वाचस्पत्यम्
श्री || पाके क्र्या० उ० सक० सेट् । श्रोणाति—ते अश्रायीत् अश्रायिष्ट
वाचस्पत्यम्
श्री || स्त्री श्रि—क्विप् नि० । १ लक्ष्म्यां २ लवङ्गे अमरः । ३ शो- भायां ४ वाण्यां ५ वेशरचनायां ६ सरलवृक्षे ७ धर्मार्थका- मेमु ८ सम्पत्तौ ९ प्रकारे १० उपकरणे ११ बुद्धौ १२ विभूतौ मेदि० । १३ अधिकारे १४ प्रभायां १५ कीर्त्तौ धरणिः । १६ वृद्धौ १७ सिद्धौ शब्दर० १८ कमले १९ बिल्ववृक्ष २० वृ- द्धिनामौषधौ राजनि० “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्रा- घिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” एत्युक्ते देवादीनां २१ नामोच्चारणायोपाधिभेदे च “सिद्धाधिकारान् स्वर्गगामित्वादिना सिद्धोऽधिकारो येषां नराणां तान् सिद्धाधिकारान् । तेन जीवतां श्रीशब्दादित्वं न मृतानामिति” संस्कारत० रघु० । २१ रागभेदे पु० । श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते अपराह्णे गेयः । तस्य पञ्च रागिण्य मानश्रीः मारवी धनाश्रीः वसन्तरागिणी आशाचरी संगीतदा० । पत्रे श्रीशब्दन्याससंख्याभेदाः पत्रशब्दे ४२२० पु० हश्या
शब्दकल्पद्रुमः
श्री || ञ ग पाके । इति कविकल्पद्रुमः ॥ [क्र्या०- उभ०-सक०-सेट् ।)
ञ ग श्रीणाति श्रीणीते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्रीः || पुं, (श्रि + क्विप् दीर्घश्च ।)
रागविशेषः । स तु हनुमन्मते षड्रागान्तर्गतपञ्चमरागः । पृथिव्या नाभितो निर्गतः । अस्य जातिः सम्पू र्णा । तस्य स्वरावलिः । ष ऋ ग म प ध नि अस्य गृहं षड्जस्वरः । हेमन्तर्त्तौ अप- राह्णे गानसमयः । रागमालायां अस्याकारः । सुन्दरपुरुषः । शुक्लवस्त्रपरीधानः । मतान्तरे रक्तवस्त्रपरीधानः । स्फाटिकपद्मरागमणि- मालागलः । पद्मपुष्पहस्तः । विचित्रसिंहा- सनारूढः । अस्य संमुखे गायन्ति गायकाः ॥ हनुमन्मते अस्य भार्य्याः पञ्च । यथा । प्रथमा मालश्रोः । [तस्याः सम्पूर्णजातिः । अस्याः स्वरावलिः । ष ऋ ग म प ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौद्वितीयप्रहरदिवसे गान- समयः । रागमालायां तस्याः स्वरूपम् । रक्त- वर्णा स्त्री । कोमलाङ्गी । पीतवस्त्रपरीधाना । कौतुकाद्भ्रमन्ती सती नायकादभिन्ना सखी- गणेन सह हास्ययुक्ताम्रतरुतलोपविष्टा ॥ १ ॥ द्वितीया मारवा अथवा मालवा । अस्याः षाडवजातिः । अस्याः स्वरावलिः । ष प ग म ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौ शेषवेलायां गानसमयः । रागमालायां तस्याः स्वरूपं यथा । स्वर्णवस्त्रपरीधाना । पुष्पमाल्य- धरा । नायकमेलनार्थमेकाकिनीसङ्केतस्थानोप- विष्टा ॥ २ ॥ तृतीया धनाश्रीः । अस्याः षाडव- जातिः । अस्याः स्वरावलिः । ष प ध नि ऋ ग । गृहं षड्जस्वरः । हिमर्त्तौ द्वितीयप्रहर- दिवसे शेषवेलायां वा गानसमयः । राग- मालायां तस्याः स्वरूपम् । वियोगिनी नारी । रक्तवस्त्रपरीधाना । वियोगजसन्तापेन दुःखि- तातिकृशा । एकाकिनी रोरुद्यमाना बकुल- तरुतलोपविष्टा ॥ ३ ॥ चतुर्थी वसन्तरागिणी । अस्याः सम्पूर्णा जातिः । अस्याः स्वरावलिः । ष ऋ ग म प ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौ मध्याह्ने वसन्तर्त्तौ दिवा मात्रे च गान- समयः । रागमालायां तस्याः स्वरूपम् । सुन्दरपुरुषाकृतिः । कस्यचिन्मते श्यामवर्णा । रक्तवसना । मयूरपुच्छशिखा । आम्रमुकुल- हस्ता । यौवनमदनमदमत्ता । पुष्पमाल्यगल- देशा । पुष्पोद्याने सह नर्त्तकीसुस्वरगायनीभिः सुखेन रागरङ्गयुता । वामहस्तधृतताम्बूल- वीटिका । स्त्रीगणसहितहास्यकौतुकक्रीडा- नृत्यगीतवाद्यासक्ता । रागमालान्तरे उक्तगुणं- युक्ता श्रीकृष्णमूर्त्तिसदृशमूर्त्तिर्लिखिता ॥ ४ ॥ पञ्चमी आशावरी । अस्या औडवजातिः । अस्याः स्वरावलिः । ध नि ष म प । अस्याः गृहं धैवतस्वरः । हिमर्त्तौ द्वितीयप्रहरदिवसे गानसमयः । रागमालायां अस्याः स्वरूपम् । श्यामवर्णा स्त्री । कोमलाङ्गी । श्वेतशाटीपरि- धाना । कर्पूरानुलेपना । हस्तपदयोर्बृहत्सर्प- वेष्टिता केशैर्बद्धचूडा । जलमध्यस्थपर्वतगुहा- यामुपविष्टा । रागमालान्तरे उक्तगुणयुक्ता वृक्षपत्रबद्धकटिदेशा नग्ना लिस्विता ॥ ५ ॥ * ॥
अस्य पुत्त्रा अष्टौ । यथा । सिन्धुः १ मालवः २ गौँडः अथवा गोण्डः ३ अस्य स्थाने केचित् कल्याणः इति केचिच्च हामीर इति पठन्ति । नुण सागरः ४ कुम्भः ५ गम्भीरः ६ शङ्करः अथवा आगडः ७ विहागरः ८ ॥ * ॥
कल्लि- नाथमते श्रीरागः प्रथमरागः अस्य भार्य्या षट् । यथा । गौरी १ गौलाहली २ धवली ३ रुद्राणी ४ मालकौश अर्थात् कौशिकी ५ देव- गान्धारी ६ । तन्मते पुत्त्रा अष्टौ हनुमन्मत- तुल्याः । किन्तु गौँडशङ्करविहागरस्थाने कल्याण आगडा विगडा लिखिताः ॥ * ॥
सोमेश्वरमतेऽपि प्रथमरागोऽयम् । अस्य रागिण्यः षट् । यथा । मालवी अथवा मरवा १ त्रिवेणी अथवा तिरवनी २ गौरी ३ केदारा ४ मधुमाधवी ५ पाहाडिका अथवा पाहाडी ६ । अस्य पुत्त्राः पूर्व्वोक्तमतद्वयतुल्याः । तन्मते अस्य रागस्य रागिणीसहितस्य शिशिरर्त्तौ गानममयः ॥ * ॥
भरतमते पञ्चमरागोऽयम् । अस्य रागिण्यः पञ्च । यथा । सिन्धुवी १ । काफी २ ठुमरी ३ पूर्व्वदेशे विस्तार इति ख्याता । विचित्रा ४ शिरहटी अथवा सोरहठी ५ तन्मते अस्याष्ट पुत्त्राः यथा । श्रीरमणः १ कोलाहलः २ सामन्तः ३ शङ्करणः ४ राके- श्वरः ५ खटरागः ६ वडहंसः ७ देशकारः ८ । तेषां भार्य्या यथा । विय्या १ धाय्या २ कुम्भा ३ सुहनी ४ शरदा ५ क्षेमा ६ शशरेखा ७ सुर- सती ८ । इति नानासङ्गीतशास्त्रतः संगृही- तम् ॥
शब्दकल्पद्रुमः
श्रीः || स्त्री (श्रयतीति । श्रि + “क्विप्वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप् दीर्घश्च ।)
लक्ष्मीः (यथा, विष्णुपुराणे । १ । ८ । १३ । “श्रियञ्च देवदेवस्य पत्नी नारायणस्य च या ॥” लवङ्गम् । इत्यमरः ॥ वेशरचना । शोभा । (यथा, रामायणे । २ । ९४ । १० । एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः ॥”)
सरस्वती । सरलवृक्षः । त्रिवर्गः । सम्पत्तिः । (यथा, —
“न दातुं नोपभोक्तुं वा शक्नोति कृपणः श्रियम् ॥”)
विधा । डपकरणम् । विभूतिः । मतिः । इति मेदिनी ॥ अधिकारः । प्रभा । कीर्त्तिः । इति धरणिः ॥ वृद्धिः । सिद्धिः । इति शब्दरत्नावली ॥ वृत्तार्हन्माता । इति हेमचन्द्रः ॥ कमलम् । विल्ववृक्षः । वृद्धिनामौषधम् । इति राज- निर्घण्टः ॥ * ॥
देवादिनाम्नः पूर्व्वं श्रीशब्द- प्रयोगः कर्त्तव्यः । यथा, —
“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥” इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्ग- गामित्वादिना सिद्धोऽधिकारो येषां नराणां इत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः । न तु मृतानां तथेति शिष्टाचारः । इति संस्कार- तत्त्वम् ॥ * ॥
पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्र- शब्दे द्रष्टव्यम् ॥ (एकाक्षरच्छन्दोविशेषः । यथा छन्दोमञ्जर्य्याम् । “ग्श्रीः ।” उदा- हरणम् । “श्रीस्ते । [सास्ताम् ॥”)