वाचस्पत्यम्
श्रोत्रिय || पु० छन्दो वेदमधीते वेत्ति वा छन्दस् + घ श्रोत्रा- देशः । १ वेदाध्ययनानुरते अमरः । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्” इत्युक्ते २ विप्रभेदे “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरुच्यते” मभूक्तलक्षणे ३ ब्राह्मणभेदे च ।
शब्दकल्पद्रुमः
श्रोत्रियः || पुं, (छन्दोऽधीते इति । छन्दस् + श्रोत्रियं- श्छन्दोऽधीते ।” ५ । २ । ८४ । इति घन्प्रत्ययेन साधुः ।)
वेदाध्येतृव्राह्मणः । तत्पर्य्यायः । छान्दसः २ । इत्यमरः ॥ श्रूयते धर्म्माधर्म्मावनेन इति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्ति अधीते वा श्रोत्रियः धघे कादिति इयः । छन्दो- ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः । इति परे । छन्दो वेत्ति अधीते वा छान्दसः । इति पूर्वेण ष्णः । इति भरतः ॥ * ॥
तस्य लक्षणं यथा, —
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि ॥” इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥ मानवे मार्कण्डेयपुराणे चाप्येवम् ॥ * ॥
अपिच । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥ इति दानकमलाकरः ॥