संस्कृत-शब्दकोशः

भरण्यु भरतखण्ड

भरत

वाचस्पत्यम्

भरत ||‍ पु० भरं तनोति तन—ड । (जडभरत) इति ख्याते १ मुनिभेदे जडभरतकथा च ३०१५ पृ० दृश्या नाट्यशास्त्रस्य अलङ्कारशास्त्रस्य च २ कर्त्तरि मुनिभेदे ३ शवरे ४ तन्तुवाये ५ क्षेत्रे ६ केकयीसुते रामानुजे च । भरतेन प्रोक्तम् भारतं नाट्यशास्त्रमधीयते अण् तस्य लुक् । ७ तच्छ स्त्राध्येतृषु ब० व० । ८ दुष्मन्तेन शकुन्तलायामुत्पादिते पुत्रभेद पु० तस्याप- त्यानि इञ् तस्य बहुषु लुक् । ९ भरतवंश्ये नृपे पु० ब० व० । दौष्मन्तिभरतकथा भाग० ९ । १० अ० दृश्या १० ऋषभदेवपुत्रभेदे भाग०५ । ४ अ० । ११ वह्निपुत्रभेदे “पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणः सुतः । ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः” मात्स्ये ४८ अ० । रामानुजभरतस्य जन्म यथा “भरतो नाम कैकय्यां जज्ञे सत्यपराक्रमः । साक्षा- द्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः” । १२ भौत्यमनुपुत्रभेदे मार्कपु० १०० अ० । १३ आयुधजीविसंधभेदे पु० ततः यौधेया० स्वार्थे अण् । भारत तदर्ये ब० व० । १४ ऋत्विक्षु ब० व० निघण्टुः ।


शब्दकल्पद्रुमः

भरतः || पुं, (बिभर्त्ति स्वाङ्गमिति । बिभर्त्ति लोका- निति वा । भृ + “भृमृदृशियजीति ।” उणा० ३ । ११० । इति अतच् ।)
नाट्यशास्त्रम् । मुनिविशेषः । स तु अलङ्कारादिशास्त्रस्य सूत्र- कर्त्ता । (भरतस्य शिष्यः । तस्येदमित्यण् । अणो लुक् ।)
नटः । रामानुजः । दौष्मन्तिः । इति मेदिनी । ते, १३७-३८ ॥ शवरः । तन्तु- वायः । इति विश्वः ॥ क्षेत्रम् । भरतात्मजः । इति हेमचन्द्रः ॥ दुष्मन्तराजपुत्त्रभरतस्य पर्य्यायः । शाकुन्तलेयः २ दौष्मन्तिः ३ सर्व्व- दमनः ४ । इति त्रिकाण्डशेषः ॥ यस्त्रयस्त्रिंश- च्छतमश्वमेधं कृतवान् । पञ्चाशद्राजसूयं एव- मन्यान् नानाविधान् यज्ञानकरोत् । सप्तविंशति- सहस्रवत्सरानेकच्छत्रं राज्यं कृतवान् । तस्योत्- पत्त्यादिर्यथा, —
“दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ का त्वं कमलपत्राक्षि ! कस्यासि हृदयङ्गमे ! । किं स्विच्चिकीर्षितं त्वत्र भवत्या निर्ज्जने वने ॥ व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ! । न हि चेतः पौरवाणामधर्म्मे रमते क्वचित् ॥ श्रीशकुन्तलोवाच । विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्वो वीर ! किं करवाम ते ॥ आस्यतां ह्यरविन्दाक्ष ! गृह्यतामर्हणञ्च नः । भुज्यन्तां सन्ति नीवारा उष्यतां यदि रोचते ॥ श्रीदुष्मन्त उवाच । उपपन्नमिदं सुभ्रु ! जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यका सदृशं वरम् ॥ ओमित्युक्ते यथाधर्म्ममुपयेमे शकुन्तलाम् । गान्धर्व्वविधिना राजा देशकालविधानवित् ॥ अमोघवीर्य्यो राजर्षिर्महिष्यां वीर्य्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्धा मृगेन्द्रं तरसा क्रीडति स्म स बालकः ॥ तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्त्तुरन्तिकमागमत् ॥ यदा न जगृहे राजा भार्य्यापुत्त्रावनिन्दितौ । शृण्वतां सर्व्वभूतानां खे वागाहाशरीरिणी ॥ माता भस्त्रा पितुः पुत्त्रो येन जातः स एव सः । भरस्व पुत्त्रं दुष्मन्त ! मावमंस्थाः शकुन्तलाम् ॥ रेतोधाः पुत्त्रो नयति नरदेव ! यमक्षयात् । त्वञ्चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ पितर्य्युपरते सोऽपि चक्रवर्क्ती महायशाः । महिमा गीयते तस्य हरेरं शभुवो भुवि ॥ चक्रं दक्षिणहस्तेऽस्य पद्मकोषोऽस्य पादयोः । ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड्विभुः ॥ पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु । भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः ॥ सहस्रं बद्धशो यस्मिन् ब्राह्मणा गा विभेजिरे । त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ॥ दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ । मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् ॥ अदात् कर्म्मणि मष्णारे नियुतानि चतुर्द्दश । भरतस्य महत् कर्म्म न पूर्ब्बे नापरे नृपाः ॥ नैवापूर्णैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा । किरातहूनान् यवनान् पौण्ड्रान् कङ्कान् खशाञ्छकान् ॥ अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान् । जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ॥ देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् । सर्व्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ॥ समास्त्रिनवसाहस्रीर्दिक्षु चक्रमवर्त्तयत् । स सम्राट् लोकपालाख्यमैश्वर्य्यमधिराट्श्रियम् ॥ चक्रञ्चाख्खलितं प्राणान्मृषेत्युपरराम ह । तस्यासन् नृप ! वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः ॥ जघ्नुस्त्यागभयात् पुत्त्रान्नानुरूपा इतीरिते ॥” इति श्रीभागवते ९ स्कन्धे १० अध्यायः ॥ * ॥
ऋषभदेवात् इन्द्रदत्तजयन्त्यां कन्यायां जातशत- पुत्त्रान्तर्गतज्येष्ठपुत्त्रः । यथा । “अथ ह भगवान् ऋषभदेवः स्वं वर्षं कर्म्मक्षेत्रमनुमन्यमानः प्रद- र्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृह- मेधिनां धर्म्माननुशिक्ष्यमाणो जयन्त्यामिन्द्र- दत्तायामुभयविधं कर्म्म समाम्नायमभियुञ्जन्नात्म- जानामात्मसमानानां शतं जनयामास । येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीत् येनेदं वर्षं भारतमिति व्यपदिशन्ति ।” इति श्रीभागवते ५ स्कन्धे ४ अध्यायः ॥ * ॥
पावक- पुत्त्रः । यथा, —
“पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणः स्मृतः । ब्रह्मौदनाग्निस्तत्पुत्त्रो भरतो नाम विश्रुतः ॥” इति मात्स्ये अग्निवंशो नाम ४८ अध्यायः ॥ रामानुजभरतस्य जन्म यथा, —
“भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्विष्णोश्चतुर्भागः सर्व्वैः समुदितो गुणैः ॥” तस्यानुगतः शत्रुघ्नः । यथा, —
“भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः । प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥” स कुशध्वजकन्यां माण्डवीं परिणीतवान् । यथा, “भ्राता यवीयान् धर्म्मज्ञ एष राजा कुशध्वजः । अस्य धर्म्मात्मनो राजन् ! रूपेणाप्रतिमं भुवि ॥ सुताद्बयं नरश्रेष्ठ ! पत्न्यर्थं वरयामहे । तमेवमुक्त्वा जनको भरतञ्चाभ्यभाषत ॥ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ! ॥” स नन्दिग्रामे राज्यं कृतवान् । यथा, —
“सबल्कलजटाधारी मुनिवेशधरः प्रभुः । नन्दिग्रामेऽवसद्धीरः ससैन्यो भरतस्तदा ॥ सबालव्यजनं छत्रं धारयामास स स्वयम् । भरतः शासनं सर्व्वं पादुकाभ्यां निवेदयन् ॥ ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्व्वदा ॥” इति रामायणे बालकाण्डे । १८ । ७२ । ७३ अध्यायाः । अयोध्याकाण्डे २४ अध्यायश्च ॥ तस्य द्वौ पुत्त्रौ । यथा, —
“भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्म्मेण सुसमाहितौ ॥ भरतञ्चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्व्वसुतान् द्वे पुरे विभजिष्यतः ॥” इति रामायणे उत्तरकाण्डे १०१ अध्यायः ॥



Correction: