वाचस्पत्यम्
श्रवण || न० शृणोत्यनेन श्रु—वरणे ल्युट् । १ कर्णे शब्दग्राह- केन्द्रियभेदे अमरः । भावे ल्युट् । २ श्रुतौ अश्वन्यादिषु द्वाविंशे ३ नक्षत्रे पुंस्त्री० ज्यो० त० क्लीवत्वमपि “अमा- र्कपाते अवणं यदि स्यादिति” स्मृतिः । ४ मुण्डरिकावृक्षे स्त्री रत्नमा० ।
शब्दकल्पद्रुमः
श्रवणं || क्ली (श्रूयतेऽनेनेति । श्रु + करणे ल्युट् ।)
कर्णः । इत्यमरः ॥ न स्त्रियां श्रवणः कर्णः । इति हेममाली । इति तट्टीकायां भरतः ॥ षण्मासाभ्यन्तरे श्रवणयोश्छिद्रं भवति । इति सुखबोधः ॥ श्रुतिः । सा तु कर्णेन्द्रियज्ञानम् । इति मेदिनी ॥ शोना इति भाषा ॥ (यथा, मनुः । ८ । ७४ । “समक्षद्रर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ॥” तत्तु नीतिशास्त्रोक्तधीगुणानामन्यतमम् । यथा, कामन्दकीये । ४ । २२ । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा । ऊद्वोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”)
वड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि तात्पर्य्यावधारणम् । लिङ्गानि तु उपक्रमोप- संहाराभ्यासापूर्व्वता फलार्थवादोपपत्त्या- ख्यानि । इति वेदान्तसारः ॥
शब्दकल्पद्रुमः
श्रवणः || पुं, क्ली, श्रवणानक्षत्रम् । इति मेदिनी ॥ (यथा च स्मृतिः । “अमार्कपाते श्रवणं यदि स्यादिति ॥”)