संस्कृत-शब्दकोशः

श्रयण श्रवण

श्रव

वाचस्पत्यम्

श्रव ||‍ पु० शृणोत्यनेन श्रु—अप् । १ कर्णे २ ख्यातौ च भरतः ।


शब्दकल्पद्रुमः

श्रवः || पुं, (श्रूयतेऽनेनेति । श्रु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
कर्णः । (यथा, कथासरित्सागरे । १०३ । १५८ । “तुमुलप्रोल्ल सच्छब्दपिहितान्यरवश्रवः । चचाल स बलाम्भोधिस्तयोर्गम्भीरभीषणः ॥” चु + भावे अप् ।)
श्रवणम् । इत्यमरटीकायां भरतः ॥ (यथा, रघुः । ११ । ७१ । “सप्तसर्प इव दण्डघट्टनात् रोषितोऽस्मि तव विक्रमश्रवात् ॥” श्रूयते इति । कर्म्मणि अप् । शब्दः । यथा, वाजसनेयसंहितायाम् । १६ । ३४ । “नप्तो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च ॥”)



Correction: