संस्कृत-शब्दकोशः

श्रोतव्य श्रोतृ

श्रोतस्

वाचस्पत्यम्

श्रोतस् ||‍ न० श्रु—असुन् तुट् च । १ कर्णे २ नदीवेगे अमरः । ३ इन्द्रिये हेमच० । अत्रार्थे दन्त्यादित्वमित्यन्ये ।


शब्दकल्पद्रुमः

श्रोतः || [स्] क्ली, (श्रु + असुन् । तुट् च ।)
कर्णः । नदीवेगः । इति जटाधरः ॥ इन्द्रियम् । यथा, “हृषीकमक्षं करणं श्रोतः खं विषयीन्द्रियम् ॥” इति हेमचन्द्रः ॥



Correction: