संस्कृत-शब्दकोशः

मृदिनी मृदुकृष्णायस

मृदु

वाचस्पत्यम्

मृदु ||‍ त्रि० मृद—कु । १ कोमले अमरः । स्त्रियां वा ङीष् मृद्वी मदुः । सा च २ गृहकन्यायाम् । ३ चित्रानुराधा- मृगरेवतीनक्षत्ररूपे नक्षत्रगणभेदे च त्रि० ज्यो० त० ।


शब्दकल्पद्रुमः

मृदुः || त्रि (म्रद्यते म्रदितुं शक्यते इति । म्रद् + “प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।” उणा० १ । २९ । इति कुः ।)
अतीक्ष्णः । कोमलः । इत्यमरः । ३ । १ । ७८ ॥ (यथा, —
“मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
गृहकन्यायां स्त्री । इति राजनिर्घण्टः ॥ (पुं, नृपञ्जयराजपुत्त्रः । इति विष्णुपुराणे । ४ । २१ । ३ ॥)



Correction: