संस्कृत-शब्दकोशः

श्वाश्व् श्वासकास

श्वास

वाचस्पत्यम्

श्वास ||‍ पु० श्वस—घञ् । १ वायुघ्यापारे २ रोगभेदे ३ शिक्षोक्ते वर्णोच्चरणार्थे बाह्यप्रयत्नभेदे च । श्वासरोयस्य निदानादि भावप्र० उक्तं यथा “श्वासनिदानमाह यैरेव कारणैर्हिक्का देहिनां सम्प्रव- र्त्तते । तैरेवबहुभिः श्वासो व्याधिर्घोरः प्रजायते” । श्वा- सस्य भेदानाह “महोर्द्ध्वछिन्नतमकक्षुद्रभेदैस्तु पञ्चधा । भिद्यते स महाव्याधिः श्वास एको विशेषतः” । तस्य पूर्व रूपमाह “प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च । आनाहो वक्त्रवैरस्यं शङ्कनिस्तोद एव च” । सम्प्राप्तिमाह “यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकैः । विष्वक् ब्रजति संरुद्धस्तदा श्वासं करोति साः” । विष्वक् ब्रजति सर्वतो विमार्नान् याति संरुद्धः कफानादिना रुद्धमार्गः । महाश्वासस्य लक्षणमाह “ऊर्द्ध्वायषानवातोयः शब्दवत् दुःखितो नरः । उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवा- निशम् । प्रनष्टज्ञानविज्ञानस्तथा बिभ्रान्तलोचनः । विवृताक्ष्याननो बवुमूत्रवर्ची विशीणवाक् । दीनस्य श्वास- तञ्चास्य दूराद्विज्ञायते भृशम् । अहाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते १ । ऊर्द्ध्वायमानवातः ऊर्द्ध्वं नीयमाने वातो यस्य सः शब्दवत् सशब्दं यथा स्थात् । कीदृक् स शब्दस्तद्बोधयितुमाह मत्तर्षभ इव । उच्चैः श्वीस- तीत्थन्वयः । सन्नद्धः आनद्धः आनाहयुक्त इति यावत् । ज्ञानं तत्तदर्थविनिश्चयः । विशीर्णवाक् स्खलितवचनः । दीनः म्लानः । मारकश्चायं महाश्वासः । ऊर्द्ध्वश्वास- माह “ऊर्द्धं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः । श्लेष्मावृतमुखस्रोतःक्रुद्धगन्धबहार्दितः । ऊर्द्ध्वदृष्टिर्विप- श्यंस्तु बिभ्रान्ताक्ष इतस्ततः । प्रमुह्यन् वेदनार्त्तश्च शुष्काम्यो रतिपीडितः । ऊर्द्ध्वश्वास प्रकुपिते ह्यधःश्वामो निरुद्ध्यते । मुह्यतस्ताम्यतश्चोर्द्धश्वासस्तस्य निहन्त्यसून्” २ । सर्वेषु श्वासेषु ऊर्द्ध्वश्वासोऽत्र अत्यर्थमिति विशेषः । न च प्रत्याहरत्यधः न श्वासमधः करोति श्लेष्मावृतेत्यादिश्लेष्म- णावृतं यन्मुखं स्रोतांसि च तेः क्रुद्धो यो गन्धवहस्ते नार्दितः । विपश्यन् इतस्ततो विकृतं यथा स्यादेवं पश्यन् अधःश्वासो निरुद्ध्यत श्वासो नाधः प्रवर्त्तत” इत्यर्थः । मुह्यतो मोहं प्राप्नुवतस्ताप्यतो ग्लानिं प्राप्नुवतञ्च ऊर्द्ध्वश्वासः असून् प्राणान् हन्ति । छिन्नश्वासस्यारिष्टं लक्षणञ्चाह “यस्तु श्वसिति विच्छिन्न सर्वप्राणेन पीडितः । न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजार्दितः । आनाहस्येदमूर्च्छार्त्तो दह्यमानेन वस्तिना । विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः । विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः । छिन्नश्वासेन विच्छिन्नः स शीघ्र विजहात्यसून्” २ । विच्छिन्नं सविच्छेदं सर्वप्राणेन सर्व- वलेन मर्मच्छेदरुजार्दितः हृदयशिरश्छेदवेदनयैव पीडितः । दह्यमानेन वस्तिना उपलक्षितः । विप्लुताक्षः अश्रुपूर्णनेत्रः । विचेताः उद्विग्नचित्तः छिन्नश्वासेन वि- च्छिन्नः यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स नरः छिन्नश्वासेन विच्छिन्न पीडितो बोद्धव्यः । मारक- श्चायं छिन्नश्वासः । तमकश्वासमाह “प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते । ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य्य च । करोयि पानसं तेन कण्ठे घुर्थरकं तथा । अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् । प्रताम्यति स वेगेन त्रस्यते सन्निरुध्यते । प्रमोहं कास- मानश्च स गच्छति मुहुर्मुहुः । श्लेष्मणा मुच्यमानेन भृशं भवति दुःखितः । तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् । तथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् । न चापि निद्रां लभत शयानः श्वासपी- डितः । पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः । आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति । उच्छ्रि ताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान् । विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते । मेघाम्बु शीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते । स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः” ४ । संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा । पीनसं नासास्रावं तेन श्लेष्मणा घर्धुरं घुर्घुरशब्दं प्राण- प्रपीडकम् । प्रताम्यति तमसि प्रविशतीव वेगेन श्वास- वेगेन सन्निरुध्यते निश्चेष्टो भवतीति चक्रः । सन्नि रुध्यते श्वास इति जैज्जटः । । श्लेष्मणा मुच्यभानेन सुखं सुस्तमिव उद्ध्वंसते व्यथितो भवति । शयानः शय- ननिहिताङ्गोऽवगृह्णाति पीडयति उष्णश्चैवाभिनन्दति इत्यनेन तमकी वातकफारब्ध इति बोद्धव्यः । उच्छ्रि- ताक्षः शूनाक्षः । ललाटेन स्विद्यता उपलक्षितः अव धम्यते गजारूढस्येव सवगात्रञ्चाल्यते । तमकस्यैव पित्तानुबन्धजनितज्वरादियोगेन प्रतमकसंज्ञामाह “ज्व रमूर्च्छापरीतञ्च विद्यात् प्रतमकं मिषक्” । तस्यैवापर- लक्षणमाह “उदावर्त्तरजो जीर्णकलिन्नकायनिरोधजः । तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति । मज्जतस्तम सीवास्य विद्यात् प्रतमकन्तु तम्” । उदाबर्त्तो रोगविशेषः रजो धूलिः अत्राजीर्णमामादिक्लिन्नं विदग्धं काय- निरोधा अङ्गवेगानां निरोधः तस्मादुत्पन्नः । क्षुद्रश्वा- समाह “रूक्षायासोद्भवः कोष्ठे क्षुद्रोवात उदीरयन् । क्षुद्रश्वासो न सोऽत्यर्थदुःखेनाङ्गप्रवाधकः । हिनस्ति न च गात्राणि न च दुःखं यथेतरे । न च भोजनपानानां निरुणद्ध्युचितां गतिम् । नेन्द्रियाणां व्यथाञ्चापि का- ञ्चिदुत्पादयेद्रुजम् । स साध्य उक्तो वलिनः सर्वे चाव्यक्त- लक्षणाः” ५ । क्षुद्रः अल्पनिदानलिङ्गः उदीरयन् ऊर्द्ध्वं गच्छन् दुःखः दुःखप्रदः । सर्वे महाश्वासादयोऽपि । अव्यक्तकक्षणाः सन्तः साध्याः । श्वासानां साध्यत्वादि- कमाह “क्षुद्रेः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते । त्रय श्वासा न सिध्यन्ति तमको दुर्बलस्य च । काम प्राणहरा रोगा बहवो न तु ते तथा । यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै” । वहवो ज्वरादयः “तथा यथा श्वासहिक्वे हरतो जीवमाशुते” । तेषां निदानकर्मविपाकास्तु भृगुभार० उक्ता यथा “श्वासरोगो महानुग्रो देहिदेहाभिघातकः । कर्मणा येन भवति तन्मे निगदतः शृणु । महोर्द्ध्वच्छिन्नतमकक्षुद्रा- भेदोऽस्य पञ्चधा । श्वासः संजायते नॄणां पृथक् कर्मानु- सारतः । यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च । हन्ति स्वादन्ति वातञ्च महाश्वासेन गृह्यते१ । पौराणिक कथा मध्ये यस्तु वाचान्यथा वदेत् । स ऊर्द्ध्वश्वास- मासाद्य दुनोत्यहरहर्निशम् २ । निषिद्धदानग्रहणा- च्छिन्नश्वासेन गृह्यते३ । मर्त्यः शास्त्रार्थनिर्णीतवाक्य यो दूषयत्यपि । पीड्यते तमकश्वासैः ४ क्षुद्रैः पाकस्य विघ्नतः ५ । परत्र कर्मतो देही नरकेषु विपच्यते । नरकान्ते पुनर्व्याघ्रयोनिं शृकरवायसीम् । पृथक् कर्म- वशाद् योनौ गत्वा संप्राप्य तप्यते । मानुषत्वमनुप्राप्य पूर्वोक्तेनोपगृह्यते” ।


शब्दकल्पद्रुमः

श्वासः || पुं, (श्वसित्यनेनेति । श्वस + करणे घञ् । यद्वा, श्वसितीति । श्वस + “श्याद्व्यधेति ।” ३ । १ । १४१ । इति णः ।)
श्वसितम् । वायुः । इति हेमचन्द्रः ॥ तत्पर्य्यायः । प्राणः २ । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे । १ । १४७ । “श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्ग- मालोकते दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा- वल्लरीम् ॥”)
रोगविशेषः । स तु बलवान् महापातकजः । यथा, —
“उन्मादश्चत्वचां दोषो राजयक्ष्माश्मरी तथा । श्वासश्च मधुमेहौ द्वावुदरी पापसंज्ञकाः ॥ इति नारदोक्तम् ॥” इति शुद्धितत्त्वम् । स च हीनबल उपपातकजः यथा, — जलोदस्यकतमीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः । रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥” इति मलमासतत्त्वम् ॥ * ॥
अथ श्वासाधिकारः । तत्र निदानमाह । “यैरेव कारणैर्हिक्का देहिनां संप्रवर्त्तते । तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते ॥” श्वासस्य भेदानाह । “महोर्द्धच्छिन्नतमक्षुद्रभेदैस्तु पञ्चधा । भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥” पूर्व्वरूपमाह । “प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च । आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च ॥” * ॥
मंप्राप्तिमाह । “यदा स्रोतांसि संरुध्य मारुतः कफपूर्त्तकः । विश्वग्व्रजतिसं रुद्धस्तदा श्वासं करोति सः ॥” स्रोतांसि प्राणोदकान्नवहानि । कफपूर्व्वकःकफः पूर्व्वः प्रधानं यस्य सः । विश्वग्व्रजति सर्व्वतो विमार्गान् याति । संरुद्धः कफेन रुद्धमार्गः ॥ * ॥
महाश्वासस्य लक्षणमाह । “उद्धूयमानवातो यः शब्दवत् दुःखितो नरः । उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ॥ प्रनष्टज्ञानविंज्ञानस्तथा विभ्रान्तलोचनः । विवृताक्ष्याननो बद्धमूत्रवर्च्चा विशीर्णवाक् ॥ दीनः प्रश्वसितं चास्य दूरात् विज्ञायते भृशम् । महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ॥” उद्धूयमानवातः ऊर्द्ध्वं नीयमानो वातो यस्य सः शब्दवत् शब्दं यथा स्यात् कीदृक् स शब्दस्तद्- बोधयितुमाह । मत्तर्षभ इव उच्चैः श्वसिती- त्यन्वयः । सन्नद्धः आनद्धः आनाहयुक्त इति यावत् । ज्ञानं शास्त्रम् । विज्ञानं तदर्थविनि- श्चयः । विशीर्णवाक् स्खलितवचनः । दीनः ग्लानः । मारकश्चाथं महाश्वासः ॥ * ॥
ऊर्द्ध- श्वासमाह । “ऊर्द्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः । श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्द्दितः । ऊर्द्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः । प्रमुह्यन् वेदनार्त्तश्च शुष्कास्यो रतिपीडितः ॥ ऊर्द्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते । मुह्यतस्ताम्यतश्चोर्द्ध्वं श्वासस्तस्यैव हन्त्यसून् ॥” सर्वेषु श्वासेषूर्द्धं श्वसते । अत्र अत्यर्थमिति विशेषः । न च प्रत्याहरत्यधः न श्वासमधः करोति । श्लेष्मावृतेत्यादि । श्वेष्मणा आवृतं यन्मुखं स्रोतांसि च तैः क्रूद्धो यो गन्धवहस्ते नार्द्दितः । विपश्यन् इतस्ततो विकृतं यथा स्यादेवं पश्यन् । अधःश्वासो निरुध्यते श्वासो नाधः प्रवर्त्तत इत्यर्थः ॥ * ॥
ऊर्द्धश्वासस्यारि- ष्टस्य लक्षणमाह । मुह्यतो मोहं प्राप्नुवतः ताम्यतो ग्लानिं प्राप्नुवतश्च ऊर्द्धश्वासः असून् प्राणान् हन्ति । तस्यैवेति न तु मोहग्लानि- रहितस्य ॥ * ॥
छिन्नश्वासमाह । “यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः । न चाश्वसिति दुःखार्त्तो मर्म्मच्छदरुजार्द्दितः ॥ आनाहस्वेदमूर्च्छार्त्तो दह्यमानेन वस्तिना । विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ॥ विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः । छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् ॥” विच्छिन्नं सविच्छेदम् । सर्व्वप्रःणेन यावद्बलेन । मर्म्मच्छेदरुजार्द्दितः हृदयशिरश्छेदवेदनयेव पीडितः । दह्यमानेन वस्तिना डपलक्षितः । विप्लुताक्षः अश्रुपूर्णनेत्रः । विचेता उद्विग्न- चित्तः । छिन्नश्वासेन विच्छिन्नः सः । यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स नरश्छिन्नश्वासेन विच्छिन्नः पीडितो बोद्धव्य इत्यर्थः । मारकश्चायं विच्छिन्नश्वासः ॥ * ॥
तमकश्वासमाह । “प्रतिलोमं यथा वायुः स्रोतांसि प्रतिपद्यते । ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य्य च ॥ करोति पीनसन्तेन कण्ठे घुर्घुरकं तथा । अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् ॥ प्रताम्यति स वेगेन त्रस्यते संनिरुध्यते । प्रमोहं कासमानश्च स गच्छति मुहुर्म्मुहुः ॥ श्लेष्मणा मुच्यमानेन भृशं भवति दुःखितः । तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् ॥ तथास्योद्धंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् न चापि निद्रां लभते शयानः श्वासपीडितः ॥ पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः । आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति ॥ उच्छ्रिताक्षो ललाटेन क्लिद्यता भृशमार्त्तिमान् विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ॥ मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते । स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवो- त्थितः ॥” संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा । पीनसं नासास्रावम् । तेन श्लेष्मणा घुर्घुरकं घुर्घुर- शब्दम् । प्राणप्रपीडकं प्राणाधिष्ठानहृदय- प्रपीडकम् । प्रताम्यति तमसि प्रविशतीव । वेगेन श्वासवेगेन । संनिरुध्यते निश्चेष्टो भव तीति चक्रः । संनिरुध्यते श्वास इति जेज्जटः । श्लेष्मणा अमुच्यमानेन । सुखं सुखमिव । उद्धं- सते व्यथितो भवति । शयानः शय्यानिहिताङ्गः अवगृह्लाति पीडयति । उष्णञ्चैवाभिनन्दति इत्यनेन तमको वातकफारब्ध इति बोधव्यम् । उच्छ्रिताक्षः शूनाक्षः । ललाटेन स्विद्यता उपलक्षितः । अवधम्यते गजारूढस्येव सर्वगात्र चाल्यते ॥ * ॥
तमकस्यैव पित्तानुबन्धजनित- ज्वरादियोगेन प्रतमकसंज्ञामाह । “ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तत् । उदावर्त्तरुजोऽजीर्णक्लिन्नकायनिरोधतः ॥ तमसा वर्द्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति । मज्जतस्तमसी चास्य विद्यात् प्रतमकं तु तत् ॥” क्षुद्रश्वासमाह । “रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् । क्षुश्वद्रामेन सोऽत्यर्थं दुःखेनाङ्गप्रवाधकः ॥ हिनस्ति न च गात्राणि न च दुखो यथेतरे । न च भोजनपानानां निरुणद्ध्युचितां गतिम् ॥ नेन्द्रिमाणां व्यथाञ्चापि काञ्चिदुत्पादयेद्रुजम् । स साध्य उक्तो बलिनः सर्व्वे वा व्यक्तलक्षणाः ॥” क्षुद्रः अल्पनिदानलिङ्गः । उदीरयन् ऊर्द्ध्वं- गच्छन् । दुःखः दुःखप्रदः । सर्व्वे महाश्वासा- दयोऽपि ॥ * ॥
श्वासानां साध्यत्वादिकमाह । “क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते । त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ॥ कामं प्राणहरा रोगा बहवो न ज्वरादयः । तथा यथा श्वासहिक्के हरतो जीवमाशु ते ॥” अथ श्वासस्य चिकित्सा । “श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत् । युक्तैर्लवणतैलाभ्यां तैरस्य ग्रथितः कफः ॥ श्वासो विलयमायाति मारुतश्चोपशाम्यति । स्निग्धं ज्ञात्वा ततश्चैनं भोजयेच्च रसोदनम् ॥ स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् । पाययेत् श्वासकासघ्नं प्रतिश्यायकफापहम् ॥” शृङ्गवेरमार्द्रकम् । “प्रस्थं विभीतकानां अस्थि विना साधयेदजा- मूत्रे । अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ॥ दशमूली शटी रास्ना पिप्पली विश्वपौष्करौ ॥ शृङ्गतामलकीभार्गीगुडूचीनागराग्निभिः ॥ यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः । श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ॥” तामलकी भूम्यामलकी । “दशमूलस्य वा क्वाथः पौष्करेणावचूर्णितः । श्वासकासप्रशभनः पार्श्वशूलविनाशनः ॥ रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम् । पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ॥ शृङ्गीमहौषधकणाघनपुष्कराणां चूर्णं शटीमरिचयोश्च सिताविमिश्रम् । क्वाथेन पीतममृता वृषपञ्चमूल्या श्वासं त्र्यहेन विनिहन्ति हि घोररूपम् ॥ पञ्चमूली तु सामान्यात् पित्ते योज्या कनीयसी महती मारुते देया सैव देया कफेऽधिके ॥ कुष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा । शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ॥ हरिद्रां मरिचं द्राक्षां कणां रास्नां शटीं गुडम् । कटुतैलं लिहन् हन्यात् श्वासान् प्राणहरानपि ॥ शतं संगृह्य भार्ग्यास्तु दशमूल्यास्तथापरम् । शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ॥ पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते । आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ॥ पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत् । शीते च मधुनस्तत्र षट् फलानि विनिक्षिपेत् ॥ त्रिकटु त्रिसुगन्धश्च पलमात्रं पृथक् पृथक् । यवक्षारं कर्षयुग्मं संचूर्ण्य प्रक्षिपेत्ततः ॥ भक्षयेदभयामेकां लेहस्यार्द्धं पल तथा । श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥ अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा । स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः । नाम्ना भार्गीगुडख्यातो भिषग्भिः सकलैर्मतः ॥” इति भार्गीगुडः ॥ “रसो गन्धो विषञ्चापि दङ्कणञ्च मनः शिला । एतानि कर्षमात्राणि मरिचं चाष्टकर्षकम् ॥ कटुत्रयं कर्षयुग्भं पृथगत्र विनिःक्षिपेत् । रसः श्वासकुठारोऽयं सर्व्वश्वासनिवारणः ॥” श्वासकुठारो रसः । इति श्वासाधिकारः । इति भावप्रकाशः ॥ * ॥
अन्यच्च । “विभीतकस्य वै चूर्णं समधु श्वामनाशनम् । पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुगम् । सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥” इति गारुडे १८९ अध्यायः ॥ * ॥
तस्य पुराणोक्तनिदानं यथा, — धन्वन्तरिरुवाच । “अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् । कासवृद्ध्या भवेच्छ्वासः पूर्व्वो वा दोषकौपनैः ॥ आमातिसारवमथुविषपाण्डुज्वरैरपि । रजोधूमानिलैर्म्मर्म्मघातादपि हिमाम्बुना ॥ क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वञ्च पञ्चमः । कफोपरुद्धगमनः पवनो विश्वमास्थितः ॥ प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् । उरःस्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ * ॥
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता । आनाहः शङ्खभेदश्च तत्रापासीत भोजनैः ॥ प्रेरितः प्रेरयन् क्षुद्रं स्वयं ससमलं मरुत् । प्रतिलोमं शिरा गच्छेत् उदीर्य्य पवनः कफम् ॥ परिगृह्य शिरोग्रीवमूरःपार्श्वे च पीडयन् । कासं घुर्घुरकं मोहमरुचिं पीनसं भृशम् ॥ करोति तीव्रवेगञ्च श्वासं प्राणोपतापनम् । प्रभ्राम्येत्तस्य वेगेन निष्ठूतान्ते क्षणं सुखी ॥ कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्य- मिच्छति । उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान् ॥ विशुष्कास्यो मुहुः श्वासः कांक्षत्युष्णं सवेपथुम् । मेवाम्बु शीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते ॥ स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् । ज्वरमूर्च्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः ॥ कासश्वसितविच्छिन्नमर्म्मच्छेदरुजार्द्दितः । सस्वेदमूर्च्छः सानाहो वस्तिदाहनिरोधवान् ॥ अधोदृष्टिः प्लुताक्षस्तु मुह्यन्रक्तकलोचनः । शुष्कास्यः प्रलपन् दीनो नष्टच्छायो विचेतनः ॥ महतामहता दीनो नादेन श्वसिति क्वथन् । उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥ प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः । अक्ष समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥ शुष्पकण्ठा मुहुर्म्मुहुः कर्णशङ्खशिरोऽभिरुक् । यो दीर्घमुच्छसित्यूर्द्ध्वं न च प्रत्याहरत्यधः ॥ श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्द्दितः । ऊर्द्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥ मर्म्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् । एते सिद्धेयुरव्यक्ता व्यक्ताः प्राणहरा ध्नुवम् ॥” इति गारुडे श्वासरोगनिदानं १५४ अध्यायः ॥ अथ श्वासरोगस्य कर्म्मविपाकः । “श्वासरोगो महानुग्रो देहिदेहावघातकः । कर्म्मणा येन भवति तन्मे निगदतः शृणु । महोर्द्ध्वच्छिन्नतमकक्षुद्राभेदोऽस्य पञ्चधा ॥ श्वासः संजायते नॄणां पृथक् कर्म्मानुसारता ॥ यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च हन्ति खादन्ति वातञ्च महाश्वासेन गृह्यते ॥ १ ॥ पौराणिककथामध्ये यस्तु वाचान्यथा भवेत् । स ऊर्द्ध्वश्वासमासाद्य दुनोत्यहरहर्निशम् ॥ २ ॥ निषिद्धदानग्रहणात् छिन्नश्वासेन गृह्यते । ३ । मर्त्यः शास्त्रार्थनिर्णीतवाक्यं यो दूषयत्यपि ॥ पीड्यते तमकश्वासैः क्षुद्रैः पाकस्य विघ्नतः । ४ । ५ परत्र कर्म्मतो देहि नरकेषु विपच्यते ॥ नरकान्ते पुनर्व्याघ्रयोनिं शूकरवायसीम् । पृथक्कर्म्मवशाद्योनिं गत्वा संप्राप्य तप्यते ॥ मानुषत्वमनुप्राप्य पूर्व्वोक्तेनोपगृह्यते । श्रुत्वा तूग्रन्तु कदनं श्वांसरोगसमुद्भवम् । प्रणम्य भरतः श्रीमान् भृगुं वाचमुवाचह ॥ राजोवाच । श्वासकर्म्मक्षयं येन दानेन नियमेन च । कृतेन मुक्तो भवति तन्मे वद प्रसादतः ॥ भृगुरुवाच । हाटकीं कारयेन्मूर्त्तिं भक्त्या वरुणवातयोः । ताम्रपात्रोपरि स्थाप्य तत्पात्रं कलसोपरि । राजतं कारयेत् पाशं ध्वजञ्चैव पलद्वयम् । वामदक्षिणतो मूर्त्तिं सपाशां गन्धदीपकेः ॥ वायोर्ध्वजसमायुक्तां गन्धमाल्यपरिष्कृताम् । वरुणस्यापसव्ये तु कुर्य्याद्वायोः प्रपूजनम् ॥ न च श्वासं विनाकासस्तच्छ्वासः कासतोऽपि वा तस्मात् पूज्याविमौ सम्यक् वायुर्वरुण एव च ॥ वारुणं कारयेद्धोमं वरुणस्ये ति मन्त्रतः । घृतक्षौद्रतिलयवैः सहस्रं वा स्वशक्तितः ॥ वायोस्तिलयवैः कार्य्यं मनोवातेति मन्त्रतः । सादरं ब्राह्मणं पूज्य वस्त्रमाल्याक्षतादिभिः ॥ कर्म्मोपशमवाक्येन ब्राह्मणाय निवेदयेत् । सदक्षिणाञ्च तन्मूर्त्तिं दत्त्वा गाथां पठेन्नरः । ॐ नमः पाशभृते तुभ्यं ध्वजातिपतये नमः । जलाधिपतये तुभ्यं वायो सर्व्वजनप्रिय ॥ शुचये दीयते दानं ध्वजपाशौ तु राजतौ । श्वासकासौ हरेयातां प्रीतौ सर्व्वजनप्रियौ ॥ पूर्व्वजन्मविपाकोत्थौ श्वासकासौ च दारुणम् । सहिरण्यं प्रयच्छामि मुक्तोऽहं त्वत्प्रसादतः ॥ सादरं माधवं नत्वा दिग्देवान् भास्करं शिवम् । वस्त्रान्तरं कृतं विप्रं पुनर्भानुमुदीरयेत् ॥ अतः परं प्रकुर्व्वीत यदा सोऽद्भुतदुर्वहौ । श्वासकासौ ज्वरव्याधी दानं तस्योपशान्तये ॥ पशुघतोद्भवे श्वासे कुर्य्यादग्नेस्तु तप णम् । ॐ अग्ने मूर्द्धेति मन्त्रेण छागं दद्यात् सदक्षिणम् कथाविघ्नोद्भवे रोगे कुर्य्यात् सारस्वतं नृप । दधिपात्रं सरजतं सरस्वत्यै निवेदयेत् ॥ निपिद्धदानग्रहणे गीदानन्तु समाचरेत् । इच्छाहारेण सन्तर्प्य द्विजञ्चापि प्रजापतिम् ॥ होमेनानेन दानेन मुक्तो भवति कर्म्मतः । मादरं माधवं नत्वा सन्तर्प्य द्विजपुङ्गवान् ॥ स्नात्वा कलसतोयेन मुक्तो भवति मानुषः ॥” इति भृगुभरतोक्तश्वासकासकर्म्मविपाकः ॥ अपि च । “पिशुनो नरकस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥” इति शातातपीयकर्म्मविपाकः ॥



Correction: