संस्कृत-शब्दकोशः

वहेडुक वह्नि

वह्

वह प्रापणे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- वहति–ते

अर्थ−
१. बग्नु, झर्नु, वहनु,
२. बोक्नु, लैजानु ।
अति-
१. समय बिताउनु ।
अप-
हटाउनु, टाढा लैजानु,
२. छोड्नु,त्याग्नु, तिलाञ्जली दिनु,
आ-
१. पूरै सम्झाउनु,
२. जन्म दिनु, जन्माउनु,
३. वहन गर्नु ।
प्रेरणा-
१. आवाहन गर्नु ।
उद्-
१. विवाह गर्नु ।
उप-
१. नजिक लैजानु, उपक्रम गर्नु, आरम्भ गर्नु ।
नि-
१. सम्हाल्नु, सहारा दिनु ।
निस्-
१. समाप्त हुनु ।
परि-
१. छचल्किनु ।
प्र-
१. वहन गर्नु, लैजानु, बग्नु ।
वि-
१. विवाह गर्नु ।
सम्-
१. लैजानु, धारण गर्नु ।

कृदन्तरूपमाला

  • 1“वह प्रापणे” 2 यजादिः।
  • ‘प्रापणे = धारणे’ इति काशकृत्स्नः।
  • वाहकः-हिका, वाहकः-हिका, 3 विवक्षकः-क्षिका, वावहकः-हिका;
  • 4 वोढा-ढ्री, 5, वाहयिता-त्री, विवक्षिता-त्री, वावहिता-त्री;
  • परिवहन्-उद्वहन् 6 -न्ती, प्रणिवहन्, प्रवहन्-न्ती, 7 व्यतिवहन्-न्ती, 8 वाहयन् भारं देवदत्तेन, वाहयन् यवान् बलीवर्दान्, विवक्षन्-न्ती;
  • -- वक्ष्यन्-न्ती-ती, वाहयिष्यन्-न्ती-ती, विवक्षिष्यन्-न्ती-ती;
  • -- वहमानः 9, वाहयमानः, विवक्षमाणः, वावह्यमानः;
  • वक्ष्यमाणः, वाहयिष्यमाणः, विवक्षिष्यमाणः, वावहिष्यमाणः;
  • 10 11 विश्वोट्, 12 अनड्वान्-अनड्वाहौ-अनड्वाहः;
  • -- -- 13 ऊढम्- 14 कल्पनापोढः- 15 प्रौढः-ऊढवान्, वाहितः, विवक्षितः, वावहितः-तवान्;
  • 16 वहः-वहनः-वाहः, 17 कूलमुद्वहः 18, वहः, 19 भारवाही, 20 प्रवाहणः;
  • 21 ऋषीवहः, कपीवहः, मुनीवहः, 22 वावहिः, वाहः, विवक्षुः, वावहः;
  • प्रणिवोढव्यम्, वाहयितव्यम्, विवक्षितव्यम्, वावहितव्यम्;
  • 23 प्रणिवहनीयम्, वाहनीयम्, विवक्षणीयम्, वावहनीयम्;
  • 24 25 वह्यम् 26 27, वाह्यम्, वाह्यम्, विवक्ष्यम्, वावह्यम्;
  • उह्यमानः, वाह्यमानः, विवक्ष्यमाणः, वावह्यमानः;
  • ईषद्वहः-दुर्वहः-सुवहः;
  • -- -- -- 28 वहः, वाहः, परिवाहः-परीवाहः, वाहः, विवक्षः, वावहः;
  • प्रणिवोढुम् 29, वाहयितुम्, विवक्षितुम्, वावहितुम्;
  • 30 प्रौढिः, वहा, वाहना, विवक्षा, वावहा;
  • वहनम्, 31 इक्षुवाहणम्, वाहनम्, दाक्षिवाहनम्-इन्द्रवाहनम्, भारवाहणम् 32, विवक्षणम्, वावहनम्;
  • ऊढ्वा, वाहयित्वा, विवक्षित्वा, वावहित्वा;
  • प्रवह्य, प्रवाह्य, प्रविवक्ष्य, प्रवावह्य;
  • 33 पुरुषवाहं 34, वाहम् २ ऊढ्वा २ वाहम् २, वाहयित्वा २, विवक्षम् २, विवक्षित्वा २, वावहम् २;
  • वावहित्वा २;
  • 35 वह्निः, 36 वधूः।
  • 37

प्रासङ्गिक्यः

  • (१५८२)
  • (१-भ्वादिः-१००४। द्विकर्म। अनि। उभ।)
  • १। धातोरनिट्त्वात् सन्नन्ते, ‘हो ढः’ (८-२-३१) इति धातुहकारस्य ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वे च रूपं बोध्यम्।
  • २। तृचि, ‘सहिवहोरोद् अवर्णस्य’ (६-३-११२) इत्युपधाकारस्य ओकारे ढत्व- ष्टुत्वढलोपदीर्घेषु रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्। ‘आकाशो ह वै नामरूपयो- र्निर्वहिता--’ (छान्दोग्ये ८-१४-१) इत्यत्र तु छान्दसत्वात् न ओकार उपधायाः। प्रत्ययस्येडागमोऽपि छान्दसत्वादेव। स्पष्टमिदमुपनिषद्भाष्येषु।
  • [निर्वहिता]
  • आ। ‘लाङ्गूलमुद्धतं धुन्वन् उद्वहन् परिघं गुरुम्।’ भ। का। ९। ७।
  • ३। “‘वि’ ‘अति’ इत्युपसर्गद्वयपूर्वकात् वहधातोः ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इत्यात्मनेपदे प्राप्ते ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति निषेधे व्यतिवहन् इति रूपं सिद्ध्यति। आचार्यचरणैः ‘वहेर्न निषेध इति केचित्’ इत्युक्तत्वात् तन्मते व्यतिवहते इत्युदाहृतम्” इति प्रक्रियाकौमुदी।
  • ४। ‘नीषह्योः प्रतिषेधः’ (वा। १-४-५२) इति अण्यन्तावस्थायां कर्तुः ण्यन्ते कर्मत्वस्य प्रतिषेधात् रूपमेवम्। ‘वहेः अनियन्तृक्र्तृकस्य’ (वा। १-४-५२) इति कर्मत्वस्य प्रतिप्रसवसद्भावात्, अत्र च नियन्तृ = (सारथि) कर्तृकत्वात् कर्मत्वं भवत्येव।
  • B। ‘सहैव चरमाणौ द्वौ वहमानौ मितं धनुः’। अत्र वयोवचने चानश् इति प्रक्रियासर्वस्वे।
  • [पृष्ठम्१२१९+ २८]
  • १। विश्वं वहतीत्यर्थे क्विपि सम्प्रसारणपूर्वरूपगुणढत्वादिकेषु रूपमेवम्।
  • २। अनः वहतीत्यर्थे ‘अनसि वहेः’ इति क्विपि, ‘डश्चानसः’ (द्रष्टव्या द। उ। ९-१०७) इति अनश्शब्दान्त्यवर्णस्य उकारे रूपमेवम्। ‘सावनडुहः’ (७-१-८२) इति नुम्।
  • ३। क्तप्रत्यये सम्प्रसारणढत्वष्टुत्वढलोपदीर्घादिषु रूपमेवम्। एवं क्त्वाक्तिन्प्रभृतिष्वपि।
  • ४। कल्पनायाः अपोढः इति वृत्तौ ‘अपेतापोढ--’ (२-१-३८) इति क्तान्तेन पञ्चमीसमासः।
  • ५। ‘प्रादूहोढोढ्येषैष्येषु’ (वा। ६-१-८९) इति वृद्धिः। एवं प्रौढिः इति क्तिन्नन्तेऽपि ज्ञेयम्।
  • ६। वह इत्यत्र पचाद्यच्। वहनः इति तु सारथ्यादिवाचकं पदं ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् कर्तरि ल्युटि बोध्यम्।
  • ७। कूलं उद्वहतीति वृत्तौ उत्पूर्वात् वहेः ‘उदि कूले रुजिवहोः’ (३-२-३१) इति खश्। खित्त्वात् नुम्। शित्त्वात् शपि तस्य ‘अतो गुणे’(६-१-९७) इति पररूपम्।
  • आ। ‘उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः।’ भ। का। ६-९६।
  • ८। भारं वहतीति भारवाही। णिनिप्रत्ययान्तमिदम्।
  • ९। प्रपूर्वकात् ण्यन्तात् वाहयतेः नन्द्यादित्वात् कर्तरि ल्युः। ‘कृत्यचः’ (८-४-२९) इति णत्वम्, इति केचित्। वस्तुतस्तु ‘णेर्विभाषा’ (८-४-३०) इति प्राप्तं पाक्षिकं णत्वं बाधित्वाऽत्र संज्ञात्वात् ‘पूर्वपदात् संज्ञायां--’ (८-४-३) इति नित्यं णत्वमिति बोध्यम्।
  • १०। ‘इको वहेऽपीलोः’ (६-३-१२१) इति इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति।
  • ११। ‘सासहिवावहि’ -- (वा। ३-२-१७१) इति निपातनात् यङन्तात् कर्तरि किः किन् वा प्रत्ययः। द्वित्वादिकं बोध्यम्।
  • १२। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहति--’ (८-४-१७) इत्यादिना उपसर्गस्थात् निमित्तादुत्तरस्य नेः णत्वं बोध्यम्।
  • [पृष्ठम्१२२०+ २६]
  • १। वहत्यनेनेति करणार्थे शकटादिके विवक्षिते ‘वह्यं करणम्’ (३-१-१०२) इति निपातनात् यत्प्रत्ययान्तता। ण्यतोऽपवादः। करणभिन्नयोः भावकर्मणोरर्थयोः विवक्षितयोस्तु वाह्यम् इति ण्यदन्तत्वमेव।
  • आ। ‘तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनम्।’ भ। का। ६-५२
  • [शकटम्]
  • २। वहन्त्यनेन बलीवर्दादयः भारमिति वहः = स्कन्धः। करणे ‘गोचरसञ्चरवह--’ (३-३-११९) इति घप्रत्ययान्तो निपातितः। हलन्तलक्षणघञोऽपवादः। वाहः अश्वः। अत्र तु वहतीति वाहः इति वा, उह्यतेऽनेनेति वा वृत्तिर्बोध्या।
  • B। ‘वृद्धौ रसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय।’ भ। का। ३। ५४।
  • ३। प्रौढिरित्यत्र ‘प्रादूहोढोढ्येषैष्येषु’ (वा। ६-१-८९) इति वृद्धिः। इयं च क्तिन्तन्त एव;\\n\\n क्तिजन्ते नेत्याहुः।
  • ४। अत्र ‘वाहनम् आहितात्’ (८-४-८) इति णत्वम्। वाहने यत् आरोपितं तत् आहितम्;\\n\\n उपरि निपतितेक्षुकं वाहनमित्यर्थः। दाक्षिवाहनम् इन्द्रवाहनम् इत्यादिषु तु आहितार्थकत्वाभावात् न णत्वम्।
  • C। ‘दूरादपावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः।।’ शि। व। १२। ३४।
  • ५। ‘कर्त्रोर्जीवपुरुषयोर्नशिवहोः’ (३-४-४३) इति कर्तृवाचिनि पुरुषशब्दे उपपदे वहेः णमुल्। पुरुषप्रेष्यो भूत्वा वहतीत्यर्थः।
  • (वहति)
  • ६। ‘वहिश्रि--’ (द। उ। १-२१) इति निप्रत्ययः। वहति, उह्यते वा वह्निः = अग्निः।
  • ७। ‘वहेर्धश्च’ (द। उ। १-१६६) इति ऊप्रत्ययः, धात्वन्तस्य धकारादेशश्च। वहति गृहकार्यमिति वधूः = स्नुषा।
  • [पृष्ठम्१२२१+ २७]


वहि वृद्धौ


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वंहते

अर्थ−
१. बढ्नु ।

कृदन्तरूपमाला

  • 1“वहि वृद्धौ” 2 3 सिद्धान्तकौमुद्यां 4 एव उद्धृतोऽयं धातुः।
  • अन्ये सर्वे ‘बहि’ इत्येव पठन्ति।
  • धातुकाव्यव्याख्यायामपि 5 एवमेव। वंहकः-हिका, वंहकः-हिका, विवंहिषकः-षिका, वावंहकः-हिका;
  • वंहिता-त्री, वंहयिता-त्री, विवंहिषिता-त्री, वावंहिता-त्री;
  • वंहन्-न्ती, वंहयन्-न्ती, विवंहिषन्-न्ती;
  • -- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककण्ठतिवत् 6 ज्ञेयानि।
  • युचि- वंहनः इति।

प्रासङ्गिक्यः

  • (१५८३)
  • (१-भ्वादिः-६३३। अक। सेट्। आत्म।)
  • [अ]
  • [बालमनोरमायाम्]
  • (१-८९)
  • (१४९)



Correction: