वाचस्पत्यम्
श्रोतस् || न० श्रु—असुन् तुट् च । १ कर्णे २ नदीवेगे अमरः । ३ इन्द्रिये हेमच० । अत्रार्थे दन्त्यादित्वमित्यन्ये ।
शब्दकल्पद्रुमः
श्रोतः || [स्] क्ली, (श्रु + असुन् । तुट् च ।)
कर्णः । नदीवेगः । इति जटाधरः ॥ इन्द्रियम् । यथा, “हृषीकमक्षं करणं श्रोतः खं विषयीन्द्रियम् ॥” इति हेमचन्द्रः ॥