वाचस्पत्यम्
श्रु || गतौ भ्वा० पर० सक० अनिट् । श्रवति अश्रौषीत् ।
वाचस्पत्यम्
श्रु || श्रवण भ्वा० पर० सक० अनिट् । शृणोति अश्रौषीत् । णिंन चङि अशिश्रवत् । णिचि सनि शि (शु)श्रावयिपति ।
शब्दकल्पद्रुमः
श्रु || गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-अनिट् ।)
श्रवति । रेफरहितोऽप्यय- मिति केचित् । शवति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्रु || न गतौ । श्रुतौ । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-सक०-अनिट् । न, शृणोति । रक्षांसीति पुरापि संशृणुमहे । इति मुरारौ व्यतीहारादात्मनेपदम् । संशृणुष्व मयाख्या- तम् । इति गणकृतानित्यत्वात् । आख्यात- शब्दस्य क्रियाविशेषणतयाकर्म्मकत्वे समो गमृच्छेत्यादिना म वा । इति दुर्गादासः ॥