संस्कृत-शब्दकोशः

मरुत मरुत्कर

मरुत्

वाचस्पत्यम्

मरुत् ||‍ पु० मृ उति । १ वायौ अमरः २ मरुवके भावप्र० ३ देवे ४ ग्रन्धिपर्णे न० मेदि० । ५ पृक्कायां स्त्री शब्दर० । स्वार्थे प्रज्ञाद्यण् । मारुतोऽप्यत्र । पृषो० ह्रस्वः । मरुतोऽपि देवे च वायौ च व्याडिः ।


शब्दकल्पद्रुमः

मरुत् || पुं, (म्रियते प्राणी यस्याभावादिति । मृ + “मृग्रोरुतिः ।” उणा० १ । ९४ । इति उत् ।)
वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा, नैषधचरिते । २ । ५३ । “भृशतापभृता मया भवान् मरुदासादि तुषारसायकान् ॥”)
मरुवकः । इति भावप्रकाशः ॥ (अस्य गुणा यथा, —
“मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णपित्तलो लघुः । वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत् । कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
देवः । (यथा, रघुः । १२ । १०१ । “मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशश्वास पुनः सन्धानशङ्किनाम् ॥” साध्यविशेषः । यथा, हरिवंशे । १९६ । ४५ । “धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत । प्रभवं च्यवनञ्चैवमीशानं सुरभीं तथा । अरण्यं मरुतञ्चैव विश्वावसुवलध्रुवौ ॥”)
भ्रातृवत्सलदेवताविशेषः । यथा, —
“भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्म्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥” इति श्रीभागवते ६ स्कन्धे ५ अध्यायः ॥ “प्रायणं प्रकृष्टं गमनम् । पुण्यमेव बन्धुर्यस्य मरुद्भिर्भ्रातृवत्सलैर्देवैः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (हिरण्यम् । इति निघण्टुः । १ । २ ॥ ऋत्विक् । इति तत्रैव । ३ । १८ ॥)
ग्रन्थिपर्णे, क्ली । इति मेदिनी । ते, १४३ ॥ पृक्कायां, स्त्री । इति शब्दरत्नावली ॥



Correction: