संस्कृत-शब्दकोशः

मन्दन मन्दसान

मन्दर

वाचस्पत्यम्

मन्दर ||‍ पु० मदि—अरन् । समुद्रमन्थाने १ पर्वतभेदे २ मन्दार- वृक्षे मेदि० ३ स्वर्गे ४ हारभेदे हेम० ५ दर्पणे च शब्दर० । ६ बहुले ७ मन्दे च त्रि० मेदि० ।


शब्दकल्पद्रुमः

मन्दरः || त्रि (मन्द् + अरः ।)
बहलः । मन्दः । इति मेदिनी । रे, १९६ ॥


शब्दकल्पद्रुमः

मन्दरः || पुं, (मन्द् + बाहुलकात् अरः ।)
मन्थ- शैलः । (यथा, महाभारते । १ । १८ । १३ । “मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासु- किम् ॥”)
मन्दारपादपः । इति मेदिनी । रे, १९६ ॥ स्वर्गः । हारभेदः । इति हेमचन्द्रः । ४ । ९६ ॥ मुकुरः । इति शब्दरत्नावली ॥ (कुशद्बीपस्थ- पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ६१ । “मन्दरः सैव विज्ञेयः सर्व्वधातुमयः शुभः । मन्द इत्येष यो धातुरपामर्थे प्रकाशकः ॥ अपां विदारणात् चैव मन्दरः स निगद्यते ॥”)



Correction: