वृतु
वृत्त
वृत्
वृतु भासायां भाषायाम् वा
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्तयति–ते
अर्थ−
१. चम्कनु,
२. बोल्नु ।
कृदन्तरूपमाला
- 1“वृतु भाषार्थः” 2 आस्वदीयः।
- ‘वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते।।’ 3 इति देवः।
- ‘भासार्थः’ इति क्षीरस्वामिशाकटायनादयः।
- ‘--दीप्तौ’ इति वोपदेवः।
- ‘तथा च क्षीरस्वामी-- ‘भासा दीप्तिरर्थो येषां ते भासार्थाः’ इति मा।
- धा।
- वृत्तौ।
- क्षीरतरङ्गिण्यां तु नायं पाठ उपलभ्यते।
- उदित्करणात् णिचो वैकल्पिकत्वम् इति ज्ञेयम्।
- वर्तकः-र्तिका, विवर्तयिषकः-षिका, वर्तकः-विवर्तिषकः-वरीवृतकः-तिका;
- वर्तयिता-त्री, विवर्तयिषिता-त्री, वर्तिता, विवर्तिषिता, वरीवृतिता-त्री;
- इत्यादि- कानि रूपाणि सर्वाण्यपि चौरादिकजासयतिवत् 4 ऊह्यानि।
- यङन्ते सर्वत्र ‘रीगृदुपधस्य--’ 5 इति रीगागमः।
प्रासङ्गिक्यः
वृतु वरणे
गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वृत्यते
अर्थ−
१. मन पराउनु, रोक्नु, निश्चित गर्नु,
२. सेवा गर्नु, चाकरी गर्नु ।
कृदन्तरूपमाला
- 1“वृतु वरणे” 2 वृतादिः।
- ‘केचित् पूर्वत्र वाग्रहणमस्यादिं पठित्वा 3 ‘वावृतु वरणे’ इत्याहुः’ इति धा।
- का।
- व्याख्या 4।
- अन्यत्सर्वं पूर्वधातौ 5 द्रष्टव्यम्।
- धातुवृत्तौ ‘वृतु--’ इत्येव उक्तम्।
- ‘वरणे श्यनि वृत्येत’ इति देवः पपाठेति पुरुषकार 6 वचनादुन्नीयते।
- सांप्रतं देवे पाठागमभ्रंशान्नोपलभ्यते।
- वर्तकः-र्तिका, वर्तकः-र्तिका, विवर्तिषकः-षिका, वरीवृतकः-तिका;
- वर्तिता-त्री, वर्तयिता-त्री, विवर्तिषिता-त्री, वरीवृतिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपर्षतिवत् 7 ज्ञेयानि।
- 8 वृत्तम्, निष्ठायाम्-वृत्तः वृत्तवान्, क्यपि- 9 वृत्यम्, 10 वृत्त्वा-वर्तित्वा 11, इमानि रूपाण्यधिकानि इति विशेषः।
- 12
प्रासङ्गिक्यः
वृतु वर्तने
गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्तते
अर्थ−
१. वर्तन गर्नु, व्यवहार गर्नु,
२. रहनु, हुनु ।
अति-
१. जित्नु, पराजित गर्नु,
२. आज्ञाभङ्ग गर्नु,
३. अतिक्रमण गर्नु, नाघ्नु ।
अनु-
१. अनुशरण गर्नु, अरुको नक्कल गर्नु,
२. पछि लाग्नु ।
अप-
१. फर्कनु ।
आ-
१. रिङ्नु, प्रदक्षिणा गर्नु, परिक्रमा गर्नु,
२. बारम्बार गर्नु ।
नि-
१. फर्कनु,
२. नक्कल गर्नु, कृत्रिम गर्नु ।
निर्-
१. रोकिनु, पूरा गर्नु ।
परि-
१. घेर्नु, लपेट्नु,
२. बदल्नु,
३. वर्चस्व गर्नु, वर्चस्वी हुनु,
४. चक्राकार घुम्नु, रिङ्नु,
५. बढ्नु, अघि जानु,
६. फर्कनु, पछि हट्नु ।
प्र-
१. काममा लाग्नु, उद्योग गर्नु, प्रवृत्त हुनु ।
प्रति-
१. जानु ।
वि-
१. फर्कनु,
२. चक्राकार घुम्नु, रिङ्नु ।
विनि-
१. पछि फर्कनु ।
विपरि-
१. मनमा भ्रम हुनु, भ्रमित हुनु ।
समभि-
१. कुदेर जानु, उडेर जानु ।
कृदन्तरूपमाला
- 1“वृतु वर्तने” 2 वृतादिः।
- ‘वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते।।’ 3 इति देवः।
- वर्तनं = स्थितिः इति क्षीरस्वामी।
- 4 वर्तकः-र्तिका, 5 वर्तकः-र्तिका, विवृत्सकः- 6 विवर्तिषकः-षिका, 7 वरीवृतकः- 8 तिका;
- वर्तिता-त्री, वर्तयिता-त्री, विवर्तिषिता-त्री, विवृत्सिता-त्री, वरीवृतिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतृप्यतिवत् 9 ऊह्यानि।
- 10 वृत्तम्- 11 त्तः, वर्तितम्-तः, 12 नीवृत्-उपावृत्, 13 निवर्त्स्यन् 14 15 वर्तिष्यमाणः, 16 वर्तिष्णुः, 17 18 वनवर्ती, 19 व्याववर्ती, 20 वृत्यम्, वार्त्तः 21 समावर्तनीयः, वृत्त्वा, 22 आर्यावर्तः वर्तित्वा, 23 वृत्त्वा 24, ल्यपि-निर्वंर्त्य, 25 26 हस्तवर्तं वर्तयन्, 27 वर्तिः, 28 वर्तनिः वर्तनी, 29 वर्तिका, 30 वर्त्म, 31 वृत्रः;
- इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः