वाचस्पत्यम्
मेध || मेथवत् सर्वम् । मेधति ते अमेधीत् अमेधिष्ट ।
शब्दकल्पद्रुमः
मेध || ऋ ञ वधमेधासङ्गेषु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-वधे सक०-अन्यत्र अक०-सेट् ।)
ऋ, अमिमेधत् । ञ, मेधति मेधते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मेधः || पुं, (मेध्यते वध्यते पश्वादिरत्रेति । मेध + घञ् ।)
यज्ञः । इति जटाधरः ॥ (यथा, महा- भारते । १ । १२३ । ३९ । “ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति ॥” हविः । इति ऋग्वेदे । १० । १०० । ६ । मन्त्र- भाष्ये सायणः ॥)