संस्कृत-शब्दकोशः

श्रीहस्तिनी श्रुघ्निका

श्रु

श्रु श्रवणे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शृणोति (वेदे- श्रवति)

अर्थ−
१. सुन्नु, श्रवण गर्नु,
२. जानु ।
प्रति, सम्- (प्रतिसंशृणुते)
१. कबुल गर्नु, वाचा गर्नु, मान्य गर्नु ।
वि-
१. कीर्तिमान् हुनु, प्रसिद्ध हुनु, प्रख्यात हुनु ।

कृदन्तरूपमाला

  • 1“श्रु श्रवणे” 2 श्रावकः-विका, श्रावकः-विका, शुश्रूषकः-षिका, शोश्रूयकः-यिका;
  • 3 श्रोता-त्री, श्रावयिता-त्री, शुश्रूषिता-त्री, शोश्रूयिता-त्री;
  • इत्यादीनि रूपाणि भौवादिकद्रवतिवत् 4 बोध्यानि।
  • 5 शृण्वन्-ती, 6 संशृण्वानः, 7 शुश्रूषमाणः, 8 प्रतिशुश्रूषन्-आशुश्रूषन्, 9 देवदत्तं प्रतिशुश्रूषमाणः-भाष्यात् आशुश्रूषमाणः, 10 शुश्रुवान्, 11 देवदत्ताय गां प्रतिशृण्वन्- आशृण्वन् वा, 12 निश्रावी, 13 विश्रावः, 14 श्रवणम्, 15 प्रतिश्रुत्, 16 श्रुतिः, 17 सुश्रुतः, 18 शिश्रावयिषुः-शुश्रावयिषुः, 19 20 श्रवणः, 21 श्रोत्रम्, 22 श्रवः-विश्रवः-वैश्रवणः-रावणः, 23 श्रोणिः इतीमानि धातोरस्य विशेषरूपाणि।

प्रासङ्गिक्यः

  • (१७७९)
  • (१-भ्वादिः-९४२। सक। अनि। पर।)
  • [पृष्ठम्१३२६+ ३२]
  • (८८३)
  • १। शतरि, ‘श्रुवः शृ च’ (३-१-७४) इति श्नुप्रत्ययः, तत्सन्नियोगेन ‘शृ’ इति प्रकृतेरादेशश्च। ‘सार्वधातुकमपित्’ (१-२-४) इति श्नुप्रत्ययस्य ङिद्वद्भावात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधः। अत्र वदन्ति--भ्वादिषु पठितत्वादस्य धातोः, श्रवति इत्यनेकत्र ऋग्वेदादिषु प्रयोगश्रवणात् च पूर्वं श्रुधातुः श्रवति इत्याद्याकारेण भौवादिकरूपेणापि युक्त इत्यूह्यते, इति। विद्वांसः प्रमाणमत्र।
  • २। ‘अर्तिश्रुदृशिभ्यश्च’ (वा। १-३-२९) इत्यनेन समुपसृष्टादस्मात् आत्मनेपदम्।
  • ३। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तात् नित्यमात्मनेपदम्।
  • ४। ‘प्रत्याङ्भ्यां श्रुवः--’ (१-३-५९) इति आत्मनेपदनिषेधात् यथासम्भवं परस्मैपदमत्रेति बोध्यम्।
  • ५। ‘प्रत्याङ्भ्यां--’ (१-३-५९) इत्यत्र उपसर्गयोरेव ग्रहणम्; प्रकरणात्। अतश्च कर्मप्रवचनीययोः प्रत्याङोर्ग्रहणे तु आत्मनेपदमपि भवति।
  • ६। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। द्विर्वचनादिकम्।
  • ७। ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (१-३-५९) इति प्रत्याङ्भ्यामुपसृष्टस्य शृणोतेः प्रयोगे देवदत्तस्य सम्प्रदानत्वात् चतुर्थी इति बोध्यम्।
  • ८। ‘रक्षश्रुवसवपशां नौ’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्ययः। क्षीरस्वामी तु अत्र ‘नि’ इत्युपसर्गं प्रत्ययस्य णित्त्वं च अप्रयोजकं मत्वा श्रावी श्रवी इति वृद्धिपक्षं वृद्ध्यभावपक्षं चाह।
  • ९। ‘वौ क्षुश्रुवः’ (३-३-२५) इति घञ्। उवर्णान्तत्वलक्षणापोऽपवादः।
  • १०। श्रूयतेऽनेनेति संज्ञायां ल्युटि श्रवणम् = श्रोत्रम्, वेदो वा।
  • ११। प्रतिश्रूयते इति प्रतिश्रुत् = प्रतिध्वनिः। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-१०८) क्विप्। तुक्।
  • १२। श्रूयतेऽनया इति श्रुतिः = वेदः, श्रोत्रं वा। ‘श्रुयजीषिस्तुभ्यः करणे’ (वा। ३-३-९४) इति स्त्रियां ल्युडपवादः क्तिन्।
  • १३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां कर्तरि क्तः। सुश्रुतः = वैद्यशास्त्र- प्रवर्तकः ऋषिविशेषः।
  • १४। ण्यन्तात् सनि ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति ताच्छीलिके उप्रत्यये, ‘स्रवतिशृणोति--’ (७-४-८१) इत्यादिना अवर्णपरकत्वात् अभ्यासस्येकार- विक्ल्पः।
  • [पृष्ठम्१३२७+ २७]
  • १। नन्द्यादित्वात् (ग। सू। ३-१-१३४) कर्तरि ल्युः। श्रवणः = नक्षत्रविशेषः। बहुश्रुतः, अश्वत्थवृक्षो वा।
  • २। औणादिके (द। उ। ८-८४) ष्ट्रन्प्रत्यये रूपमेवम्। श्रूयतेऽनेनेति श्रोत्रम् = श्रवणम्।
  • ३। औणादिके (द। उ। ९-४९) असुन्प्रत्यये रूपमेवम्। विपूर्वकादस्मात् अपत्यार्थे ‘विश्रवसो विश्रवणरवणौ’ (ग। सू। ४-१-११२) इति शिवादिपाठात् प्रकृतेर्विश्रवण- रवणादेशौ। तौ च यक्षराजे, रक्षोविशेषे च व्यवस्थितौ। तेन वैश्रवणः कुबेरः। रावणः = रक्षोविशेषो लङ्काधिपतिः।
  • ४। ‘वहिश्रियुश्रु…’ (द। उ। १-२१) इत्यादिना निप्रत्ययः। श्रोणिः कटिपश्चाद्भागः।



Correction: