वाचस्पत्यम्
मुकुर || पु० मकि—उरच् पृषो० । दर्पणे, २ वकुलवृक्षे ३ कुलाल- दण्डे, मेदि० ४ मल्लिकावृक्षे, विश्वः ५ कोलीवृक्षे, शब्दर० । ६ कोरके च हेमच० ।
शब्दकल्पद्रुमः
मुकुरः || पुं, (मक + “मकुरदर्द्दुरौ ।” उणा० १ । ४१ । इत्यत्र । बाहुलकादकारस्थाने उकारः इत्युज्ज्वल- दत्तोक्तेः उरच् ।)
दर्पणः । (यथा, नैषधे । ४ । ५९ । “कुरु करे गुरुमेकमयोघनं बहिरितो मुकुरञ्च कुरुष्व मे ॥”)
वकुलद्रुमः । कुलालदण्डः । इति मेदिनी । रे, २०३ ॥ मल्लिकापुष्पवृक्षः । इति विश्वः ॥ (यथा, मुकुरकुसुमभृङ्गानातपत्रं ध्वजं वा दधिफलमथ नौकामन्नताम्बूलवस्त्रम् । कमलकलसशङ्खं भूषणं काञ्चनं वा भवति सकलसिद्ध्यै श्रेयसे रोगिणाञ्च ॥” इति हारीते द्बितीयस्थाने द्वितीयेऽध्याये ॥)
कुलवृक्षः । इति शब्दरत्नावली ॥ कोरकः । इति हेमचन्द्रः ॥