संस्कृत-शब्दकोशः

वाष्पीका वासक

वास

वाचस्पत्यम्

वास ||‍ पु० वस—निवासे आच्छादने वा आधारकर्मादौ घञ् । १ गृहे २ वस्त्रे ३ अवस्थाने हेमच० । वास—अच् । ४ वासके शब्दर० । तत्रार्थे स्त्रीत्वमपि तत्र टाप् । ५ सुगन्धे च । स्थानभेदेऽवस्थाननिषेधी यथा “तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते । पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापपुद्धिपु । ये त्वेवमभिजानन्ति वृत्तेनाभि- जनेन च । तेषु साधुषु व स्तव्यं सवासः श्रेयसे मतः” मात्स्ये २८ अ० । “धार्मिकैरावृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते । हिमवद्बिन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्विजः । अर्द्धक्रोशा- न्नदोकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ । न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः” कूर्मपु० १५ अ० । “धनिनः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्” चाणक्य


वाचस्पत्यम्

वास ||‍ सुरभीकरणे अद० चु० उभ० सक० सेट् । वासयति ते अववासत् त ।


शब्दकल्पद्रुमः

वास || त् क उपसेवायाम् । इति कविकल्पद्रुमः । (अदन्त चुरा०-पर०-सक०-सेट् ।)
उपसेवा तु गुणान्तराधानाम् । अववासद्वस्त्रं चन्द्रनः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वासः || पुं, (वसन्त्यत्रेति । वस निवासे + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।)
गृहम् । इत्य- मरः ॥ (यथा, हरिवंशे । १७४ । ३४ । “उत्तिष्ठोत्तिष्ठ भद्रन्ते विषादं माकृथाः शुभे । नैवं विधेषु वासेषु भयमस्ति वरानने ! ॥” वास्यते इति । वास + घञ् ।)
वस्त्रम् । इति तट्टीका ॥ (वस + भावे घञ् ।)
अवस्थानम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १२८ । ५० । “विहारावसथेष्वेव वीरा वासमरोचयन् ॥”)
वासकः । इति शब्दरत्नावली ॥ सुगन्धिः । इति वासधात्वर्थदर्शनात् ॥ * ॥
स्थानविशेषे वासस्य कर्त्तव्याकर्त्तव्यत्वं यथा, — देवयान्युवाच । “वेदाहं तात बालापि कार्य्याणान्तु गतागतिम् । क्रोधे चैवाभिवादे वा वेद चापि बलाबलम् ॥ शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥ पुंसो येनाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ये त्वेवमभिजानन्ति वृत्तेनापि जनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेय उच्यते ॥” इति मात्स्वे २८ अध्यायः ॥ * ॥
अपि च । “धार्म्मिकैरावृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥ हिमवद्बिन्ध्ययोर्म्मध्यं पूर्ब्बपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्बिजः ॥ अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ॥ नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥” इति कौर्म्मे उपविभागे २५ अध्यायः ॥



Correction: