संस्कृत-शब्दकोशः

प्राजापत प्राजापत्या

प्राजापत्य

वाचस्पत्यम्

प्राजापत्य ||‍ पु० प्रजापतिर्देवताऽस्य यक् । १ अष्टविवाहमध्ये विवाहभेदे “ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः” मनुना अष्ट विवाहानुद्दिश्य “सहोभौ चरतां धर्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः” इति लक्षित “त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्या- दयाचितम् । त्र्यहं परञ्च नाश्नीयात् प्राजापत्यमिति स्मृतम्” इति स्मृत्युक्ते द्वादशाहसाध्ये २ व्रतभेदे न० । ३ प्रजापत्यधिदेवताके चर्वादौ त्रि० । ४ प्रव्रज्याश्रमाङ्गे सर्वस्वदक्षिणकेष्टिभेदे स्त्री “प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्” याज्ञ० । ५ रोहिणीनक्षत्रे न० ६ प्रयागतीर्थे न० त्रिका० ७ जैनभेदे पु० हेमच० ।


शब्दकल्पद्रुमः

प्राजापत्यं || क्ली (प्रजापतिर्देवतास्येति । प्रजापति + “दित्यदित्यादित्यपत्युत्तरपदात् ण्यः ।” ४ । १ । ८५ । इति ण्यः ।)
द्बादशाहसाध्यव्रतविशेषः । तत्र दिवसत्रयं रात्रिमात्रभोजनम् २२ ग्रासाः । दिवसत्रयं दिवामात्रभोजनम् २६ ग्रासाः । दिवसत्रयं अयाचितभोजनम् २४ ग्रासाः । दिवसत्रयं उपवासः । यथा, —
“त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचि- तम् । त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥” ग्राससंख्या पराशरेणोक्ता । “सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथा अयाचिते चतुर्व्विंशः परञ्चानशनं स्मृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
तत्तु अगम्यागमनादिप्रायश्चित्तम् । यथा, —
“अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् । शुध्येच्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः । वैश्यः शान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुध्यति ॥ प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् ॥” इति गारुडे २२६ अध्यायः ॥ * ॥
रोहिणीनक्षत्रम् । यथा, —
“ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥” इति प्रायश्चित्ततत्त्वम् ॥ (प्रजापतेरपत्यमिति । ण्यः । प्रजपतिपुत्त्रः । यथा, कुमारे । ६ । ३४ । “तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे । जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥” प्रजापतेरिदमिति । प्रजापतिसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । ४९ । ७७ । “प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया- वताम् । स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥”)


शब्दकल्पद्रुमः

प्राजापत्यः || पुं, (प्रजापतेरयमिति । प्रजापति + ण्यः । “प्रजापतेर्यज्ञ आसीत् प्रयागे ।” इति महाभारतीय-। १ । ५५ । १ । वचनात् तथा- त्त्वम् ।)
प्रयागः । इति त्रिकाण्डशेषः ॥ जैन- राजभेदः । तत्पर्य्यायः । त्रिपृष्ठः २ । इति हेमचन्द्रः । ३ । ५९ ॥ कायनामकविवाहः । सह धर्म्मं चरतां इति नियमं कृत्वा कन्या- दानम् । यथा, —
“इत्युक्त्वा चरतां धर्म्मं सहजा दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट् षड्वंश्यान् सहा- त्मना ॥” इति मिताक्षरा ॥ कायः कः प्रजापतिर्देवता अस्येति प्राजापत्य इत्यर्थः । इत्युद्बाहतत्त्वम् ॥ (तथा च मनुः । ३ । ३० । “सहोभौ चरतां धर्म्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥”)



Correction: