संस्कृत-शब्दकोशः

विचेष्टित विच्छ

विच्

विचिर् पृथग्भावे


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- विणक्ति–विङ्क्ते

अर्थ−
१. पृथक् गर्नु, अलग गर्नु, छुट्याउनु,
२. पृथक् हुनु, अलग गर्नु,
३. छुट्टिनु, टुट्नु,
४. विवेक गर्नु ।

कृदन्तरूपमाला

  • 1“विचिर् पृथग्भावे” 2 अयं पाठः सर्वसम्मतः।
  • धातुवृत्तौ तु ‘विजिर्--’ इति दृश्यते।
  • वेचकः-चिका, वेचकः-चिका, विविक्षकः-क्षिका, वेविचकः-चिका;
  • वेक्ता-त्री, वेचयिता-त्री, विविक्षिता-त्री, वेविचिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना रौधादिकरिञ्चतिवत् 3 ज्ञेयानि।
  • क्तप्रत्यये-विक्तम् 4 -क्तः, घञि- 5 विवेकः, घिनुणि- 6 विवेकी, 7 विविचिः इमानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • (१५९४)
  • (७-रुधादिः-१४४२। सक। अनि। उभ।)
  • (१४०४)
  • आ। ‘रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः।’ शि। व। ३-५३
  • १। निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे रूपमेवम्।
  • २। ‘संपृचानुरुध… विविच--’ (३-२-१४२) इति तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये कुत्वे च रूपमेवम्। विवेकी = युक्तायुक्तविशेषज्ञः।
  • ३। ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्’ (वा। ३-२-१७१) इति वचनेन (सदादिभ्योऽपि सूत्रानुपात्तेभ्यः) भाषायां किप्रत्यये, एत्वाभ्यासलोपयोश्च रूपमेवम्।



Correction: