वाचस्पत्यम्
श्रीविद्या || स्त्री श्रियै त्रिवर्गाय विद्या । त्रिपुरासुन्दर्य्यां तन्त्रसा० ।
शब्दकल्पद्रुमः
श्रीविद्या || स्त्री (श्रिया विद्या ।)
महाविद्यावि- शेषः । सा तु त्रिपुरसुन्दरी । तस्याः षट्त्रिंश- द्भेदाः ग्रन्थबाहुल्यभिया न लिखिताः । अथ श्रीविद्या । तत्र मेरुः । ज्ञानार्णवे । “भुमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्व- मादनौ । अर्द्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ महात्रिपुरसुन्दर्य्या मन्त्रा मेरुसमुद्भवाः । सकला भुवनेशानी कामेशी बीजमुद्धृतम् । अनेन सकला विद्याः कथयामि वरानने ॥ शक्त्यन्तस्तुर्य्यवर्णोऽयं कलमध्ये सुलोचने । वाग्भवं पञ्चवर्णाठ्यं कामराजमथोच्यते ॥ मादनं शिवचन्द्राठ्यं शिवान्तं मीनलोचने । कामराजमिदं भद्रे षड्वर्णं सर्व्वमोहनम् ॥ शक्तिबीजं वरारोहे चन्द्राद्यं सर्व्वमोहनम् । एतामुपास्य देवेशि कामः सर्व्वाङ्गसुन्दरः । कामराजो भवेद्देवि विद्येयं ब्रह्मरूपिणी ॥” अस्यार्थः । शक्तिरेकारः तूर्य्य ईकारः तेन ककार एकार ईकारलकारमहामाया वाग्- भवकूटम् । शिवो हकारः चन्द्रः सकारः तेन हकारमकारलकारमहामाया इति कामराज- कूटम् । चन्द्रः सकारः तेन सकारककारलकार- महामाया इति शक्तिकूटम् । तेन त्रिभिः कूटैः कामराजविद्येयम् ॥ * ॥
अस्याः ध्यानं यथा, —
“बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् पाशाङ्गुशशरांश्चापं धारयन्तीं शिवां श्रये ॥” एवं ध्यात्वा मानसपूजादिकं कुर्य्यात् । इति तन्त्रसारः ॥