संस्कृत-शब्दकोशः

मेरक मेरुक

मेरु

वाचस्पत्यम्

मेरु ||‍ पु० मि—रु । सर्ववर्षेभ्य उत्तरस्थे १ पर्वतभेदे जपमालोप- रिस्थे २ फलवीजादिके ३ कररूपमालायामङ्गलिपर्वभेदे च


शब्दकल्पद्रुमः

मेरुः || पुं, (मि + “मिपीभ्यां रुः ।” उणा० ४ । १०१ । इति रुः ।)
पर्व्वतविशेषः । तत्पर्य्यायः । सुमेरुः २ हेमाद्रिः ३ रत्नसानुः ४ सुरा- लयः ५ । इत्यमरः ॥ मिनोति क्षिपति ज्योतींषि उच्चत्वात् मेरुः । डुमि ञ्न क्षेपे नाम्नीति रुः । इति भरतः ॥ * ॥
(यथा, मात्स्ये । १२१ । ८ । “देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः ससौवर्ण उदयो नाम पर्व्वतः ॥”)
जपमालाग्रवर्त्तिन्येका माला । यथा, —
“मालामेकैकमादाय सूत्रे सम्पातयेत् सुधीः । मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् ॥ गोपुच्छसदृशी कार्य्याथवा सर्पाकृतिर्भवेत् । तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ॥” इत्युत्पत्तितन्त्रे ६० पटलः ॥ * ॥
करमालायां मेरुर्यथा, —
“तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका । पर्व्वद्वयं मध्यमाया मेरुत्वे नोपकल्पयेत् ॥” इदन्तु शक्तिभिन्नविषयम् ॥ * ॥
शक्तिविषये मेरुर्यथा, —
“पर्व्वद्बयमनामायाः परिवर्त्तेन वै क्रमात् । पर्व्वत्रयं मध्यमायास्तर्ज्जन्येकं समाहरेत् । पर्व्वद्वयन्तु तर्ज्जन्या मेरुं तद्विद्धि पार्व्वति ! ॥” श्रीविद्याविषये मेरुर्यथा, —
“अनामामध्यमायाश्च मूलाग्रन्तु द्बयं द्बयम् । कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि ! । अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् ॥” तल्लङ्घितजपे दोषो यथा, —
“अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने । पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ॥” इति तन्त्रसारः ॥



Correction: