संस्कृत-शब्दकोशः

युक्ता युग

युक्ति

वाचस्पत्यम्

युक्ति ||‍ स्त्री युज—क्तिन् । १ न्याये मेदि० । २ व्यवहारे ३ अनुमाने ४ तत्साधकलिङ्गज्ञानादौ स्वपक्षसाधकविपक्षबाधकप्रमा- णोपन्धासे तर्कप्र० व्यवहारे कानि चित् वेषाञ्चिल्लि- ङ्गानि नारदेनोक्तानि यथा “उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च पातकः । केशाकेशिगृहीतश्च युगपत् पारदारिकः । कुद्दालवाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः । प्रत्यक्ष- चिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम्” । “युक्तिरर्थावधारणम्” सा० द० उक्ते ६ नाटकाङ्गविशेषे च । तत्र न्याये “श्रुत्यो- र्विरोधे न्यायस्तु बलवानर्थनिर्णये । युक्तिहीनविचारे तु धर्महानिः प्रजायते” मीमांसकाः ।


शब्दकल्पद्रुमः

युक्तिः || स्त्री (युज्यते इति । युज् + क्तिन् ।)
न्यायः । इति मेदिनी । ते, ४७ ॥ (यथा, पञ्चतन्त्रे । ३ । १६३ । “तस्य तद्बचनं श्रुत्वा धर्म्मयुक्तिसमन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥”)
लोकव्यवहारः । इति व्यवहारमातृका ॥ “धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मतः ॥” इति स्मृतिश्च ॥ अनुमानम् । यथा, —
“युक्तिष्वप्यवसन्नासु सपथेनैनमर्द्दयेत् ॥ युक्तिरनुमानम् । अनुमानेन विज्ञेयं न स्यातां पत्रसाक्षिणौ । इत्येकवाक्यत्वादिति विवरणम् ॥ अथ युक्तिः । नारदः । उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥ कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः ॥ प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यता ह्येते पारुष्ये तु परीक्षणम् ॥ प्रत्यक्षचिह्नैः रुधिराक्तखड्गादिभिः । पारुष्ये वाक्पारुष्ये । शङ्खः । लोप्तहस्तश्च चौर इति । नारदः । अभीक्ष्णं दिश्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥ यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा त्वं मे ऋणं धारयसीति पुनःपुनर्दिश्यमानोऽपि न तद्बाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युप- गतोऽयमर्थ इत्यवधार्य्य तमर्थमृणिकाय दापये- दित्यर्थः ।” इति व्यवहारतत्त्वम् ॥ * ॥
नाट्या- लङ्कारविशेषः । तस्य लक्षणम् । यथा । “युक्ति- रर्थावधारणम् । उदाहरणं यथा, — ‘यदिसमरमपास्य नास्ति मृत्यो- र्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ॥’ इति वेणीसंहारः ।” इति साहित्यदर्पणम् ॥ (उपायः । यथा, कथासरित्सागरे । ३९ । ५६ । “तत्स शृङ्गभुजो देशान्निर्व्वास्येताचिरात् यथा । तां पुत्त्र ! चिन्तयेर्युक्तिं त्वमन्यैर्भ्रातृभिः सह ॥” भोगः । यथा, सूर्य्यसिद्धान्ते । ७ । २४ । “त्रिचतुःकर्णयुक्त्याप्तास्ते द्बिघ्नास्त्रिज्यया हताः । स्फुटाः स्वकर्णस्तिथ्याप्ता भवेयुर्मानलिप्तिकाः ॥” प्रमाणविशेषः । तद्यथा, —
“अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते वाक्ययोजनमर्थयोजनञ्च ।” “असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् । स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ॥ व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये चाप्य- निर्म्मलाः । लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसाधनम् ॥ यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा । प्रबोध्यस्य प्रकाशार्थास्तथा तन्त्रस्य युक्तयः ॥” इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)



Correction: