वाचस्पत्यम्
भावन || न० भू—णिच्—ल्यु । (चालता) १ फलभेदे २ विष्णौ पु० । भावे ल्युट् । ३ अधिवासने ४ चिन्तायाम् ५ ध्याने ६ पर्य्या- लोचनायां वैद्यकोक्ते ७ औषधसंस्कारभेदे । भावि—युच् । “व्यापारो भावना सैवोत्पादना सैव च क्रिया” उक्ते ८भवितुर्भवनानुकूलव्यापारभेदे स्त्री भट्टशब्दे दृश्यम् । अनुभवजन्ये स्मृतिहेतौ ९ संस्कारभेदे स्त्री । “संस्कार- भेदो वेगोऽथ स्थितिस्थापकभावने” “अतीन्द्रियोऽसौ वि- ज्ञेयः क्वचित् स्पन्देऽपि कारणम् । भावनाख्यस्तु सं- स्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् । स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते” भाषाप० । “भावनाख्य इति । तस्य संस्कारस्य, उपेक्षा- त्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मकनिश्चय इत्युक्तम् । तेनोपेक्षान्यनिसयत्वेन संस्कारं प्रति हेतुतेति भावः । ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादि- स्थले न स्मरणम् इत्थञ्च संस्कारं प्रति ज्ञानत्वेनैव हेतुता- स्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात् । किञ्च उपे- क्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारं प्रति चोपे- क्षान्यत्वेन हेतुतायाः सिद्धत्वात् । तत्र प्रमाणं दर्शयति । स्मरणे इति । असौ संस्कारः स्मरणं प्रत्यभिज्ञानञ्च जनयति । अतः संस्कारः कल्प्यते । विना व्यापारं पूर्वानुभवस्य स्वरणादिजननासामर्थ्यं स्वस्वव्या- पारान्यतराभावे कारणत्वासम्भवात् । न च प्रत्यभिज्ञां प्रति तत्तत्संस्कारस्य हेतुत्वेन प्रव्यभिज्ञायाः संस्कार- जन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम् । अप्रयोजकत्वात् । परे तु अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्ध- संस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञां पति हेतुत्वं कल्प्यत इत्याहुः” सि० सु० । भ—चिन्तायां युच् । १० चिन्तायां स्त्री । चिन्ता च मानस- वृत्तिभेदः सा च त्रिविधा यथोक्तं विष्णुपु० ६ अं ७ अ० । “त्रिविधा भावना विप्र! विश्वमेतन्निबोधत । ब्र- ह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका । ब्रह्मभा- वात्मिका ह्येका कर्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविथा भावभावना । सनन्दनादयो व्रह्म भावभावनया युताः । कर्मभापनया चान्ये देवाद्याः स्थावराश्चराः । हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । बाधाधिकारयुक्तेषु विद्यते भावभावना” । बुद्धशब्ददर्शितं बौद्धमतसिद्धभावनाचतुष्टयञ्च दृश्यम् । चु० भू—मिश्रणे भावे युच् । २ निर्यासादिना चूर्णद्रव्यस्य मिश्रीकरणे चूर्णद्रव्यस्य निर्यासादिना संस्कारभेदो भावना तत्प्रमाणमुक्तं भावप्र० यथा “द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत् । भाव- नायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः” ।
शब्दकल्पद्रुमः
भावनं || क्ली (भू + णिच् + ल्युट् ।)
भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता इति भाषा ॥ (भावे ल्युट् ।)
भावना । इति मेदिनी । ने, १०१ ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ॥” भावयतीति । भू + णिच् + ल्युः । उत्पादके, त्रि । यथा, महाभारते । १ । २२४ । ४५ । “दृष्ट्वैव च स राजानं शङ्करो लोकभावनः । उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥”)