संस्कृत-शब्दकोशः

श्राव्य श्रिञ्

श्रि

श्रिञ् सेवायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- श्रयति–ते

अर्थ−
१. सेवा गर्नु, चाकरी गर्नु, नोकरी गर्नु ।
आ-
१. आश्रय लिनु,
२. नजिक जानु, नजिक रहनु,
३. उपयोग गर्नु, काममा ल्याउनु ।
अपा-
१. छोड्नु ।
उद्, समुद्-
१. अग्लो हुनु ।
व्या,पा-
१. साष्टाङ्ग प्रणाम गर्नु, भुइँमा लड्नु,
२. विश्वास गर्नु, भरोसा राख्नु ।

कृदन्तरूपमाला

  • 1“श्रिञ् सेवायाम्” 2 ‘श्रीणाति पाके श्रीणीते सेवायां श्रयते श्रयेत्।’ 3 इति देवः।
  • श्रायकः-यिका, श्रायकः-यिका, 4 शिश्रयिषकः-शिश्रीषकः-षिका, शेश्रीयकः-यिका;
  • 5 श्रेता-त्री, श्राययिता-त्री, शिश्रयिषिता-शिश्रीषिता-त्री, शेश्रीयिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 6 बोध्यानि।
  • 7 उच्छ्रायः, 8 श्रायः 9 शिश्रिवान्, 10 विश्रयी, 11 श्रित्वा, श्रितः- 12 कष्टश्रितः, 13 श्रीः, 14 श्रेणिः-श्रेणी, 15 श्मश्रु।

प्रासङ्गिक्यः

  • (१७७६)
  • (१-भ्वादिः-८९७। सक। सेट्। उभ।)
  • (श्लो। १६)
  • ४। ‘सनीवन्तर्धभ्रस्जदम्भुश्रि--’ (७-२-४९) इत्यादिना सनि इड्विकल्पः सर्वत्र। इट्पक्षे शिश्रयिषकः इति रूपम्। इडभावपक्षे सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे शिश्रीषकः इत्यादीनि रूपाणि।
  • [पृष्ठम्१३२५+ २८]
  • (२६३)
  • १। एरचोऽपवादभूतः ‘उदि श्रयति--’ (३-३-४९) इति घञ्। कथं ‘पतनान्ताः समुच्छ्रयाः’ इति अजन्तत्वम्? ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् ‘क्वचिदपवादविषयेऽपि उत्सर्गोऽभिनिविशते’ (परि। ६०) इति बोध्यम्। वक्ष्यमाणविभाषाग्रहणानुवृत्तेः समुच्छ्रयः इत्यपि साधुरिति प्रक्रि- याकौमुदीव्याख्या (३-३-४९)।
  • २। ‘श्रिणीभुवोऽनुपसर्गे’ (३-३-२४) इति घञ्।
  • ३। लिटः क्वसौ द्विर्वचनादिकेषु कृतेषु रूपमेवम्। काशिकायाम् (७-२-६७) उदाहृतम्।
  • ४। विपूर्बकादस्मात् ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यादिना इनिप्रत्ययस्ता- च्छीलिकः।
  • ५। ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधः। एवं निष्ठाक्तिन्नादिष्वपि ज्ञेयम्।
  • ६। कष्टं श्रितः कष्टश्रितः। ‘द्वितीया श्रित--’ (२-१-२४) इत्यादिना समासः।
  • ७। ‘क्विब् वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च’ (वा। ३-२-१७८) इति ताच्छीलिकः क्विप्प्रत्ययः, तत्सन्नियोगेन धातोदीर्घः, सम्प्रसारणाभावश्च। श्रयते भगवन्तं नित्यमिति श्रीः लक्ष्मीः।
  • ८। ‘वहिश्रि--’ (द। उ। १-२१) इत्यादिना निप्रत्ययः। श्रेणः = आलिः। श्रेणी; अत्र ‘कृदिकारात् अक्तिनः’ (ग। सू। ४-१-४) इति ङीष्।
  • ९। ‘श्मनि श्रयते ड्रुन्’ (द। उ। १-१६१) इति ड्रुन्प्रत्यये टिलोपे च रूपमेवम्।



Correction: