वाचस्पत्यम्
श्यामाक || पु० श्यामेव कायति कै—क । (श्यामा) धान्यभेदे “श्यासाकः शोषणो रूक्षो वातलः कफपित्तकृत्” भावप्र०
शब्दकल्पद्रुमः
श्यामाकः || पुं, (श्यामं श्यामवर्णमकतीति । अक गतौ + अण् ।)
तृणधान्यमेदः । शामा इति भाषा । तत्पर्य्यायः । श्यामकः २ श्यामः ३ त्रिबीजः ४ अविप्रियः ५ सुकुमारः ६ राज- धान्यम् ७ तृणवीजोत्तमः ८ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कषायत्वम् । लघुत्वम् । शीतलत्वम् । वातकारित्वम् । कफपित्तव्रणदोष- नाशित्वम् । सुग्राहित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “श्यामाकः शोषणो रूक्षो वातलः कफपित्त- कृत् ॥” इति भावप्रकाशः ॥