संस्कृत-शब्दकोशः

मूसली मृकण्डु

मृ

मृङ् प्राणत्यागे


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- म्रियते

अर्थ−
१. मर्नु, देहत्याग गर्नु ।

कृदन्तरूपमाला

  • 1“मृङ् प्राणत्यागे” 2 ‘मृणाति हिंसार्थे प्वादेर्मृङस्तु म्रियते पदम्।।’ 3 इति देवः।
  • मारकः-रिका, मारकः-रिका, मुमूर्षकः-र्षिका, मेम्रीयकः-यिका;
  • मर्ता- मर्त्री, मारयिता-त्री, मुमूर्षिता-त्री, मेम्रीयिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिकपिपर्तिवत् 4 ज्ञेयानि।
  • 5 म्रियमाणः 6, 7 मरिष्यन्-न्ती-ती, 8 9 मुमूर्षन्, 10 अमृतम्, 11 मरः-अमरः, 12 दुर्मरम्, 13 14 मुमूर्षा, 15 इतीचिप्रत्यये रूपमेवम्।
  • म्रियते इति मरीचिः = रश्मिः, ऋषिविशेषश्च। मरीचिः, 16 इत्युप्रत्यये रूपम्।
  • म्रियन्तेऽस्मिन् प्राणिनः सलिलार्थिन इति मरुः = जलतृणविवर्जितो देशः। मरुः, 17 इति त्युक्प्रत्यये, कित्त्वाद् गुणनिषेधे च रूपमेवम्। मृत्युः, 18 इत्यूकप्रत्ययः।
  • मरूकः = प्राणिविशेषः। मरूकः, 19 इत्युतिप्रत्यये रूपमेवम्।
  • मरुत् = वायुः, देवो वा। मरुत्, 20 इति तन्प्रत्यये रूपमेवम्।
  • मर्तः = प्राणी।
  • मर्तशब्दात्, ‘नवसूरमर्तयविष्ठेभ्यो यत्’ 21 इति स्वार्थे यत्प्रत्यये मर्त्यः इति सिद्ध्यति।
  • मर्त्यः = मनुष्यः। मर्तः-मर्त्यः इती- मान्यस्माद् भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३०१)
  • ↑ (६-तुदादिः-१४०३। अक। अनि। आत्म।)
  • ↑ (श्लो। ३४)
  • ↑ (१०४४)
  • ↑ २। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे इयङादेशे च रूपमेवम्।
  • ↑ आ। ‘म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः।’ भ। का। ६। १४१।
  • ↑ ३। ‘म्रियतेर्लुङ्लिङोश्च’ (१-३-६१) इत्यात्मनेपदस्य नियमितत्वात्, स्यप्रत्ययस्य च शित्प्रत्ययत्वादिनिदानाभावादत्र परस्मैपदं भवति। विस्तरस्तु माधवधातुवृत्त्या- दिषु बोध्यः। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमोऽत्रेति विशेषः।
  • ↑ [श्वा]
  • ↑ ४। सन्नन्ताच्छतरि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युकारे, रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। अत्र, ‘पूर्ववत् सनः’ (१-३-६२) इति शानज् न, म्रियतिधातुमात्रस्यात्मनेपदनिमित्तत्वाभावात् शिल्लुङ्लिङां च निमित्तत्वात्। अतो यथासभ्भवं परस्मैपदप्रयोग उपपन्नः। तथा च भाष्ये (३-१-७) प्रयुक्तम् ‘श्वा मुमूर्षति’ इति। अत्र शुनश्चेतनत्वात् जीवितस्य प्रियत्वात् व्याध्याद्यभिभवेऽपि तिर्यक्त्वात् मर्तुमिच्छा नास्तीत्यत इच्छार्थकस्सन् न, अपि तु ‘आशंकायाम्--’ (वा। ३-१-७) इति वार्तिकेन आशंकने (आशंसने) सन्-इति बोध्यम्। शङ्के, श्वा मुमूर्षति (मुमूर्षन् अस्ति) इति वाक्यार्थः। स्पष्टमिदं ‘धातोः कर्मणः--’ (३-१-७) इत्यत्र भाष्य-कैय- टादिषु।
  • ↑ ५। न म्रियते इत्यमृतम्। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इत्यत्र चका- रस्यानुक्तसमुच्चयार्थत्वात् वर्तमाने क्तः। ततो नञ्समासः।
  • ↑ ६। पचाद्यचि--मरः। नञ्समासे अमरः = देवः।
  • ↑ B। ‘अकाले दुर्मरमहो यज्जीवामस्तया विना।।’ भ। का। ६। १४।
  • ↑ [पृष्ठम्१०४७+ २८]
  • ↑ आ। ‘ज्याघुष्टकठिनाङ्गुष्ठं राममायान्मुमूर्षया।।’ भ। का। ५। ५७।
  • ↑ १। ‘मृकणिभ्यामीचिः’ [द। उ। १-३८]
  • ↑ २। ‘भृमृ--’ [द। उ। १-९२]
  • ↑ ३। ‘भुजिमृङ्भ्यां युक्त्युकौ [द। उ। १। १३५]
  • ↑ ४। ‘मृकणिभ्यामूकोकणौ’ [द। उ। ३। ४४]
  • ↑ ५। ‘मृग्रोरुतिः’ [द। उ। ६। १]
  • ↑ ६। ‘हसिमृ--’ [द। उ। ६-७]
  • ↑ (वा। ५-४-३६)



Correction: