शब्दकल्पद्रुमः
श्रोता || [ऋ] त्रि, (शृणोतीति । श्रु + तृच् ।)
श्रवणकर्त्ता । यथा, —
“अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥” इति हितोपदेशः ॥ पुराणश्रोतृत्वे प्रमाणमाह । “पठेदर्थं बुध्यमानः श्रावयेद्वै नरोत्तमे । श्रोता तु प्राङ्मु खो भूत्वा शृणुयात् भक्ति- तत्परः ॥” इति पाद्मे पातालखण्डे ७१ अध्यायः ॥