वाचस्पत्यम्
वचन || न० वच—ल्युट् । १ कथने २ वाक्ये अमरः ३ शुण्ठ्याम् शब्दच० कर्त्तरि ल्यु । व्याकरणोक्ते संख्यार्थके सुप्- तिङस्वरूपे प्रत्यये च । “सदृशं त्रिषु लिङ्गेषु विभक्ति- वचनेषु च” ।
शब्दकल्पद्रुमः
वचनं || क्ली (उच्यतेऽनेनेति । श्लेष्मनाशकत्वादस्य तथात्वम् । वच् + ल्युट् ।)
शुण्ठी । इति शब्द- चन्द्रिका ॥ वाक्यम् । तत्पर्य्यायः । “इरा सरस्वती ब्राह्मी भाषा वाणी च सारदा । गिरा गीश्च गिरां देवी गीर्देवी भारती- श्वरी ॥ वाग्वाचा वचसामीशा वाग्देवी वर्णमातृका । वचनं भाषितं चोक्तिर्व्याहारो लपितं वचः ॥ वाग्देवीवचसोरेष पर्य्यायः परिकीर्त्तितः । यथास्थानं यथायोग्यं भेद ऊह्यो मनीषिभिः ॥” इति शब्दरत्नावली ॥ * ॥
(यथा, हितोपदेशे । “असेवितेश्वरद्वारमदृष्टविरहव्यथम् । अनुक्तक्लीववचनं धन्यं कस्यापि जीवनम् ॥”)
तत्तु त्रिविधम् । यथा, — वशिष्ठ उवाच । “वचनं त्रिविधं शैल लौकिके वैदिके तथा । सर्व्वं जानाति शास्त्रज्ञो निर्म्मलज्ञानचक्षुषा ॥ असत्यमहितं पश्चात् सांप्रतं श्रुतिसुन्दरम् । सुबुद्धिशत्रुर्व्वदति नहि तेषां कदाचन ॥ आपदः प्रीतिजनकं परिणामसुखावहम् । दयालुर्धर्म्मशीलश्च बोधयत्येव बान्धवम् ॥ श्रुतिमात्रात् सुधातुल्यं सर्व्वकाले सुखावहम् । सत्यं सारं हितकरं वचसां श्रेष्ठमीप्सितम् ॥ एवं स त्रिविधं शैल नीतिसारनिरूपितम् । कथ्यतां त्रिषुमध्ये किं वदामि वाक्यमीप्सि- तम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४१ अध्यायः ॥ विभक्तिः । सा तु स्यादिस्त्यादिश्च । यथा । “क्तेरेकैकं वचनं क्रमात् क्वद्बव्वसंज्ञं स्यात् ।” इति मुग्धबोधव्याकरणम् ॥ तद्वैदिकपर्य्यायः । श्लोकः १ धारा २ इळा ३ गौः ४ गौरी ५ गान्धर्व्वी ६ गभीरा ७ गम्भीरा ८ मन्द्रा ९ मन्द्राजनी १० वाशी ११ वाणी १२ वाणीची १३ वाणः १४ पविः १५ भारती १६ धमनिः १७ नाळीः १८ मेना १९ मेळिः २० सूर्य्या २१ सरस्वती २२ निवित् २३ स्वाहा २४ वग्नुः २५ उपब्दिः २६ मायुः २७ काकुत् २८ जिह्वा २९ घोषः ३० स्वरः ३१ शब्दः ३२ स्वनः ३३ ऋक् ३४ होत्रा ३५ गीः ३६ गाथा ३७ गणः ३८ धेना ३९ ग्नाः ४० विपा ४१ नग्ना ४२ कशा ४३ धिषणा ४४ नौः ४५ अक्षरम् ४६ मही ४७ अदितिः ४८ शची ४९ वाक् ५० अनुष्टुप् ५१ धेनुः ५२ वल्गुः ५३ गल्दा ५४ सरः ५५ सुपर्णी ५६ वेकुरा ५७ । इति सप्तपञ्चाशत् वाङ्नामानि । इति वेदनिघण्टौ । १ । ११ ॥