संस्कृत-शब्दकोशः

श्रोतृ श्रोत्रिय

श्रोत्र

वाचस्पत्यम्

श्रोत्र ||‍ न० श्र्यतेऽनेन श्रु—करणे ष्ट्रन् । १ शब्दज्ञानसाधने इन्द्रियभेदे अमरः । २ तदाधारे गोलके च कर्णशब्दे १७०६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

श्रोत्रं || क्ली (श्रू यतेऽनेनेति । श्रु + “हुयामाश्रु- भसिभ्यस्त्रन् ।” उणा ०५ । १६७ । इति त्रन् ।)
कर्णम् । इत्यमरः ॥ (यथा, रघुः । ७ । १६ । “इत्युद्गताः पौरबधूमुखेभ्यः शृण्वन् कथाः श्रोत्रसुखाः कुमारः ॥”)
श्रोत्रियता । इति त्रिकाण्डशेषः ॥



Correction: