संस्कृत-शब्दकोशः

विटङ्कक विटपिन्

विटप

वाचस्पत्यम्

विटप ||‍ पुंन० । विटं विस्तारं वा पाति पिवति वा पा० क । १ शा- खायां, २ पल्लवविस्तारे अमरः । ३ स्तम्बे ४ पह्ववे च शब्दर० ५ विटपालके ६ तत्पायिनि च मेदि० “पिवति च पाति च यासकौ रहस्त्वाद् विट! विटपममुन्ददस्व तस्यै” माघः । ७ आदित्यपत्रे पु० राजनि० । ८ मुष्कवङ्क्षणान्तरस्थाने हेमच० ९ विटाधिपे मेदि० ।


शब्दकल्पद्रुमः

विटपः || पुं क्ली, (वेटति शब्दायते इति । विट + “विटपपिष्टपविशिपोलपाः ।” उणा० ३ । १४५ । इति कप्रत्ययेन निपातनात् साधुः ।)
शाखा- पल्लवसमुदायः । तत्पर्य्यायः । विस्तारः २ । इत्यमरः ॥ स्तम्बः ३ । इति मेदिनी । पे, २२ ॥ शाखा । (यथा, रघुः । १० । ११ । “बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥”)
पल्लवः । इति शब्दरत्नावली ॥ (यथा, ऋतु- संहारे । १ । २४ । “तरुविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥”)
क्ली, मुष्कवङ्क्षणान्तरम् । यथा, —
“विटपन्तु महाबीज्यमन्तरामुष्कवङ्क्षणम् ॥” इति हेमचन्द्रः ॥ (यथा, सुश्रुते । ३ । ६ । “वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्र षाण्ट्य- मल्पशुक्रता वा भवति ॥”)


शब्दकल्पद्रुमः

विटपः || पुं, (विटान् पातीति । पा + कः ।)
विटा- धिपः । पारदारिकश्रेष्ठः । इति मेदिनी । पे, २२ ॥ आदित्यपत्रः । इति राजनिर्घण्टः ॥



Correction: