वाचस्पत्यम्
मोक्ष || क्षेपे वा चु० उम० पक्षे भ्वा० पर० सक० सेट् । मोक्षयति ते मोक्षति अमुमोक्षत् त अमोक्षीत् ।
वाचस्पत्यम्
मोक्ष || पु० मोक्ष—घञ् । १ अपवर्गे २ मोचने “नीविमोक्षोहि मोक्षः” सा० द० । ३ पाटलिवृक्षे मेदि० । ४ मरणे हेमच० ।
शब्दकल्पद्रुमः
मोक्ष || कि क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।)
कि, मोक्षयति मोक्षति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मोक्षः || पुं, (मोक्ष + भावे घञ् । मोक्ष्यते दुःखमनेन । मोक्ष + करणे घञ् । इति भरतः ।)
मुक्तिः ॥ (यथा, सांख्यसारे । २ । ७ । २५ । “न मोक्षो नभसः पृष्ठे न पाताले न भूतले । सर्व्वाशासंक्षये चेतःक्षयो मोक्ष इति श्रुतेः ॥”)
मोक्षधर्म्मस्तु महाभारते शान्तिपर्व्वणि द्रष्टव्यः ॥ पाटलिवृक्षः । मोचनम् ॥ इति मेदिनी । षे, २५ ॥ (यथा, मेघदूते । ६३ । “ताभ्यो मोक्षस्तव यदि सखे ! धर्म्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर्गर्ज्जितैर्भापयेस्ताः ॥”)
मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥ (विश्लेषः । यथा, श्रीमद्भगवद्गीतायाम् । ७ । १९ । “जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्बिदुः कृत्स्नमध्यात्मं कर्म्म चाखिलम् ॥” “मोक्षाय विश्लेषणार्थम् ।” इत्यानन्दगिरिः ॥ आत्मस्वरूपदर्शनम् । इति रामानुजः ॥ निर- सनम् । इति श्रीधरस्वामी ॥ पतनम् । यथा, कुमारसम्भवे । ३ । ३१ । “मदोद्धताः प्रत्यनिलं विचेरु- र्वनस्थलीर्मर्म्मरपत्रमोक्षाः ।” “मर्म्मरपत्रमोक्षाः जीर्णपर्णपाताः ।” इति तट्टीकायां मल्लिनाथः ॥)