संस्कृत-शब्दकोशः

मोषितृ मोहन

मोह

वाचस्पत्यम्

मोह ||‍ पु० मुह—घञ् । १ मूर्च्छायाम् भ्रान्तिसाधने २ अज्ञाने मेदि० ३ वेदान्तोक्ते अविद्यावृत्तिभेदे ३ दुःखे शब्दर० ४ देहादिष्वात्माभिमाने च ।


शब्दकल्पद्रुमः

मोहः || पुं, (मोहनमिति । मुह् + भावे घञ् ।)
मूर्च्छा । इत्यमरः । २ । ८ । १०९ ॥ (यथा, उत्तररामचरिते ३ अङ्के । “वीचिवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेषितैस्तर्पयेति ॥” अस्य विषयो यथा, —
“संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः । तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥ सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् । मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकी- र्त्तिता ॥” इति सुश्रुते उत्तरतन्त्रे ४६ अध्याये ॥)
अविद्या । इति मेदिनी । हे, ७ ॥ दुःखम् । इति शब्दरत्नावली ॥ देहादिषु आत्मबुद्धिः । इति गीतासुबोधिन्यां श्रीधरस्वामी ॥ असौ ब्रह्मणो बुद्धितो जातः । यथा, —
“बुद्धेर्मोहः समभवदहङ्कारादभून्मदः । प्रमोदश्चाभवत् कण्ठान्मृत्युर्लोचनतो नृप ! ॥” इति मात्स्ये २ अध्यायः ॥ मोहस्वरूपं यथा, —
“मम माता मम पिता ममेयं गृहिणी गृहम् । एतदन्यं ममत्वं यत् स मोह इति कीर्त्तितः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
धर्म्मविमूढत्वम् । यथा, —
“अकामतः कृतं पापं वेदाभ्यासेन नश्यति । कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधै- रिति ॥” नन्वत्र मोहादिति को मोहः । अत्र । “मोहशब्देन देवेन्द्र ! बुद्धिपूर्ब्बो व्यतिक्रमः । उच्यते पण्डितैर्नित्यं पुराणे सांशपायनः ॥” इति भविष्यपुराणवचनात् जातबुद्धिपूर्ब्बो व्यति- क्रमो मोहः । इति जिकनः । तन्न कामना- सामर्थ्यादेव बुद्धेर्लब्धत्वात् । उच्यते । शूद्रस्य ब्रह्माणीं मोहाद्गच्छत इत्यादौ मुह वैचित्त्ये इति धात्यर्थानुसारात् अज्ञानमात्रं मोहः । यत्र तु कामनाशब्दोऽस्ति तत्र भविष्यपुराण- सङ्केतितमोहशब्दो न ग्राह्यः । किन्तु घर्म्म- विमूढत्वं मोहः स चाधर्म्मबुद्धौ सत्यामप्यकर्त्तव्ये रागात् कर्त्तव्यताभ्रमः । यथा, व्यासः । “मोहो धर्म्मविमूढत्वं मानस्त्वात्माभिमानिता ।” एवञ्च भविष्यपुराणीयबुद्धिशब्दोऽप्यधर्म्मज्ञान- मेवाभिधत्ते सत्यधर्म्मज्ञाने पापगौरवार्थमिद- मुक्तं मोहादिति । इति प्रायश्चित्तविवेकः ॥ * ॥
मोहवृक्षो यथा, — सुमनोवाच । “श्रूयतामभिधास्यामि सर्व्वसन्देहनाशनम् । स्वरूपमुपदेशस्य सर्व्वविज्ञानदर्शनम् ॥ लोभः पापस्य बीजोऽयं मोहो मूलन्तु तस्य हि । असत्यं तस्य च स्कन्धो माया शाखासुविस्तरः ॥ दम्भकौटिल्यपत्राणि कुकृत्या पुष्पितः सदा । पैशुन्यं तस्य सौगन्ध्यमज्ञानं फलमेव हि ॥ छद्मपाषण्डचौराश्च कूटाः क्रूराश्च पापिनः । पक्षिणो मोहवृक्षस्य मायाशाख्याः समा- श्रिताः ॥ अज्ञानन्तु फलं तस्य रसोऽधर्म्मफलस्य हि । भावोदकेन संवृद्धस्तस्य सत्त्वात् स तु प्रियः ॥ अधर्म्मस्तस्य सुरभिः क्लेदश्च मधुरायते । तादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥ तस्य च्छायां समाश्रित्य यो नरः परिवर्त्तते । फलानि तस्य योऽश्नाति सुपक्वानि दिने दिने ॥ फलानान्तु रसेनैव अधर्म्मेण तु पोषितः । सुसंपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ॥” इति पाद्मे भूमिखण्डे ११ अध्यायः ॥



Correction: