वाचस्पत्यम्
यति || पु० यतते मोक्षाय यत—इन् । १ परिव्र जके संन्यासिनि अमरः । यम्यते जिह्वा यत्र यम—क्तिन् । २ छन्दोग्रन्थविख्याते जिह्वाया २ विश्रामस्थाने उच्चारणकालविच्छेदे स्त्री । सा च “क्वचित् छन्दस्यास्ते यतिरभिहिता पूर्वकृतिमिः पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च” इत्याद्यु- क्त्यासुप्तिङन्तपदान्ते एव छन्दोग्रन्थानुसारेण जिह्वाया- विश्रामरूपाच्चारणाभावरूपा । ३ विधवायां ४ रागे ५ सन्धौ च शब्दच० ६ पाठविच्छेदे मेदि० । ७ निकारे ८ विष्णौ हेमच० । ९ वाद्याङ्गप्रबन्धभेदे सङ्गीतदा० । यद् + परि- माणे—डति । १० यत्परिमाणे त्रि० ब० व० ।
शब्दकल्पद्रुमः
यति || त्रि बहुवचनान्तयावच्छब्दार्थकः । यतगुलि इति भाषा । यच्छब्दात् निपातनात् डतिप्रत्य- येन निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, ऋग्वेदे । १० । १५ । १३ । “त्वं वेत्थ यति ते जातवेदः ।” “यति ते यावन्तस्ते भवन्ति ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
यतिः || पुं, (यतते चेष्टते मोक्षार्थमिति । यत् + “सर्व्वधातुभ्य इन् ।” उणा ० ४ । ११७ । इति इन् ।)
निर्ज्जितेन्द्रियग्रामः । तत्पर्य्यायः । यती २ । इत्यमरः । २ । ७ । ४४ ॥ भिक्षुः ३ संन्यासिकः ४ कर्म्मन्दी ५ रक्तवसनः ६ परि- व्राजकः ७ तापसः ८ पराशरी ९ परिकाङ्क्षी १० मस्करी ११ पारिरक्षकः १२ । इति हेम- चन्द्रः ॥ निकारः । विरतिः । इति तत्रैव नानार्थे ॥ * ॥
तस्य वाराणस्यां वासो यथा, —
“अष्टौ मासान् विहारस्य यतीनां संयतात्म- नाम् । एकत्र चतुरो मासानब्दं वा निवसेत् पुनः ॥ अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते । यतिभिर्मोक्षकामैश्च अविमुक्तं निषेव्यते ॥” इति मात्स्ये अविमुक्तमाहात्म्ये १५९ अध्यायः ॥ यतिधर्म्मो यथा, —
“अलावुं दारुपात्रञ्च मृण्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायद्भुवोऽब्रवीत् ॥ एककालं चरेद्भैक्ष्यं न प्रसज्जत विस्तरे । भक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्बिनिर्गतः ॥ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्त्तयेत् ॥ इन्द्रियाणां निरोधेन रागद्बेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ अवेक्षेत गतीर्नॄणां कर्म्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥ विप्रयोगं प्रियैश्चैव संयोगञ्च तथाप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ देहादुत्क्रमणञ्चास्मात् पुनर्गर्भे च सम्भवम् । योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ अधर्म्मप्रभवञ्चैव दुःखयोगं शरीरिणाम् । धर्म्मार्थप्रभवञ्चैव सुखसंयोगमक्षयम् ॥ सूक्ष्मताञ्चान्ववेक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥ दूषितोऽपि चरेद्धर्म्मं यत्र तत्राश्रमे रतः । समः सर्व्वेषु भूतेषु न लिङ्गं धर्म्मकारणम् ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ अह्ना रात्र्या च यान् जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् समाचरेत् ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ प्राणायामैर्द्दहेद्दोषान् धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् । उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः । ध्यानयोगेन सम्पश्येत् गतिमस्यान्तरात्मनः ॥ सम्यग्दर्शनसम्पन्नः कर्म्मभिर्न निवध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्म्मभिः । तपसश्चरणैश्चोग्रैः साधयन्तीह तत् पदम् ॥ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्म्मावनद्धं दुर्गन्धिपूर्णं मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्बिमुच्यते ॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ यदा भावेन भवति सर्व्वभावेषु निष्पृहः । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ अनेन विधिना सर्व्वांस्त्यक्त्वा सङ्गान् शनैः शनैः । सर्व्वद्बन्द्बविनिर्म्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ध्यानिकं सर्व्वमेवैतत् यदेतदभिशब्दितम् । न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत् ॥ इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेहपाप्मानं परं ब्रह्माधिगच्छति ॥” इति मानवे ६ अध्यायः ॥ (ब्रह्मणः पुत्त्रविशेषः । यथा, श्रीमद्भागवते । ४ । ८ । १ । “सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्द्ध्वरेतसः ॥” नहुषपुत्त्रः । यथा, महाभारते । १ । ७५ । ३० । “यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् । नहुषो जनयामास षट्सुतान् प्रियवाससि ॥” विश्वामित्रपुत्त्रः । यथा, महाभारते । १३ । ४ । ५७ । “आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा । नवतन्तुर्वकनखः सयनो यतिरेव च ॥” त्रि । कर्म्मसूपरतोऽयष्टा । यथा, ऋग्वेदे । ८ । ३ । ९ । “येनायतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥” “येन सुवीर्य्येण यतिभ्यः कर्म्मसूपरतेभ्योऽयष्टृभ्यो जनेभ्यः सकाशात् धनमाहृत्य भृगवे महर्षये प्रयच्छसि ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
यतिः || स्त्री (यम्यते रसनात्रेति । यम् + “स्त्रियां क्तिन् ।” ३ । ३ । ९४ । इति क्तिन् । “अनु- दात्तोपदेशवनतितनोत्यादीनामिति ।” । ६ । ४ । ३७ । इति मकारलोपः ।)
पाठविच्छेदः । इति मेदिनी । ते, ४६ ॥ जिह्वेष्टविश्रामस्थानम् । यथा, —
“यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्व्वाच्या निजेच्छया ॥ क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्ब्बकृतिभिः पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥ श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् । इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ॥” इति च्छन्दोमञ्जरी । १ । १६ — १८ ॥ (नियम्यते इति । यम् + क्तिन् । यतते चेष्टते व्रतादिरक्षार्थं इति वा । यत + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
विधवा । रागः । सन्धिः । इति शब्दरत्नावली ॥ वाद्याङ्ग- प्रबन्धविशेषः । यथा, —
“यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् । गनपः सारिगोणी च नादश्च कथितं तथा । प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥” यथा दं थातः । इत्येकताल्यां यतिः । इति सङ्गीतदामोदरः ॥ (सा त्रिविधा । यथा, मार्कण्डेयपुराणे । २३ । ५३ । “चतुर्विधं पदं तालं त्रिःप्रकारं लयत्रयम् । यतित्रयं तथा तोद्यं मया दत्तं चतुर्विधम् ॥”)