वाचस्पत्यम्
मन्त्र || पु० मत्रि—अच् । १ गुप्तमाषणे, रहसि कर्त्तव्याव- धारणार्थमुक्तौ २ देवादीनां साधनार्थं तन्त्राद्युक्ते शब्द- भेदे, ३ वेदविभागभेदे च । वैदिकतान्त्रिकमन्त्रलक्षणादि ऋगभेदभाव्योक्तं वह्निपु० २९ अ० उक्तञ्च दृश्यम् ।
शब्दकल्पद्रुमः
मन्त्रः || पुं, (मन्त्र्यते गुप्तं परिभाष्यते इति । मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तं भाषते इति । मत्रि गुप्तभाषणे + अच् ।)
वेद- भेदः । स च मन्त्रस्वरूपभागः ॥ (यथा, ऋग्वेदे । ६७ । ४ । ७४ । “प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम् ॥” यथा च मनुः । २ । १६ । “निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥” तन्त्राद्युक्तमन्त्रभागश्च । यथा, मनौ । ७ । २१७ । “सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”)
गुप्तिवादः । स तु रहसि कर्त्तव्यावधारणं मन्त्र- णेति ख्यातम् । इत्यमरभरतौ ॥ परामर्शः । मन्त्रणा । (यथा, माधे । २ । २९ । “मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥”)
व्यङ्गादिभ्यो मन्त्रणाग्रहणस्य निषेधो यथा, —
“व्यङ्गाङ्गहीना वधिराः कुयोनिषु रताश्च ये । तेषां मन्त्रो न सुखदः प्रोक्तः कविभिरेव च ॥ कामुकानां जडानाञ्च स्त्रीजितानां तथैव च । श्वशुरस्य गृहे नित्यं जासाता कर्म्मकारकः । तस्यापि न भवेन्मन्त्रः कार्य्यसिद्धौ कदाचन ॥” इति जैमिनिभारते आश्वमेधिकपर्व्वणि २ अः ॥ अन्यत् मन्त्रणाशब्दे द्रष्टव्यम् ॥ * ॥
देवादीनां साधनम् । इति मेदिनी । रे, ७४ ॥ “तन्मन्त्राद्यषडक्षीणं यत् तृतीयाद्यगोचरम् । रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् ॥” इति हेमचन्द्रः ॥ मन्त्रव्याख्याकृदेकनवत्यृषयो यथा, —
“एते मन्त्रकृतः सर्व्वे कृत्स्नशस्तु निबोधत । भृगुः काश्यः प्रचेताश्च दधीचो ह्यात्मवानपि ॥ और्व्वोऽथ जमदग्निश्च विदः शारद्वतस्तथा । आर्ष्णिषेणो ह्यश्वनश्च वीतहव्यः सवेधसः ॥ वैण्यः पृथुर्द्दिवोदासो बन्ध्यश्वो गृत्सशौनकः । एकोनविंशति र्ह्येते भृगवो मन्त्रकृत्तमाः ॥ १९ ॥ अङ्गिरा वेधसश्चैव भरद्बाजो नभात्मकः । तथा मृगधरो गर्द्दः सितिः सुकृतिरेव च ॥ गुववीतश्च मान्धाता अम्बरीषस्तथैव च । युवनाश्वः पुरुकुत्सः सुमदद्युः सदस्यवान् ॥ अजमीढो ह्युदार्य्यश्च तक्षकः कविरेव च । पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥ उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि । अयस्योऽथ सुचित्तिश्च वामदेवस्तथैव च ॥ औषिजो बृहशक्तिश्च ऋषिर्दीर्घतपा अपि । काक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्याङ्गिरसा वराः ॥ ३३ ॥ एते मन्त्रकृतः सर्व्वे काश्यपांस्तु निबोधत । काश्यपः सहवत्सावो निध्रुवो वैद्य एव च । असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥ ६ ॥ अत्रिर्वद्बस्वनश्चैव श्वावाश्वोऽथ गविष्ठिवः । वर्णातको ऋषिः सिद्धस्तथा पूर्ब्बातिथिश्च यः ॥ इत्येते अत्रयः प्रोक्ता मन्त्रकृत्सु महर्षयः ॥ ४ ॥ वशिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः । ततस्तु इन्द्रप्रमतिः पञ्चमस्तु भवद्बसुः ॥ षष्ठस्तु मित्रावरुणिः सप्तमः कुण्डिनस्तथा । इत्येते सप्त विज्ञेया वाशिष्ठा ब्रह्मवादिनः ॥ ७ ॥ विश्वामित्रश्च गाधेयो देवत्रातस्तथोद्दलः । तथा विद्वान् मधुच्छन्दो ऋषिश्चान्योऽघमर्षणः ॥ अष्टको लोहितश्चैव भूतकीलश्च ताबुभौ । देवश्रवा देवरातः पुराणश्च धनञ्जयः ॥ शिशिरश्च महातेजाः सालङ्कायन एव च । त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः ॥ १३ ॥ अगस्त्योऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च । ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्त्तयः ॥ ३ ॥ मनुर्वैवस्वतश्चैव इलो राजा पुरूरवाः । क्षत्त्रियाणां वरा ह्येते विज्ञेया मनुवादिनः ॥ ३ ॥ भनन्दश्चैव भत्सश्च वत्सलश्चैव ते त्रयः । एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः स्मृताः ॥ ३ इत्येकनवतिः प्रोक्ता मन्त्रा यैश्च बहिष्कृताः । ब्राह्मणाः क्षत्त्रिया वैश्या ऋषिपुत्त्रास्तथा स्मृताः । ऋषीणाञ्च सुता ह्येते ऋषिपुत्त्राः श्रुतर्षयः ॥” इति मात्स्ये १२१ अध्यायः ॥ कृष्णमन्त्रमाहात्म्यं यथा, —
“तावन्निबद्धः संसारकारागारे विधेर्जनः । न यावत् कृष्णमन्त्रञ्च प्राप्नोति गुरुवक्त्रतः ॥ कृतकर्म्मभोगरूपनिगडोच्छेदकारणम् । मायाजालोच्छेदकरमाशापाशनिकृन्तनम् ॥ गोलोकमार्गसोपानं निस्तारबीजकारणम् । भक्त्यङ्कुरस्वरूपश्च नित्यं वृद्धमनश्वरम् ॥ सारञ्च सर्व्वतपसां योगानाञ्च तथैव च । सिद्धीनां वेदपाठानां व्रतादीनाञ्च निश्चितम् ॥ दानानां तीर्थस्नानानां यज्ञादीनां पुरन्दर ! । जपानामुपवासानामित्याह कमलोद्भवः ॥ पुंसां लक्षं पितॄणाञ्च शतं मातामहस्य च । पूर्ब्बं परञ्च तत्संख्यं पितरं मातरं गुरुम् ॥ सहोदरं कलत्रञ्च बन्धुं शिष्यञ्च किङ्करम् । समुद्धरेच्च श्वशुरं श्वश्रूं कन्याञ्च तत्सुतम् ॥ आत्मानञ्च सतीर्थ्यञ्च गुरुपत्नीं गुरोः सुतम् । उद्धरेद्बलवान् भक्तो मन्त्रग्रहणमात्रतः ॥ मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः । तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुन्धरा ॥ अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः । तदान्यदेवमन्त्रञ्च लभते पुण्यशेषतः ॥ * ॥
सप्तजन्मोपदेवानां कृत्वा सेवां स्वकर्म्मतः । लभते च रवेर्मन्त्रं साक्षिणः सर्व्वकर्म्मणाम् ॥ जन्मत्रयं भास्करञ्च निसेव्य मानवः शुचिः । लभेद्गणेशमन्त्रञ्च सर्व्वविघ्नहरं परम् ॥ जन्मत्रयं तं निसेव्य निर्व्विघ्नश्च भवेन्नरः । विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ॥ तदा ज्ञानप्रदीपेन समालोच्य महामतिः । अज्ञानान्धतमो हित्वा महामायां भजेन्नरः ॥ विष्णुमायाञ्च प्रकृतिं दुर्गां दुर्गतिनाशिनीम् । सिद्धिदां सिद्धिरूपाञ्च परमां सिद्धयोगिनीम् ॥ वाणीरूपाञ्च पद्माञ्च भद्रां कृष्णप्रियात्मिकाम् । नानारूपां तां निसेव्य जन्मनां शतकं नरः ॥ तत्प्रासादाद्भवेत् ज्ञानी ज्ञानानन्दं ततो भजेत् । कृष्णज्ञानाधिदेवञ्च महाज्ञानं सनातनम् ॥ शिवं शिवस्वरूपञ्च शिवदं शिवकारणम् । परमानन्दरूपञ्च परमानन्ददायिनम् ॥ सुखदं मोक्षदञ्चैव दातारं सर्व्वसम्पदाम् । अमरत्वप्रदञ्चैव दीर्घायुष्ट्वप्रदं परम् ॥ इन्द्रत्वञ्च मनुत्वञ्च दातुं शक्तञ्च लीलया । राजेन्द्रत्वप्रदञ्चैव ज्ञानदं हरिभक्तिदम् ॥ जन्मत्रयं समाराध्य चाशुतोषप्रसादतः । सर्व्वदस्य वरेणैव निर्म्मलं ज्ञानमालभेत् ॥ निर्म्मलज्ञानदीपेन सुप्रदीपेन तत्त्ववित् । ब्रह्मादितृणपर्य्यन्तं सर्व्वं मिथ्यैव पश्यति ॥ दयानिधेः प्रसादेन शङ्करस्य महात्मनः । वरदस्य वरेणैव हरिभक्तिं लभेत् ध्रुवम् ॥ तदा तद्भक्तसंसर्गात् कृष्णमन्त्रं लभेत् ध्रुवम् । तदा निवृत्तिमाप्नोति सारात्सारां परात्पराम् ॥ यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते । तत् पाञ्चभौतिकं त्यक्त्वा बिभर्त्ति दिव्यरूपकम् ॥ करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे । परमानन्दसंयुक्तो मोहादिषु विवर्ज्जितः ॥ न विद्यते पुनर्जन्म पुनरागमनं सुर ! । पुनश्च न पिबेत् क्षीरं धृत्वा मातृस्तनं परम् ॥ विष्णुमन्त्रोपासकानां गङ्गादितीर्थसेविनाम् । स्वधर्म्मिणाञ्च भिक्षूणां पुनर्जन्म न विद्यते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥ शिवमन्त्रा यथा, —
“प्रथमं शृणु तन्मन्त्रं ततोऽनुध्यानगोचरम् । ततः क्रमन्तु पूजायाः क्रमाद्वित्तं नरर्षभौ ॥ समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः । ऋ ऌ क् शून्याः सार्द्धचन्द्रा उपान्ते नाभि- संहिताः ॥ एभिः पञ्चाक्षरैर्मन्त्रः पञ्चवक्त्रस्य कीर्त्तितः । क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः ॥ प्रासादस्तु भवेत् शेषः पञ्चमन्त्राः प्रकीर्त्तिताः । एकैकेन तथैवैकं वक्त्वं मन्त्रेण पूजयेत् ॥ एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् । प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत् । सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते ॥ शम्भोः प्रसादनेनैव यस्माद्वृत्तस्तु मन्त्रकः । तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः । तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः ॥ आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते । मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः ॥ आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः । एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम् ॥ पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् । युवां तेनैव मन्त्रेण आराधय तमीश्वरम् ॥” इति कालिकापुराणे ५० अध्याये वेताल- भैरवौ प्रति वशिष्ठवाक्यम् ॥ * ॥
मन्त्रस्य त्रिविधजपो यथा, —
“वाचिकश्च उपांशुश्च मानसश्च त्रिधा स्मृतः । त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥ यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः । मन्त्रमुच्चारयेद्व्यक्तं जपयज्ञः स वाचिकः ॥ शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् । किञ्चित् शब्दं स्वयं विद्यादुपांशुः स जपः स्मृतः ॥ धिया यदक्षरश्रेण्या वर्णार्द्वर्णं पदात् पदम् । शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः ॥ तेन स्वरादिसुव्यक्तवर्णोच्चारणवान् वाचिकः । स्वयंशब्दग्रहणमात्रयोग्यकिञ्चिच्छब्दवानुपांशुः । जिह्वोष्ठचालनमन्तरेण वर्णानुसन्धात्मको- मानसः ॥” * ॥
वाचिकेऽप्युच्चैर्जपनिषेधमाह शङ्खः । “नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यास्तु विशेषतः ।” योगियाज्ञवल्क्यः । “न चंक्रमन् न विहसन् न पार्श्वमवलोकयन् । नोपाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥ न पदा पादमाक्रम्य न वै बहिः करौ स्मृतौ । नैवंविधं जपं कुर्य्यात् न च संश्रावयेज्जपम् ॥ उत्तिष्ठन् वीक्ष्यमाणोऽर्क्कमासीनः प्राङ्मुखो जपेत् । प्राक् कुशेष्वेवमासीनो वसानो वाससी शुभे ॥” वृद्धमनुः । “यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् । अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः ॥” व्यासः । “जपकाले न भाषेत व्रतहोमादिकेषु च । एतेष्वेवावशक्तस्तु यद्यागच्छेत् द्विजोत्तमः । अभिवाद्य ततो विप्रं योगक्षेमञ्च कीर्त्तयेत् ॥” योगियाज्ञवल्क्यः । “यदि वाग्यमलोपः स्यात् जपादिषु कदाचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥” गोतमः । “क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भितम् । दर्शनं वनितानाञ्च वर्ज्जयेज्जपकर्म्मणि । आचामेत् सम्भवे चैषां स्मरेद्विष्णुं सुरार्च्चितम् ॥” बौधायनः । “नाभेरधश्च संस्पर्शं कर्म्मकाले विवर्ज्जयेत् ॥” इत्याह्निकाचारतत्त्वम् ॥ * ॥
मन्त्रशब्दस्य व्युत्पत्तिर्यथा, —
“मननात्त्रायते यस्मात्तस्मान्मन्त्रः प्रकी- र्त्तितः ॥” मन्त्रदीक्षारहितानां दोषो यथा, मत्स्यसूक्ते । “अदीक्षितानां मर्त्यानां दोषं शृणु वरानने ! । अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् । तत्कृतं तस्य वा श्राद्धं सर्व्वं याति ह्यधो- गतिम् ॥” शूद्रस्य मन्त्रविशेषनिषेधमाह तन्त्रे । “प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्व्वथा । आत्ममन्त्रं गुरोर्म्मन्त्रं मन्त्रं चाजपसं ज्ञकम् ॥ स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः । शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ॥” श्रुतिरपि । “सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् स मृतोऽधो गच्छति ।” विशेषमाह वाराहीये । “गोपालस्य मनुर्देयो महेशस्य तु पादजे । तत्पत्न्याश्चापि सूर्य्यस्य गणेशस्य मनुस्तथा ॥ एषां दीक्षाधिकारी स्यादन्यथा पापभाग्- भवेत् ॥” मन्त्रदीक्षाप्रशंसा यथा, गोविन्दवृन्दावने । “अदीक्षितस्य मरणे प्रेतत्वं न च मुञ्चति ॥” नवरत्नेश्वरे । “सर्व्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम् । अविरोधाद्भवन्त्येव प्रासङ्गिक्यस्तु भक्तयः ॥” तथा । “उपपातकलक्षाणि महापातककोटयः । क्षणाद्दहति देवेशि ! दीक्षा हि विधिना कृता ॥” अत्राप्यनुकूलमन्त्रं दीक्षेत । “स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥” वाराहीये । “ताराचक्रं राशिचक्रं नामचक्रं तथैव च । अत्र चेत् सगुणो मन्त्रो नान्यच्चक्रं विचारयेत् ॥” इति प्राधान्यतया बोध्यम् ॥ तथा च । “धनिमन्त्रन्तु गृह्णीयादनुकूलन्तथैव च ।” इत्यादिदर्शनात्तत्तच्चक्रविचारस्य आवश्यकत्वात् प्रथमं तन्निरूप्यते । सिद्धसारस्वते । “तत्र नृसिं हार्कवराहाणां प्रासादप्रणवस्य च । सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥ स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे । वैदिकेषु च मन्त्रेषु सिद्धादीन्नैव शोधयेत् ॥” मालामन्त्रस्तु वाराहीये । “विंशत्यर्णाधिका मन्त्रा मालामन्त्राश्च कीर्त्तिताः । नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च । एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥ तथा । एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! । वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥” तथा चामुण्डातन्त्रे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥ नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा । कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥ सिद्धविद्यातया नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥” पृथिव्यां पूर्णफलप्रदा महाविद्या । यथा, मालिनीविजये । “अथ वक्ष्याम्यहं या या महाविद्या महीतले । दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥ काली नीला महादुर्गा त्वरिता च्छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥ कामाख्या वासली बाला मातङ्गीशैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥ सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः । तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥” इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु इदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक- त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वात् । इति तु साम्प्र- दायिकाः ॥ * ॥
मन्त्रोद्धारार्थषट्चक्रप्रमाणानि चक्रशब्दे द्रष्टव्यानि । तेषां लेखनप्रकारा यथा, कुलाकुलचक्रम् । वायुः अग्निः भूमिः जलम् आकाशः अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष क्ष ळ स ह वायुः अग्निः भूमिः जलम् आकाशः अकथहचक्रम् । अ क उ आ ऊ थ ह ङ प ख द च फ ओ ऌ औ ॡ ड व झ म ढ श ञ य ई ॠ इ ऋ घ न ज भ ग ध छ ब अः ऐ अं ए त स ठ ल ण ष ट र नक्षत्रचक्रम् । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ क ख ग १ २ ३ ४ ५ ६ ७ ८ ९ देवः मानुषः राक्षसः मानुषः देवः मानुषः देवः देवः राक्षसः घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध १० ११ १२ १३ १४ १५ १६ १७ १८ राक्षसः मानुषः मानुषः देवः राक्षसः देवः राक्षसः देवः राक्षसः न प फ ब भ म य र ल व श ष स ह अं अः १९ २० २१ २२ २३ २४ २५ २६ ल क्ष २७ राक्षसः मानुषः मानुषः देवः राक्षसः राक्षसः मानुषः मानुषः देवः ऋणिधनिचक्रम् । ६ ६ ६ ० ३ ४ ४ ० ० ० ३ अ इ उ ऋ ऌ ए ऐ ओ औ अं अः आ ई ऊ ॠ ॡ क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह २ २ ५ ० ० २ १ ० ४ ४ १ देवताभेदे चक्रविचारस्यावश्यकत्वमाह वारा- हीतन्त्रे यामलादौ च । “तारशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च । राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥ अकडमो वामने च गणेशे च तथैव च । कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् ॥ नामादिचक्रे सर्व्वेषां भूतचक्रे तथैव च । त्रैपुरं तारचक्रे तु शुद्धमन्त्रं जपेद्बुधः ॥” तथा । “वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् । कालिकायाश्च तारायास्तारचक्रं शुभावहम् ॥ चण्डिकायास्तारकोष्ठे गोपालेऽकडमः स्मृतः । हरचक्रे सर्व्वमन्त्रं धनाधिक्ये न चाश्रयेत् ॥ ऋणाधिक्ये शुभं विद्यात् धनाधिक्ये च नो विधिम् । दोषान् संशोध्य गृह्णीयान्मध्यदे शोद्भवस्य च ॥ मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च तुल्यं यदा समफलः कथितो मुनीन्द्रैः ॥” अन्यत्रापि । “शून्ये मृत्युमवाप्नोति धने च विफलं भवेत् । ऋणे च प्राप्तिमात्रेण सर्व्वसिद्धिस्तु जायते ॥” अथ मन्त्राणां दश संस्काराः । गौतमीये । “जननं जीवनं पश्चात् ताडनं बोधनन्तथा । अथाभिषेको विमलीकरणाप्यायने पुनः ॥ तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः । स्वर्णादिपात्रे संलिख्य मातृकायन्त्रमुत्तमम् । काश्मीरचन्दनेनापि भस्मना वाथ सुव्रत ! ॥ काश्मीरं शक्तिसंस्कारे चन्दनं वैष्णवे मनौ । शैवे भस्म समाख्यातं मातृकायन्त्रलेखने ॥ मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् । पंक्तिक्रमेण विधिना मुनिभिस्तत्र निश्चितम् ॥ १ ॥ व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत् केशरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् । आशास्वश्रिषु लान्तलाङ्गलियुजा क्षौणीपुरे- णावृतं यन्त्रं वर्णतनोः परं निगदितं सौभाग्यसम्पत्- करम् ॥” यन्त्रस्य दिक्षु वं विदिक्षु ठं लिखेत् । तथा च गौतमीये । “कादिमान्ताः पञ्चवर्गा दिक्षु पूर्ब्बादितो न्यसेत् । यादिवान्ताः शादिहान्ता लक्षमीशे प्रविन्यसेत् ॥ चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च ॥” इति मातृकायन्त्रम् ॥ “प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः । प्रत्येकं शतवारन्तु जीवनन्तदुदाहृतम् ॥ २ ॥ मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा । प्रत्येकं वायुबीजेन पूर्ब्बवत्ताडनं मतम् ॥ ३ ॥ विलिख्य मन्त्रवर्णांस्तु प्रसूनैः करवीरजैः । तन्मन्त्रवर्णसंख्याकैर्हन्याद्रेफेण बोधनम् ॥” ४ ॥ “तत्तन्मन्त्रोक्तविधिना अभिषेकः प्रकीर्त्तितः ।” तन्त्रान्तरे । “मन्त्रस्य चामुकं वर्णमभिषिञ्चामि हृद्गतम् ।” इति वचनात् प्रत्येकमभिषिञ्चेत् । “अश्वत्थपल्लवैः सिञ्चेत् मन्त्री मन्त्रार्णसंख्यया ॥ ५ ॥ सञ्चिन्त्य मनसा मन्त्रं सुषुम्णामूलमध्यतः । ज्योतिर्मन्त्रेण विधिवत् दहेन्मलत्रयं यती ॥ तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः ॥” तारं प्रणवः व्योम हकारः अग्नी रेफः मनु- रौकारः दण्डी अनुस्वारः ॥ ६ ॥ “स्वर्णेन कुशतोयेन पुष्पतोयेन वा तथा । तेन मन्त्रेण विधिवदाप्यायनविधिः स्मृतः ॥ ७ ॥ मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं मतम् । मधुना शक्तिमन्त्रेषु वैष्णवे चेन्दुमज्जलैः ॥ शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितम् ॥” अभिषेकेऽपि तथा ॥ ८ ॥ “तारमायारमायोगो मनोर्द्दीपनमुच्यते ॥ ९ ॥ जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ १० ॥ संस्कारा दश संप्रोक्ताः सर्व्वतन्त्रेषु गोपिताः । यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमाप्नु- यात् ।” मलत्रयमिति आनव्यं मायिकं कार्म्मणञ्च । प्रपञ्चसारे । “मायिकं नाम योषोत्थं पौरुषं कार्म्मणं मलम् । आनव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम् ॥” न नवं अनवं तस्य भावः आनव्यं वृद्धत्वमित्यर्थः । तारमायारमायोग इति । तारमायारमा- बीजपुटितम् मन्त्रमष्टोत्तरशतं जपेत् इत्यर्थः । तथा च विश्वसारे । “तारमायारमाबीजपुटितेन मनुं जपेत् । शतमष्टोत्तरञ्चैव दीपयेत् साधकोत्तमः ॥” * ॥
अथ दुर्गामन्त्रः । “अथ दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् । मायाद्रिः कर्णबिन्द्वाढ्यो भूयोऽसौ सर्गवान् भवेत् ॥ पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः । तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥” अद्रिर्दकारः । कर्ण उकारः । पञ्चान्तको गकारः । प्रतिष्ठा आकारः । मारुतो यकारः । भौतिक ऐकारः । ॐ ह्रीं दुं दुर्गायै नमः ॥ * ॥
अथ विष्णुमन्त्रः । “तारं नमःपदं ब्रूयात् नरौ दीर्घसमन्वितौ । पवनो णायमन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥” ॐ नमो नारायणाय ॥ * ॥
अथ शिवमन्त्रः । “सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् । प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मनुः ॥” हौँ ॥ * ॥
अथ गणेशमन्त्रः । “पञ्चान्तकं शशिधरं बीजं गणपतेर्व्विदुः ॥” पञ्चान्तको गकारः । गँ ॥ * ॥
अथ सूर्य्यमन्त्रः । “तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः । वह्र्यासनो मरुत्शेषः सनेत्रोऽद्रिस्त्यपश्चिमः ॥ अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः ॥” ॐ घृणि सूर्य्य आदित्य ॥ * ॥
पञ्चदेवतानामेक एको मन्त्रो लिखितः । एतासामन्यासाञ्चान्यमन्त्रा ग्रन्थविस्तारभयान्न लिखिताः ॥ कलावागमोक्तमन्त्रजपविधि- र्यथा, —
“आगमोक्तविधानेन कलौ मन्त्रं जपेत् सुधीः । नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः ॥” तथा । “कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिसम्भवः । द्वापरे तु पुराणोक्तः कलावागमसम्भवः ॥ मन्त्रार्णा देवताः प्रोक्ता देवता गुरुरूपिणी । तेषां भिदा न कर्त्तव्या यदीच्छेच्छुभमात्मनः ॥” पित्रादितो मन्त्रग्रहणनिषेधो यथा, —
“पितुर्मन्त्रं न गृह्णीयात् तथा मातामहस्य च । सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥ न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् । न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥ सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् । शक्तित्वेन वरारोहे ! न च सा कन्यकाभवेत् ॥” तथा गणेशविमर्षिण्याम् । “यतेर्द्दीक्षा पितुर्द्दीक्षा दीक्षा च वनवासिनः । विविक्ताश्रमिणां दीक्षा न सा कल्याण- दायिका ॥” इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि- त्यर्थः । इति तन्त्रसारः ॥ (ज्वरादिनाशक- मन्त्रो यथा, —
“वानराकृतिमालिख्य खटिकाभिः पुनः शृणु । गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः ॥ मन्त्रः । ॐ ह्रां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमाय सूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्याहिक- त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भय- ज्वर-शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृति- ज्वराणां दह दह हन हन पच पच अवतर अवतर किलिकिलि वानरराजज्वराणां बन्ध बन्ध ह्रां ह्रीं हूं फट् स्वाहा ।” इति हारीते चिकित्सितस्थाने द्वितीयेऽध्याये ॥)