वाचस्पत्यम्
मलिन || त्रि० मल + अस्त्यर्थे इनन् । १ मलयुक्ते अमरः । २ द्रषिते ३ कृष्णे च मेदि० । ४ घोले न० शब्द च० । ५ दोषे हेम० ६ टङ्कणे न० राजनि० (सोहागा) । इनि । मलीत्यप्यत्र
शब्दकल्पद्रुमः
मलिनं || क्ली (मलते धरति दोषमिति । मल + इनच् ।)
घोलम् । इति शब्दचन्द्रिका ॥ दोषः । इति हेमचन्द्रः ॥ टङ्कणः । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
मलिनं || त्रि (मलते धारयतीति । मल + “बहुल- मन्यत्रापि ।” उणा ० २ । ४९ । इति इनच् । यद्वा, “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इत्यत्र । “मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते ।” इति काशिकोक्त्या इनच् ।)
मलयुक्तवस्तु । तत्पर्य्यायः । मलीमसम् २ कच्चरम् ३ मलदूषितम् ४ । इत्यमरः । ३ । १ । ५५ ॥ (यथा, महानिर्व्वाणतन्त्रे । १ । ४३ । “परस्त्रीहरणे पापशङ्काभयविवर्ज्जिताः । निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥”)
दूषितम् । (यथा, आर्य्यासप्तशत्याम् । ४०२ । “परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयं ताभिः । अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल- टाभिः ॥”)
कृष्णम् । इति मेदिनी । ने, १०४ ॥ नित्यनैमि- त्तिकक्रियात्यागी । इति मार्कण्डेयपुराणम् ॥ (निकृष्टम् । यथा, शिशुपालवधे । ९ । २३ । “द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥” “मलिनाश्रयतः निकृष्टाश्रयणात् ।” इति तट्टीकायां मल्लिनाथः ॥)