संस्कृत-शब्दकोशः

वत् वत्सक

वत्स

वाचस्पत्यम्

वत्स ||‍ न० वस—स । १ वक्षःस्थले अमरः । २ गवादिशिशौ द्वि- व० । ३ वत्सरे पु० अमरः । ४ चन्द्रवंशे राजभेदे च पु० ।


शब्दकल्पद्रुमः

वत्सं || क्ली (वदतीति । वद् व्यक्तायां वाचि + “वृतॄवदिहनिकमिकषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।)
वक्षः । इत्यमरः ॥


शब्दकल्पद्रुमः

वत्सः || पुं, (वदतीति । वद् + “वृतॄवदिहनिकमि- कषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।)
वर्षः । गोशिशुः । वाछुर इति भाषा । तत्- पर्य्यायः । शकृत्करिः २ तर्णकः ३ । इति वैश्य- वर्गे नानार्थे चामरः ॥ दोग्धा ४ दोषकः ५ दोषः ६ । इति शब्दरत्नावली ॥ रौहिणेयः ७ बाहुलेयः ८ तन्तुभः ९ । सद्योजातस्य तस्य पर्य्यायः । तर्णकः १ तर्णभः २ तन्तुभः ३ कचः ४ । इति जटाधरः ॥ पुत्त्रादिः । इति मेदिनी । से, ११ ॥ वाछा इति भाषा । (यथा, भागवते । ४ । ८ । ११ । “न वत्स ! नृपतेर्धिष्णं भवानारोढुमर्हति । न गृहीतो मया यत् त्वं कुक्षावपि नृपात्मज ! ॥” दिवोदासपुत्त्रः । द्युमानित्यादीन्यस्य नामा- न्तराणि । यथा, भागवते । ९ । १७ । ५ — ६ । “तत्पुत्त्रः केतुमालस्य यज्ञे भीमरथस्ततः । दिवोदासो द्युमांस्तस्मात् प्रतर्द्दन इति स्मृतः ॥ स एव शक्रजित् वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥” देशभेदः । यथा, कथासरित्सागरे । ९ । ४ । “अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्म्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥”)



Correction: