्ते ॐ विद्या- तत्त्वाय स्वाहा इति नाभ्यादिहृदयान्तम् । तृतीयखण्डान्ते ॐ शिवतत्त्वाय स्वाहा इति हृदयादिशिरःपर्य्यन्तं न्यसेत् । तदुक्तं स्वतन्त्रे । “मूलविद्यात्रिखण्डान्ते प्रणवाद्यैर्यथाविधि । आत्मविद्या शिवैस्तत्त्वैस्तत्त्वन्यासं समाचरेत् ॥” अथ वीजन्यासः । तदुक्तं कुमारीकल्पे । “ब्रह्मरन्धे भ्रुवोर्म्मध्ये ललाटे नाभिदेशके । गुह्ये वक्त्रे च सर्व्वाङ्गे सप्तबीजं क्रमान्न्यसेत् ॥” यथा आद्यबीजं ब्रह्मरन्ध्रे द्वितीयबीजं भ्रूमध्ये तृतीयबीजं ललाटे चतुर्थबीजं नाभौ पञ्चमबीजं गुह्ये षष्ठबीजं वक्त्रे सप्तमबीजं सर्व्वाङ्गे । एत- त्त्रयं काम्यम् ॥ * ॥
ततो मूलेन सप्तधा व्यापक- न्यासं कृत्वा यथाविधि मुद्रां प्रदर्श्य ध्यायेत् । यथा कालीतन्त्रे । “करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् सद्यश्छिन्नशिरःखङ्गवामाधोर्द्धकराम्बुजाम् । अभयं वरदञ्चैव दक्षिणोर्द्ध्वाधःपाणिकाम् ॥ महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥ कर्णावतंसतानीतशवयुग्मभयानकाम् । घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥ शवानां करसंघातैः कृतकाञ्चीं हसन्मुखीम् । सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥ घोररावां महारौद्रीं श्मशानालयवासिनीम् । बालार्कमण्डलाकारलोचनत्रितयान्विताम् ॥ दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् । शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ शिवाभिर्घोररावाभिश्चतुर्द्दिक्षु समन्विताम् । महाकालेन च समं विपरीतरतातुराम् ॥ सुखप्रसन्नवदनां स्मेराननसरोरुहाम् । एवं सञ्चिन्तयेत् कालीं सव्वकामार्थसिद्धि- दाम् ॥” * ॥
शवयुरमेति घोरबाणावतंसेति प्रेतकर्णावतंसेति च । शकुन्तपक्षसंयुक्तबाणकर्णविभूषितामिति विगतासुकिशोराभ्यां कृतकर्णावतंमिनीमितिच दर्शनादुभयमेव पाठः ॥ * ॥
ध्यानान्तरं स्वतन्त्रे “अञ्जनाद्रिनिभां देवीं करालवदनां शिवाम् । मुण्डमालावलीकीर्णां मुक्तकेशीं स्मिताननाम् ॥ महाकालहृदम्भोजस्थितां पीनपयोधराम् । विपरीतरतासक्तां घोरदंष्ट्रां शिवैः सह ॥ नागयज्ञोपवीताढ्यां चन्द्रार्द्धकृतशेखराम् । सर्व्वालङ्कारयुक्ताञ्च मुण्डमालाविभूषिताम् ॥ मृतहस्तसहस्रैस्तु बद्धकाञ्चीं दिगंशुकाम् । शिवाकोटिसहस्रेस्तु योगिनीभिर्विराजिताम् ॥ रक्तपूर्णमुखाम्भोजां मद्यपानप्रमत्तिकाम् । वह्न्यर्कशशिनेत्राञ्च रक्तविस्फुरिताननाम् ॥ विगतासुकिशोराभ्यां कृतकर्णावतंसिनीम् । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥ श्मशानवह्निमध्यस्थां ब्रह्मकेशववन्दिताम् । सद्यःकृत्तशिरःखङ्गवराभीतिकराम्बुजाम् ॥” ध्यानान्तरं रहस्ये । यथा, —
“शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम । चतुर्भुजां खङ्गमुण्डवराभयकरा पराम् ॥ मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरीम् । एवं सञ्चिन्तयेत् कालों श्मशानालयवासिनीम् ॥” एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्य्यात् यथा । स्ववामे भूमौ हूङ्कारगर्भं त्रिकोणं वि- लिख्य अर्घ्यपात्रं संस्थाप्य मूलेन शुद्धजलादिना । शङ्खादिपात्रमापूर्य्य गन्धादिकं दत्त्वा ॐ गङ्गे चेत्यादिना तीर्थमावाह्य मं वह्निमण्डलाय दश कलात्मने नमः इत्याधारम् । अं सूर्य्यमण्डलाय द्वादशकलात्मने नमः इति शङ्खम् । उं सोम- मण्डलाय षोडषकलात्मने नमः इति जलं सम्पूज्य । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूँ शिखायै वषट् । ॐ ह्रैँ कव- चाय हूँ इत्यग्नीशासुरवायुषु । अग्रे ॐ ह्रौँ नेत्रत्रयाय वौषट् । चतुर्दिक्षु ॐ ह्रः अस्त्राय फट् । इत्यभ्यर्च्च्य तदुपरि मत्स्यमुद्रयाच्छाद्य मूलं दशधा जप्त्वा धेनुमुद्रया अमृतीकृत्य अस्त्रेण संरक्ष्य भूतिनीयोनिमुद्रे प्रदर्श्य तज्जलं किञ्चित् प्रोक्षणीपात्रे निःक्षिप्य मूलेन तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युक्ष्य पीठपूजामारभेत् ॥ * ॥
अस्याः पूजायन्त्रम् । आदौ बिन्दुं स्वबीजं भुवनेशीञ्च विलिख्य ततस्त्रिकोणं तद्वाह्ये त्रिकोणचतुष्टयं वृत्तमष्टदलं पद्मं पुनर्वृत्तं चतु- र्द्वारात्मकं भूगृहं लिखेत् । तदुक्तं कालीतन्त्रे । “आदौ त्रिकोणमालिख्य त्रिकोणं तद्वहिर्लिखेत् ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् ॥ ततो वृत्तं समालिख्य लिखेदष्टदलं ततः । वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् ॥” कुमारीकल्पे । “मध्ये तु बैन्दवं चक्रं बीजमायाविभूषितम् ॥ इति ॥ * ॥
अत्र विशेषाधारो मुण्डमालायाम् । “ताम्रपात्रे कपाले वा श्मशानकाष्ठनिर्म्मिते । शनिभीमदिने वापि शरीरे मृतसम्भवे ॥ स्वर्णे रौप्ये ऽथ लौहे वा चकं कार्य्यं विधानतः ॥” यन्त्रान्तरमाह तन्त्रे । “शक्त्यग्निभ्याञ्च षट्कोणं शक्तिभिश्च नवात्मकम् पद्मे वसुदले भूमिपुश्चतुर्द्वारसंयुतेति ॥ * ॥
पीठपूजां ततः कुर्य्यादाधारशक्तिपूर्व्वकम् । प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च ॥ सुधाम्बधिं मणिद्वीपं चिन्तामणिगृहं तथा । श्मशानं पारिजातञ्च तन्मूले रत्नवेदिकाम् ॥ तस्योपरि मणेः पीठं न्यसेत् साधकसत्तमः । चतुर्दिक्षु मुनीन् देवान् शिवाश्च शवमुण्ड- कान् ॥” धर्म्माद्यधर्म्मादींश्चे त्यादि ह्रीँ ज्ञानात्मने नमः इत्युन्तं संपूज्य केशरेषु पूर्व्वादिक्रमेण पूजयेत् । “इच्छा ज्ञाना क्रिया चैव कामिनी काम- दायिनी ॥ रती रतिप्रिया नन्दा मध्ये चैव मनोन्मनी ॥” सर्व्वत्र प्रणवादिनमोऽन्तेन पूजयेत् । तदुपरि हसौः सदाशिवमहाप्रेतपद्मासनाय नमः ॥ * ॥
ततः पुनर्ध्यात्वा पुष्पाञ्जलावानीय मूलमन्त्र- कल्पितमूर्त्तावावाहयेत् । “ॐदेवेशि भक्तिसुलभे परिवारसमन्विते । यावत्त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥” ततो मूलमुच्चार्य्य अमुकीदेवि इहावह इह तिष्ठ इह सन्निधेहि इह सन्निरुध्यस्व इह सन्नि- हिता भव । ततः हूमित्यवगुण्ठ्य अङ्गमन्त्रैः सकलीकृत्य धेनुमुद्रया अमृतीकृत्य परमी- करणमुद्रया परमीकृत्य भूतिन्याकर्षिणीयोनि- मुद्राः प्रदर्श्य प्राणप्रतिष्ठां विधाय मूलेन पाद्या- दिभिः पूजयेत् । ततो मूलमुच्चार्य्य एतत् पाद्य ममुकदेवतायै नमः । एवमर्ध्यं स्वाहा । आच- मनीयं स्वधा । स्नानीयं निवेदयामि । पुनरा- चमनीयं स्वधा । एष गन्धो नमः । एतानि पुष्पाणि वौषट् । ततो मूलेन पञ्च पुष्पाञ्जलीन् दत्त्वा धूपदीपौ दद्यात् । वनस्पतीत्यादि पठन् मूलमुच्चार्य्य एष धूपो नमः । दीपमन्त्रस्तु । “सुप्रकाशो महादीपः सर्व्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥” मूलमुच्चार्य्य एष दीपो नमः । ततः ॐ जय- ध्वनिमन्त्रमातः स्वाहा इति घण्टां संपूज्यवाम हस्तेन तां वादयन् नीचैर्धूपं दत्त्वा दृष्टिपर्य्यन्तं दीपं दद्यात् । ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा यथोपपन्नं नैवेद्यं दत्त्वा आवरणपूजां कुर्य्यात् ॥ श्रीअमुकीदेवि आवरणं ते पूजयामि इत्याज्ञां गृहीत्वा केशरेष्वग्न्यादिकोणेषु ॐ ह्राँ ह्वद- यायनमः । ॐ ह्रीँ शिरसे स्वाहा । ॐ हूँ शिखायै वषट् । ॐह्रैँ कवचाय हूँ । ॐह्रौँ नेत्रत्रयाय व्रौषट् । चतुर्दिक्षु ॐ ह्रः अस्त्राय फट् । बहिःषट्कोणे ॐ काल्यै नमः । सर्व्वत्र प्रणवादिनमोऽन्तेन कपालिन्यै कुल्लायै कुरु- कुल्लायै विरोधिन्यै विप्रचित्तायै उग्रायै उग्र- प्रभायै दीप्तायै इत्यन्तस्त्र्यस्ने । ॐनीलायै नमः एवं धनायै वलाकायै इति द्वितीयत्र्यस्रे । एवं मात्रायै मुद्रायै मितायै इति तृतीयत्र्यस्रे । “सर्व्वाः श्यामा असिकरा मुण्डमालाविभूषिताः तर्ज्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः ॥ दिगम्बर्य्यो हसन्मुख्यः स्वस्ववाहनभूषिताः ॥” एवं ध्यात्वार्च्चयेत् ॥ * ॥
ततोऽष्टपत्रेषु पूर्व्वादि- क्रमेण ॐ ब्राह्म्यै नमः । एवं नारायण्यै माहे- श्वर्य्यै चामुण्डायै कौमार्य्यै अपराजितायै वाराह्यै नारसिंह्यै एता गन्धादिभिः पूजयेत् । पत्राग्रे असिताङ्गादिभैरवान् पूजयेत् । ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा पाद्यादिना महाकालं पूजयेत् ॥ * ॥
तस्य ध्यानम् । “महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् । बिभ्रतं दण्डखदृआङ्गौ दंष्ट्राभीममुखं शिशुम् ॥ व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् । त्रिनेत्रं मुक्तकेशञ्च मुण्डमालाविभूषितम् ॥ जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥” तथा च कुमारीकल्पे । “देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् ।” हूँ क्ष्रौँ यां रां लां वां आं क्रों महाकाल- भैरव सर्व्वविघ्नान्नाशय नाशय ह्रीँ श्रीँ फट् स्वाहा इत्यनेन पाद्यादिभिराराध्यत्रिस्तर्पयित्वा मूलेन देवीं पञ्चोपचारैः पूजयेत् । तथा च कालीतन्त्रे । “महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् ।” कालीकल्पे । “कवचं क्ष्रौं समुद्वृत्य यां रां लां वां आं च क्रोन्ततः । महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥ नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् । फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥” ततो देवीं ध्यात्वा यथाशक्ति जप्त्वा गुह्ये त्यादिना वामहस्ते जपं समर्प्य आत्मसमर्पणं कुर्य्यात् । ततः स्तुत्वा प्रदक्षिणीकृत्य अष्टाङ्गप्रणामं कृत्वा श्रीजगन्मङ्गलं नाम कवचं पठेत् ॥ * ॥
तत आवरणदेवता देव्यङ्गे विलोप्य संहारमुद्रया अमुकीदेवी क्षमस्वेति विसृज्य तत्तेजःपुष्पेण समं स्वहृद्यारोपयेत् । “उत्तरे शिखरे देवि भूम्यां पर्व्व तवासिनि । ब्रह्मयोनिसमुत्पन्ने गच्छ देवि ममान्तरम् ॥” इति मन्त्रेण ॥ * ॥
ततस्तन्नैवेद्यं किञ्चिदुच्छिष्टचाण्डालिन्यै नमः इत्यैशान्यां दिशि दत्त्वा शेषमिष्टेभ्यो दत्त्वा किञ्चित् स्वीकृत्य पादोदकं पीत्वा निर्म्माल्यं शिरसि विधृत्य यथेच्छं विहरेत् ॥ * ॥
ततो यन्त्रलेपं वामहस्ते कृत्वा सव्यहस्तकनिष्ठया मायाबीजं विलिख्य तया तिलकं कुर्य्यात् । तथा त्र । “वामे कृत्वा यन्त्रलेपं मायां सव्यकनिष्ठया । विलिख्य तिलकं कुर्य्यात् मन्त्रेणानेन साधकः ॥ ॐ यं यं स्पृशामि पादेन यो मां पश्यति चक्षुषा । स एव दासतां यातु राजानो दुष्टदस्यवः ॥” जपकाले तु कर्पूरयुक्ता जिह्वा कार्य्या । “कर्पूराढ्या सदा जिह्ला कर्त्तव्या जपकर्म्मणि ।” इति विश्वसारवाक्यात् इयं काम्यजप इति तत्त्वम् । ततोमूलेनाष्टोत्तरशताभिमन्त्रितं पुष्पं चन्दनञ्च धृत्वा त्रैलोक्यं वशमानयेत् । “सर्व्वसिद्धियुतो भूत्वा भैरवो वत्सराद्भवेत् ।” अस्य पुरश्चरणं लक्षद्वयजपः । तथा च काली- तन्त्रे । “लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः । रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ॥” व्यवस्थामाह स्वतन्त्रे । “दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः ॥” ततस्तु तद्दशांशेन होमयेत् हविषा प्रिये ॥” अत्राङ्गस्य कालान्तरमाह नीलसारस्वते । “लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः । अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ॥” “दशांशं होमयेन्मन्त्री तपयेदभिषेचयेत् ।” इति साम्प्रदायिकाः । वस्तुतस्तु । कुमारीकरपे । “लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः । रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ॥ रात्रिजपे तु कालो मुण्डमालायाम् । “गते तु प्रथमे यामे तृतीयप्रहरावधि । निशायास्तु प्रजप्तव्यं रात्रिशेषे जपेन्न तु ॥ एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् । अयुतं होमयेद्देवि दिवारात्रिविभेदतः ॥” तेन दिवा लक्षं जप्त्वा तद्दाशांशं होमं कुर्य्यात् । रात्रौ लक्षं जप्त्वा तद्दशांशं होमं कुर्य्या दिति रहस्यार्थः । “द्विजातीनाञ्च सर्वेषां दिवा विधिरिहोच्यते । शूद्राणाञ्च तथा प्रोक्तं रात्राविष्टं महाफलम् ॥” अन्यत्र च । “दिवैव प्रजपेन्मन्त्रं न तु रात्रौ कदाचन ॥” * ॥
अथ मन्त्रभेदाः । क्रीँ । १ । क्रीँ क्रीँ क्रीँ । ३ । अनयोः पूजा- प्रयोगः सर्वं पूर्व्ववत् । ध्यानं सिद्धेश्वरतन्त्रे । “शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदाम् ॥ हास्ययुक्तां त्रिनेत्राञ्च कपालकर्त्तृकाकराम् ॥ मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः । चतुर्ब्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥” अनयोः पुरश्चरणं लक्षजपः ॥ * ॥
ॐ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ । २१ । अस्याः पूजादिकं दक्षिणावत् कार्य्यम् । पुरश्चरणं लक्षजपः ॥ * ॥
ॐ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २३ ॥ * ॥
ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २२ ॥ * ॥
ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्राँ २० । ध्यानपूजादिकं दक्षिणावत् ॥ * ॥
क्रीँ क्रीँ क्रूँ । ३ ॥ * ॥
ॐ ह्रीं क्रीँ मे स्वाहा । ६ अस्याः पूजाप्रयोगः । अस्य भैरव ऋषिर्विराट् च्छन्दः सिद्धकाली ब्रह्मरूपा भुवनेश्वरी देवता निजबीजं बीजं लज्वाबीजं शक्तिः । वर्ण- न्यासादि दक्षिणावत् । ध्यानन्तु । “खङ्गाद्भिन्नेन्दुखण्डस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा । सव्ये पाणौ कपालोद्गलदसृजमथो मुक्तकेशी पिबन्ती । दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युतां दीप्त- जिह्वा पायान्नीलोत्पलाभा रविशशिविसत्कुण्डला- लीढपादा ॥” एवं ध्यात्वा दक्षिणावत् सर्व्वं कार्य्यम् । पुश्चर- णन्तु एकविंशतिसहस्रजपः ॥ * ॥
क्रीँ ह्रीँ ह्रीँ ३ ॥ * ॥
क्रीँ क्रीँ क्रीँ स्वाहा । ५ ॥ * ॥
क्रीँ क्रीँ क्रीँ फट स्वाहा । ६ ॥ * ॥
क्रीँ क्रीँ क्रीँ क्रीँ क्रीँ क्रीँ स्वाहा । ८ ॥ * ॥
ऐँ नमः । क्रीँ ऐँ नमः । क्रीँ कालिकायै स्वाहा । १४ ॥ * ॥
एतस्याः पूजाप्रयोगः । अस्य दक्षिणा मूर्त्ति- ऋषिः पंक्तिच्छन्द्रः कालिका देवता । ध्यानन्तु “चतुर्भुजा कृष्णवर्णा मुण्डमालाविभूषिता । खङ्गञ्च दक्षिणे पाणौ बिभ्रतीन्दीवरद्वयम् ॥ कर्त्तृञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रती । द्यां लिखन्तीं जटामेकां बिभ्रती शिरसाद्वयी ॥ मुण्डमालाधरा शीर्षे ग्रीवायामथ चापराम् । वक्षसा नागहारञ्च बिभ्रती रक्तलोचना ॥ कृष्णवस्त्रधरा कठ्यां व्याघ्राजिनसमन्निता । बामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ॥ विलाप्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम् । साट्टहासा महाघोररावयुक्ता सुभीषणा ॥” ध्यानमेवं अन्यत् सर्व्वं दक्षिणावत् । पुरश्चरणं लक्षद्वयजपः । अन्यासां मन्त्रवर्णसंख्यलक्ष- जपः ॥ * ॥
क्रीँ ह्रीँ ह्रीँ दक्षिणे कालिके स्वाहा ॥ ११ ॥ क्रीँ हूँ ह्रीँ दक्षिणे कालिके फट् । १० ॥ * ॥
क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ दक्षिणे कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २० एतासां दक्षिणा मूर्त्तिऋषिः पंक्तिच्छन्दो दक्षिण कालिका देवता । अन्यत् सर्व्वं दक्षिणावत् ॥ * ॥
क्रीँ स्वाहा ३ । भैरवोऽस्य ऋषिः ॥ * ॥
क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । ८ ॥ * ॥
क्रीँ हूँ ह्रीँ स्वाहा । ५ । अस्य पञ्चवक्त्र ऋषिः ॥ * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । ९ ॥ * क्रीँ दक्षिणे कालिके स्वाहा । ९ ॥ * ॥
क्रीँ ॥ हूँ ह्रीँ क्रीँ हूँ ह्रीँ स्वाहा । ८ ॥ * ॥
क्रीँ ॥ क्रीँ क्रीँ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ ह्रीँ ह्रीँ हूँ हूँ स्वाहा । १६ ॥ * ॥
नमः ऐँ क्रीँ क्रीँ कालिकायै स्वाहा । ११ ॥ * ॥
नमः आँ आं क्रॐ क्रॐ फट् स्वाहा कालि कालि हूँ । १४ ॥ * ॥
एतासां ऋष्यादिकं पूजादिकञ्च दक्षिणावत् । पुरश्चरणं लक्षजपः ॥ * ॥
अथ गुह्यकालिकामन्त्राः । क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ गुह्ये कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २१ ॥ * ॥
क्रीँ हूँ ह्रीँ गुह्ये कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । १६ ॥ * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ गुह्ये कालिके स्वाहा । १४ ॥ * ॥
क्रीँ हूँ ह्रीँ गुह्ये कालिके हूँ हूँ ह्रीँ ह्रीँ स्वाहा । १४ ॥ * ॥
क्रीँ हूँ ह्रीँ दक्षिणे कालिके हूँ हूँ ह्रीँ ह्रीँ स्वाहा । १५ ॥ * ॥
हूँ ह्रीँ गुह्ये कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा १५ ॥ * ॥
क्रीँ गुह्ये कालिके क्रीँ स्वाहा । ९ ॥ * ॥
क्रीँ दक्षिणे कालिके क्रीँ स्वाहा । १० ॥ * ॥
एतासां सर्वं पूर्ववत् । बलिमन्त्रस्तु । एह्ये हि जगन्मातर्ज्जगतां जननि गृह्ण गृह्ण मम बलिं सिद्धिं देहि देहि शत्रुक्षयं कुरु कुरु क्रूँ क्रूँ ह्रीँ ह्रीँ फट् फट् ॐकालि कायै नमः फट् स्वाहा ॥ * ॥
यद्वा गुह्यकाल्या अयं मन्त्रः । एह्येहि गुह्यकालि मम बलिं गृह्ण गृह्ण मम शत्रन् नाशय नाशय खादय खादय स्फु र स्फु र छिन्धि छिन्धि सिद्धिं देहि देहि क्रूँ फट् स्वाहा ॥ * ॥
अथ भद्रकाल्यादिमन्त्राः क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ भद्रकाल्यै क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रँ ह्रँ स्वाहा । २० । * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ श्मशानकालि क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २१ ॥ * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ महाकालि क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २० ॥ * ॥
एतासां पूजादिकं दक्षिणावत् । ध्यानन्तु । “महामेघप्रभां देवीं कृष्णवस्त्रपिधायिनीम् । ललज्जिह्वां घोरदंष्ट्रां कोटराक्षीं हसन्मुखीम् ॥ नागहारलतोपेतां चन्द्रार्द्धकृतशेखराम् । द्यां लिखन्तीं जटामेकां लेलिहानां शवं स्वयम् ॥ नागयज्ञोपवीताङ्गीं नागशय्यानिषेदुषीम् । पञ्चाशन्मुण्डसंयुक्तवनमालां महोदरीम् ॥ सहस्रफणसंयुक्तमनन्तं शिरसोपरि । चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकाम् ॥ तक्षकसर्पराजेन वामकङ्कणभूषिताम् । अनन्तनागराजेन कृतदक्षिणकङ्कणाम् ॥ नागेन रसनाहारकल्पितां रत्ननूपुराम् । वामे शिवस्बरूपन्तं कल्पितं वत्सरूपकम् ॥ द्विभुजां चिन्तयेद्देवीं नागयज्ञोपवीतिनीम् । नरदेहसमाबद्धकुण्डलश्रुतिमण्डिताम् ॥ प्रसन्नवदनां सौम्यां नवरत्नविभूषिताम् । नारदाद्यैर्म्मुनिगणैः सेवितां शिवमोहिनीम् । साट्टहासां महाभीमां साधकाभीष्टदायिनीम् ॥” गुह्यकाली इत्युपलक्षणम् ॥ * ॥
भद्रकालीमन्त्रा- न्तरम् । “प्रसादबीजमुद्धृत्य कालीति पदमुद्धरेत् । महाकालीपदं चोक्त्वा किलियुग्मं ततः परम् ॥ अस्त्रमग्निप्रियान्तोऽयं भद्रकाल्या महामनुः ॥” ॐ कालि महाकालि किलि किलि फट् स्वाहा ॥ * ॥
ध्यानं यथा, —
“क्षुत्क्षामा कोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि । हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशयुगमं दन्तैर्ज्जम्बूफलाभैः परिहरतु भयं पातु मां भद्रकाली ॥” अस्याः पुरश्चरणादिकं दक्षिणकालीतन्त्रवत् । इति केचित् ॥ वस्तुतस्तु पुरश्चरणमष्टोत्तर- सहस्रजपः । इति कृष्णानन्दकृततन्त्रसारः ॥ * ॥
श्मशानकालीमन्त्रादिकं तच्छब्दे द्रष्टव्यम् ॥ * ॥
अथ दीपन्विताश्यामापूजा । यामले । “कार्त्तिके मासि कृष्णायां पञ्चदश्यां महानिशि पूजयेत् योऽतियत्नेन काली विद्या प्रसीदति ॥ मृण्मयीं प्रतिमां कृत्वा महाकालीं प्रपूजयेत् ॥” व्योमकेशसंहितायाम् । “तुलार्के यस्त्वमावास्यां निशार्द्धे घोरदक्षिणाम् पूजयेद्विधिवद्भक्त्या सर्व्वसिद्धीश्वरो भवेत् ॥” इति ॥ एवञ्च अर्द्धरात्रं पूजाया मुख्यकालः । स च कालो यद्यु भयदिने तदा पूर्व्वदिने पूजा । यथ तत्रैव । “तत्रोभयदिने शस्तकाले भूतयुता यदि । उमा माहेश्वरी सा च तिथिः सिद्धिप्रदा सताम् ॥ वलिदानं वलितिथावात्मनाशकरं परम् । ततस्तत्र न कर्त्तर्व्ये बलिदानविसर्ज्जने ॥ मन्त्रसिद्धिकरं तत्र परेऽह्नि जपसाधनम् । रात्रौ पूजा प्रकर्त्तव्या रात्रावेव विसर्ज्जनम् । प्रकाशे सिद्धिहानिः स्याद्गोपने सिद्धिरुत्तमा ॥” तथा कालीकल्पे । “तुलार्के बहुले पक्षे पञ्चदश्यां महेश्वरीम् । यथोपचारैः संपूज्य महानिशि नृपो भवेत् । शनिभौमदिने चेत् स्यात्ततः शतगुणं फलम् ॥ तत्रोभयदिने भूतयुक्तकुह्वां महानिशि ॥ इमां यात्रां कारयित्वा चक्रवर्त्ती भवेन्नृपः ॥” इति ॥ महेश्वरीं दक्षिणकालीं तत्प्रकरणोक्तत्वात् ॥ * । कार्त्तिकामावास्यायां कालीपूजाहेतुमाह विश्व- सारे । “कार्त्तिके कृष्णपक्षेतु पञ्चदश्यां महानिशि । आविर्भूता महाकाली योगिनीकोटिभिः सह ॥ अतोऽत्र पूजनीया सा तस्मिन्नहनि मानवैः । बलिपूजादिकं सर्व्वं निशायां क्रियते तु यत् । तत्तदक्षयतां याति काली विद्या प्रसीदति ॥” महानिशि अर्द्धरात्रे । तथा च उत्तरकामाख्या- तन्त्रे । “शरत्काले च देवेशि दीपयात्रादिनेऽपि च । अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ॥ मृण्मयीं पुत्तलीं कृत्वा दीपादिभिरलङ्कृताम् । बलिं नानाविधं दद्यात् वाद्यभाण्डसमन्वितम् ॥ नृत्यगीतं कौतुकञ्च यावत् सूर्य्योदयं भवेत् । प्रातःकाले शुद्धतोये स्थापयेदरिनाशिनीम् ॥” इति ॥ एतेनास्या दीपयात्राप्यर्द्धरात्रे बोध्या । आवि- र्भुतेत्यनेनार्द्धरात्रे जन्मश्रवणात् तत्रैव पूजा मुख्येति । तथा बृहद्धर्म्मपुराणे । “रात्रौ निशीथव्याप्तायाममावास्यामिहैव तु । पृथ्वीतलं ममायाता काली दिग्वसनाम्बिका ॥ अतस्तामत्र वै भक्त्या देवदेवीं द्विजातयः । पूजयेदात्मनो भक्त्या पशुपुष्पार्घ्यसम्पदा ॥” इति तथा गुप्तसाधनतन्त्रे । “निशा तु परमेशानि सूर्य्ये चास्तमुपागते । प्रहरे च गते रात्रौ घटिके द्वे परे च ये ॥ महानिशा समाख्याता ततश्चातिमहानिशा । अर्द्धरात्रे गते देवि पशुभावो न पूजयेत् ॥” अर्द्धरात्रे गते अर्द्धरात्रात् परम् । तथा । “दशदण्डे तु या पूजा तत् सर्व्वमक्षयं भवेत् । षष्ठक्रोशे महेशानि तत् सर्व्वममृतोपमम् ॥ सप्तमक्रोशके देवि सर्व्वं क्षीरोपमं भवेत् । अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः ॥ अतः परं महेशानि विषतुल्यं न संशयः । एतत् सर्वं महेशानि पशुभावे मयोदितम् ॥” अर्द्धरात्रस्य गौणत्वश्रवणात् पशूनां यत्र पूर्व्व- दिने अर्द्धरात्रव्यापिन्यमावास्या न तु तत्पूर्व्वं प्राप्तिः परदिने च रात्रेः पञ्चममुहूर्त्तव्यापिनी तदा परेद्युः पूजेति चेन्न गुप्तसाधनतन्त्रोक्तव च नञ्च नित्यपूजादिपरम् । कार्त्तिकामावास्याया- मर्द्धरात्रे जन्मनिमित्तकपूजाया विशेषेणाभि- धानात् । पशुभिरपि एवंभूतस्थले पूर्व्वदिने- अर्द्धरात्र एव पूजा कार्य्या । यथा श्रीकृष्ण- पूजायाः सामान्यतो निशायामकर्त्तव्यत्वेऽपि जन्माष्टम्यामर्द्धरात्रकर्त्तव्यता मुख्यतमेति परन्तु यत्र पूर्व्वदिने अर्द्धरात्रात् परममावास्या पर- दिने अर्द्धरात्रात् पूर्वमेव तत्र पशुभाविनः पर दिने वीरदिव्ययोश्च पूर्व्वदिने पूजा कार्य्या इति प्रमाणं गोप्यगोपनलीलागमीयषष्ठपटले । एवं यत्र पूर्व्वदिने अर्द्धरात्रव्यापिन्यमावास्या पर- दिने तथा भूतापि कुजवारादियुक्ता तत्रापि पूर्व्वदिने पूजा गुणफलकुजवारादिकमपेक्ष्य चतु- र्द्दशीयोगस्य मुख्यत्वात् । तथोक्तं व्योमकेश- तन्त्रे “कुजवारे लक्षगुणं पू