वाचस्पत्यम्
ष || पु० षो—क पृषो० षत्वम् । १ केशे मेदि० २ गर्भविमोचने मानये च ३ सर्वे ४ श्रेष्ठे एकाक्षरकोषः । ५ विज्ञे च त्रि० मेदि० ।
शब्दकल्पद्रुमः
ष || ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा० आत्म०-सक०-अनिट् ।)
मूर्द्धन्यादिः । ङल, सूते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
षः || त्रि विज्ञः । श्रेष्ठः । इति मेदिनी ॥
शब्दकल्पद्रुमः
षः || पुं, कचः । इति मेदिनी ॥ मानवः । सर्व्वः । श्रेष्ठः । गर्भविमोचनः । इति कश्चिदेकाक्षर- कोषः ॥
शब्दकल्पद्रुमः
ष || मूद्ध न्यषकारः । स तु एकपञ्चाशद्वर्णान्तर्गत- सप्तचत्वारिंशद्वर्णः । चतुस्त्रिंशद्व्यञ्जनान्त- र्गतैकत्रिंशत्तमव्यञ्जनञ्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १७ । स्युर्मूर्द्धन्या ऋटुरसा दन्त्या लूतुलसाः स्मृताः ॥”)
तत्पर्य्यायः । “षः श्वेतो १ वासुदेवश्च २ पीता ३ प्राज्ञा ४ विनायकः ५ । परमेष्ठी ६ वामबाहुः ७ श्रेष्ठो ८ गर्भविमोचनः ९ ॥ लम्बोदरो १० यमौजेशः ११ कामधुक् १२ कामधूमकः १३ । सुश्रीः १४ उश्ना १५ वृषो १६ लज्जा १७ मरुद्भक्ष्यः १८ प्रियः १९ शिवः २० ॥ सूर्य्यात्मा २१ जठरः २२ कोषो २३ मत्ता २४ वक्षो २५ विदारिणी २६ । कलकण्ठो २७ मध्यभिन्ना २८ युद्धात्मा २९ मलपूः ३० शिरः ३१ ॥” इति तन्त्रम् ॥ * ॥
अपि च । “षकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः । पित्तं शिक्तिश्च माया च महायोनिः स्वबिन्दु- मत् ॥” इति मन्त्राभिधानम् ॥ अस्य स्वरूपं यथा, —
“षकारं शृणु चार्व्वङ्गि ! अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥ चतुर्वर्गमयं वर्णं सुधानिर्म्मितविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् ॥ सर्व्वदेवमयं वर्णं हृदि भावय पार्व्वति ॥” इति कामधेनुतन्त्रम् ॥ अस्य लेखनप्रकारो यथा, —
“चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥ ऊर्द्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता । मात्रा मध्यगता या तु वाग्देवी सा परा स्मृता ॥” अस्य ध्यानं यथा, —
“चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् । शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् ॥ रत्नालङ्कारभूषाठ्यां श्वेतमाल्योपशोभिताम् । देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् ॥ इति च वर्णोद्धारतन्त्रम् ॥ (धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “शिः कुटादिः षः कृदङ्वान् क्षो जक्षादी र वैदिकः ॥” “आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशे- षणम् । स्वमते तूभयत्र ङ एव । डु ञौ ष पच पाके । भीषिचिन्तीति पचा ।” इति तट्टीका ॥)