संस्कृत-शब्दकोशः

वरुड वरुणात्मजा

वरुण

वाचस्पत्यम्

वरुण ||‍ पु० वृ—उनन् । पश्चिमाशापतौ १ जलेशे स्वनामख्याते देवभेदे अमरः । २ जले मेदि० ३ सूर्य्ये च विश्वः । ५ द्वीप- भेदे वराहशब्दे दृश्यम् । ६ काशीस्थे नदीभेदे स्त्री । काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा “प्रयागे वसते नित्यं योगशायी तु विश्रुतः । चरणाद्द- क्षिणात्तस्य विनिर्याता सरिद्वरा । विश्रुता वरु(र)णेत्येर्व सर्वपापहरा शुभा । सव्यात् पादात् द्वितीया च असि- रित्येव विश्रुता । ते उभे च सरित्श्रेष्ठे लोकपूज्ये बभूवतुः । तयोर्मध्ये तु यो देशस्तत्क्षेत्रं योगशा- यिनः । त्रैलोक्यप्रभवं तीर्थं सर्वपापप्रमोचनम् । न तादृशोऽस्ति गगने न भूम्यां न रसातले । तत्रास्ति न- गरी पुण्या ख्याता वाराणसो शुभा” । ७ स्वनामख्यातवृक्षभेदे पु० अमरः “वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान् । निहन्ति गुल्मवातास्र क्रिमींश्चीष्णोऽग्निदोपनः । कषायो मधुरस्तिक्तः कटुक्तो रूक्षको लघुः” भावप्र० ।


शब्दकल्पद्रुमः

वरुणः || पुं, (वृणोति सर्व्वं व्रियते अन्यैरिति वा । वृ + “कृवृदारिभ्य उनन् ।” उणा० ३ । ५३ । इति उनन् ।)
देवताविशेषः । स च कश्य- पस्य अदितिनाम्नि पत्न्यां जातः । तस्य चर्षण्यां पत्न्यां भृगुवाल्मीकी पुत्त्रौ जातौ । इति श्रीभागवतमतम् ॥ स च जलाधिपतिः पश्चिम- दिक्पालश्च । तत्पर्य्यायः । प्रचेताः २ पाशी ३ यादसांपतिः ४ अप्पतिः ५ । इत्यमरः ॥ यादः- पतिः ६ अपांपतिः ७ । इति तट्टीकायां भरतः ॥ जम्वुकः ८ मेघनादः ९ जलेश्वरः १० परञ्जयः ११ दैत्यदेवः १२ जीवनावासः १३ नन्दपालः १४ । इति शब्दरत्नावली ॥ वारि- लोमः १५ कुण्डली १६ रामः १७ सुखाशः १८ । इति जटाधरः ॥ * ॥
जलाशयोत्सर्गादौ अस्य पूजाविधिर्यथा । हयशीर्षपञ्चरात्रे । “अथ वाप्यामतः कुर्य्यात् सूक्ष्मरत्नादिनिर्म्मि- तम् । द्विभुजं हंसपृष्टस्थं दक्षिणेनाभयप्रदम् ॥ वामेन नागपाशन्तु धारयन्तं सुभोगिनम् । सलिलं वाममाभोगं कारयेद्यादसांपतिम् ॥ वामे तु कारयेद्वृद्धिं दक्षिणे पुष्करं शुभम् । नागैर्नदीभिर्यादोभिः समुद्रैः परिवारितम् ॥ कृत्वैवं वरुणं देवं प्रतिष्ठाविधिनार्च्चयेत् ॥” पुष्करं तत्पुत्त्रम् । ततो ध्यानम् । “प्रसन्नवदनं सौम्यं हिमकुन्देन्दुसन्निभम् । सर्व्वाभरणसंयुक्तं सर्व्वलक्षणलक्षितम् ॥ किरणैः शीतलैः सौम्यैः प्रीणयन्तमवस्थितम् । लावण्यामृतधाराभिस्तर्पयन्तमिव प्रजाः ॥ राजहंससमारूढं पाशव्यग्रकरं शुभम् । पुष्कराद्यैर्गणैः सर्व्वैः समन्तात् परिवारितम् ॥ गौर्य्या कान्त्या चानुगतं नदीभिः परिवारितम् । नागैर्यादोगणैर्युक्तं ब्रह्माणमिव चापरम् ॥ सृष्टिसंहारकर्त्तारं नारायणमिवापरम् ॥” इति ध्यात्वा पूजयेत् । वरुणमन्त्रोद्धारस्तु तत्रैव । “अष्टाविंशान्तबीजेन चतुर्द्दशस्वरेण च । अर्द्धेन्दुविन्दुयुक्तेन प्रणवोद्दीपितेन च ॥” तेन ॐ वौँ इति मन्त्रः । “प्रतिमायां स्थितिं कृत्वा प्रणवेन निबोधयेत् । पूजयेद्गन्धपुष्पाद्यैः सान्निध्यं पाशमुद्रया ॥” स्थितिं प्रतिष्ठाम् । निबोधयेत् अन्तर्गताङ्गुष्ठ- मुष्टिभ्यां निबोधमुद्रां दर्शयेत् । नमस्कारमन्त्रस्तु “वरुणो धवलो जिष्णुः पुरुषो निम्नगाधिपः । पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥” इति जलाशयोत्सर्गतत्त्वम् ॥ * ॥
वृष्ट्यर्थं अस्य जपनीयमन्त्रा यथा, —
“पुष्करावर्त्तकैर्मेघैः प्लावयन्तं वसुन्धराम् । विद्युद्गर्ज्जितसन्नद्धं तोयात्मानं नमाम्यहम् ॥ यस्य केशेषु जीमूतो नद्यः सर्व्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥” इति ध्यात्वा मानसैरुपचारैर्व्वरुणं आराध्य मूलमन्त्रं जपेत् । प्रजापतिरृषिस्तृष्टुप् छन्दो वरुणो देवता एतावद्राष्ट्रमभिव्याप्य सुवृष्ट्यर्थं जपे विनियोगः । मन्त्रस्तु गुरुमुखात् ज्ञेयः । स यथा । ॐ वृष्टिरिहानाव्यन्तरयो मरुता- स्पृशतीं गच्छ वशापग्निर्दृत्वा दिवं गच्छत तेनो वृष्टिमावह । इति मन्त्रस्य सहस्रजपानन्तरं सुवृष्टिमती वसुमती भवति । अत्र सन्देहो न कार्य्यः ॥ * ॥
मन्त्रान्तरम् । कूर्च्चं लक्ष्मीं तथा मायां तेन हुँ श्रीँ ह्रीं इति त्र्यक्षरमन्त्रं नाभि- मात्रजलमध्ये प्रविश्य यदि जपति तदा अना- वृष्टिं हरति महावृष्टिर्भवति । अष्टसहस्रजपः संख्या चतुर्गुणा तेन द्वात्रिंशत्सहस्रजपः । दिनत्रयानन्तरं चतुर्थदिने जपसमाप्तिः । “नाभिमात्रजले स्थित्वा जपेन्मन्त्रं प्रसन्नधीः । वसुसहस्रं जपेन्मन्त्रं त्रिदिनं व्याप्य यत्नतः ॥” अथवा । “षट्सहस्रं जपेन्निर्त्य तदा वृष्टिर्भवेत् ध्रुवम् ।” इति षट्कर्म्मदीपिका ॥ * ॥
पुस्तकान्तरे वं इति एकाक्षरमन्त्रोऽपि जप्य- त्वेन लिखितः ॥ * ॥
महापातकिनो दण्डधनं गृहीत्वा राजा वरुणाय प्रतिपादयेत् । यथा, —
“नाददीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ इशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्व्वस्य जगतो ब्राह्मणो वेदपारगः ॥” इति मानवे ९ अध्यायः ॥ * ॥
स्वनामख्यातवृक्षः । तत्पर्य्यायः । वरुणः २ सेतुः ३ तिक्तशाकः ४ कुमारकः ५ । इत्यमरः । २ । ४ । २५ ॥ श्मरीअघ्नः ६ सेतुकः ७ वराणः ८ शिखिमण्डनः ९ । इति शब्दरत्नावली ॥ श्वेत- वृक्षः १० श्वेतद्रुमः ११ साधुवृक्षः १२ तमालः १३ मारुतापहः १४ । अस्य गुणाः । कटु- त्वम् । उष्णत्वम् । रक्तदोषशीतवातहरत्वम् । स्निग्धत्वम् । दीपनत्वम् । विद्रधिरोगजित्त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान् । निहन्ति गुल्मवातास्रक्रिमींश्चोष्णोऽग्निदीपनः । कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥” इति भावप्रकाशः ॥ अन्यच्च । “वरुणोऽनिलशूलघ्नो भेदी चोष्णोऽश्मरीहरः । पुष्पं वरुणजं ग्राहि पित्तघ्नं आमवातजित् ॥” इति राजवल्लभः ॥ * ॥
जलम् । इति मेदिनी । णे, ६५ ॥ सूर्य्यः । इति विश्वः ॥ (यथा, महाभारते । १ । ६५ । १५ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥” मुनिगर्भजातकश्यपपुत्त्रविशेषः । इति महाभार- तम् । १ । ६५ । ४२ ॥)



Correction: