संस्कृत-शब्दकोशः

रभि रम

रभ्

रभ राभस्ये


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- रभते

अर्थ−
१. आनन्दित हुनु, प्रसन्न हुनु, ।
आ-
१. आरम्भ गर्नु, सुरु गर्नु,
२. आनन्दित हुनु, प्रसन्न हुनु ।

कृदन्तरूपमाला

  • 1“रभ राभस्ये” 2 राभस्यम् = कार्योपक्रमः।
  • अयं प्रायेण आङ्पूर्वक एव प्रयुज्यते।
  • 3 4 आरम्भकः-म्भिका, 5 रम्भकः-म्भिका, 6 रिप्सकः-प्सिका, रारभकः-भिका;
  • 7 आरब्धा-ब्ध्री, रम्भयिता-त्री, रिप्सिता-त्री, रारभिता-त्री;
  • -- रम्भयन् न्ती, रम्भयिष्यन्-न्ती-ती;
  • -- 8 आरभमाणः, 9 आरभमाणः, रम्भयमाणः, रिप्समानः, रारभ्यमाणः, रप्स्यमानः, रम्भयिष्यमाणः, रिप्सिष्यमाणः, रारभिष्यमाणः;
  • सुरप्-सुरभ्-सुरभौ-सुरभः;
  • -- -- आरब्धम्-ब्धः, रम्भितम्-तः, रिप्सितम्, रारभितम्-तः-तवान्;
  • 10 11 रम्भः-रम्भा, 12 साध्वारम्भी, रम्भः, रिप्सुः, 13 रारम्भः;
  • आरब्धव्यम्, आरम्भयितव्यम्, रिप्सितव्यम्, रारभितव्यम्;
  • आरम्भणीयम्, आरम्भणीयम्, रिप्सनीयम्, रारभणीयम्;
  • 14 आरभ्यम्, आरम्भ्यम्, रिप्स्यम्, रारभ्यम्;
  • ईषद्रम्भः-दूरम्भः-सुरम्भः;
  • -- -- -- आरभ्यमाणः, आरम्भ्यमाणः, रिप्स्यमानः, रारभ्यमाणः;
  • आरम्भः, आरम्भः, रिप्सः, रारभः;
  • आरब्धुम्, आरम्भयितुम्, रिप्सितुम्, रारभितुम्;
  • रब्धिः, आरम्भणा, रिप्सा, रारभा;
  • आरम्भणम्, आरम्भणम्, रिप्सनम्, रारभणम्;
  • रब्ध्वा, रम्भयित्वा, रिप्सित्वा, रारभित्वा;
  • आरभ्य, आरम्भ्य, आरिप्स्य, आरारभ्य;
  • रम्भम् २, रब्ध्वा २, रम्भम् २, रम्भयित्वा २, रिप्सम् २, रिप्सित्वा २, रारभम् २;
  • रारभित्वा २;
  • 15 इत्यसच्प्रत्यये रूपम्।
  • बाहुलकात्, ‘राभस्ये’ इति निर्देशाद्वा नुम् न। रभसः।

प्रासङ्गिक्यः

  • ↑ (१३७८)
  • ↑ (१-भ्वादिः-९७४। अक। अनि। आत्म।)
  • ↑ [पृष्ठम्११०२+ २८]
  • ↑ १। ‘रभेरशब्लिटोः’ (७-१-६३) इति, अजादिषु प्रत्ययेषु शब्लिड्वर्जं नुमागमः। एवमेव घञादिष्वपि ज्ञेयम्। “काशकृत्स्नधातुपाठीयकन्नडटीकायां रभकः रभः, रभमाणः, रभणीयम् इत्यादिप्रयोगेषु नुमोऽदर्शनात् वस्तुतः सानुषङ्गाः आरम्भः, आरम्भणम्… इत्येवमादयः प्रयोगाः न रभधातोः, किं तर्हि? सानुषङ्गस्य रम्भधातोः…” इत्यादिकं क्षीरतरङ्गिणीटिप्पणे (पुटे १५१) सुदूरं विचारितम्। तत्र पाणिनीयधातुपाठकोशेषु कुत्रापि सानुषङ्गस्य रम्भधातोरुल्लेखाभावात् प्रमाणं मृग्यमिति बोध्यम्। ‘रेभृ शब्दे’ इति भौवा- दिकस्य धातोः दुर्गसम्मतं ‘रभि शब्दे’ इति पाठमाश्रित्य निर्वाहं केचित् कुर्वन्ति। तदपि दुर्गान्यैस्तत्पाठानादरात् न प्रमाणमिति बोध्यम्।
  • ↑ २। ण्यन्ते ण्वुलि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्तां परामपि वृद्धिं बाधित्वा, ‘रभेरशब्लिटोः’ (७-१-६३) इति नुम् नित्यत्वाद्भवति।
  • ↑ ३। सन्नन्ते, ‘सनि मीमाघुरभ--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽ- भ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘स्कोः--’ (८-२-२९) इति सलोपः। भकारस्य चर्त्वेन पकारः।
  • ↑ ४। तृजादिषु ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, जश्त्वे च रूपमिति ज्ञेयम्।
  • ↑ ५। शानचि, ‘रभेरशब्लिटोः’ (७-१-६३) इत्युक्तत्वात् नुमागमो न। यस्तु परि- भाषेन्दुशेखरे ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः’ (परिभाषा १६) इत्यत्र, “…संज्ञाभूतानां प्रतिषेधम् आरभता वार्तिककृता…” इति वाक्ये, आत्मनेपदस्यास्य धातोः शत्रन्तप्रयोगः प्रयुक्तः, स तु सम्पातायात इति न तावता धातोरस्योभयपदित्वं कल्प्यम्। न च ‘अनुदात्तेत्त्वलक्षणमात्मनेपदम् अनित्यम्’ (परि। ९७) इति वचनात् आत्मनेवदस्यानित्यत्वात् ‘आरभता’ इति प्रयोगः सूपपन्न इति वाच्यम्। तस्याः परिभाषायाः भाष्याद्यनादृतत्वेनाप्रामाण्यस्य नागेशभट्टैरेव समर्थितत्वादित्यन्यत्र विस्तरः। ‘भोक्तुम् आरभमाणः’ इत्यत्र, ‘शकधृषज्ञाग्लाघटरभ--’ (३-४-६५) इत्यादिना धातुमात्रात् तुमुन्।
  • ↑ [भोक्तुम्]
  • ↑ [पृष्ठम्११०३+ २६]
  • ↑ १। पचाद्यचि नुमि रम्भः। स्त्रियां टापि रम्भा = अप्सरोविशेषः, कदली च।
  • ↑ २। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।
  • ↑ ३। यङन्तात् पचाद्यचि, यङो लुकि नुमागमे च रूपमेवम्।
  • ↑ ४। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः। हलन्तलक्षणण्यतोऽपवादः।
  • ↑ ५। ‘अत्यविचमितमिरभि--’ [द। उ। ९-४४]



Correction: